अश्वत्थवृक्षः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

केरलॆ मलप्पुऱम् जिल्लायाम् ऎकः अश्वत्थः

अश्वत्थवृक्षः (कन्नाडे ಅರಳಿ)(आङ्ग्ले Peepul Tree) भारतीयानां सर्वेषां पवित्रतमः वृक्षः इति परिगणितः । एशियाखण्डस्य दक्षिणभागे अयं वृक्षः अधितया रोहन्ति । बोधिवृक्षः इति अस्य अपरं नाम । अस्य वृक्षस्य अधः एव तपः कृत्वा सिद्धार्थं बुद्ध अभवत् इति प्रतीतिः अस्ति । कर्णाटकभाषाया अरळि इत्यपि कथयन्ति । अयम् अश्वत्थः भारते सर्वत्र वर्धमानः कश्चन वृक्षविशेषः । पुराणकालतः अपि अयम् अश्वत्थः देवानां निवासस्थानम् इति ख्यातः अस्ति । अतः एव अयं वृक्षः सर्वत्र पूज्यभावनया पूज्यते । अयम् अश्वत्थः औषधीयसस्यत्वेन अपि परिगण्यते । अस्य वृक्षस्य त्वक्, फलं, पर्णं चापि औषधत्वेन उपयुज्यते । अस्य त्वचि “ट्यानिन्” अंशः अस्ति ।

इतरभाषाभिः अस्य अश्वत्थवृक्षस्य नामानि[सम्पादयतु]

अयम् अश्वत्थवृक्षः आङ्ग्लभाषयाSecred Fig इति उच्यते । सस्यकुले अयं Ficus religiosa इति कुले अन्तर्भवति । हिन्दीभाषया“पीपल्” इति, तेलुगुभाषया“रविचेट्टु” इति, तमिळ्भाषया “अरशमरम्” इति, मलयाळभाषया “अश्वत्थम्” इति, कन्नडभाषया“अरळि मर” अथवा “अश्वत्थ मर” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य अश्वत्थवृक्षस्य प्रयोजनानि[सम्पादयतु]

अस्य अश्वत्थवृक्षस्य रसः कषायः । अयं गुरुगुणयुक्तः, रूक्षः, वीर्यशीतः च । अयम् अश्वत्थः आकारस्य कारणात् वृक्षजातौ अन्तर्भवति तथैव औषधीयत्वस्य कारणात् औषधीयानां सस्यानां गणे अपि अन्तर्भवति ।
१. अस्य अश्वत्थस्य फलानां खादनेन मलबद्धता निवार्यते । जीर्णक्रिया वर्धते चापि ।
२. अस्य त्वचः चूर्णं व्रणस्य उपरि लेपयति चेत् व्रणः अपगच्छति । ५.०० ग्रां यावत् चूर्णं दिने द्विवारं उष्णजलेन सह उपयोक्तव्यम् ।
३. अस्य अश्वत्थस्य चूर्णं, वटवृक्षस्य चूर्णं, “बसरि” इत्यस्य वृक्षस्य चूर्णम्, औदुम्बरवृक्षस्य चूर्णं, “हूवरि” इत्यस्य वृक्षस्य चूर्णं च योजयित्वा जलं योजयित्वा सम्यक् क्वथनीयम् । (१:१६ प्रमाणम्, १ प्रमाणस्य चूर्णं, १६ प्रमाणस्य जलम्) जलं पादभागं यावत् भवेत् तावत् पर्यन्तम् अपि क्वथनीयम् । इदं कषायं “पञ्चवल्कल – कषायम्” इति उच्यते । इदं कषायं मुखे संस्थाप्य गण्डूषकरणेन मुखस्य पिटकाः अपगच्छन्ति । महिलानां श्वेतस्रावः अस्ति चेत् गर्भाशयस्य प्रक्षालनार्थम् अपि इदं कषायम् उपयोक्तुं शक्यते ।
 

पवित्रकः/अश्वत्थः
अश्वत्थवृक्षकः

सस्यशास्त्रीयं वर्गीकरणम्[सम्पादयतु]

मोरासिये कुले विद्यमानस्य अस्य सस्यस्य पैकस् रिलिजियोस् (Ficus religiosa) इति सस्यशास्त्रीयं नाम । अयं वृक्षः वृहद्रूपेण प्ररोहति वहुपर्णानि च भवन्ति । अल्पभारयुक्तानि पर्णानि वायुसञ्चारेन कम्पितानि विशिष्टं नादं जनयन्ति । मानवपाणिप्रमाणेन विशालानाम् एतेषां पर्णानाम् अग्रभागाः तीक्णाः भवन्ति।

प्रयोजनानि[सम्पादयतु]

अस्य काण्डस्य दारूणि बहूपयोगाय न भवन्ति । केवलम् इन्धनत्वेन उपयोक्तुं शक्यते । सजीववृक्षस्य काण्डात् कश्चन निर्यासः स्रवति । एषः सुवर्णाभरणनिर्माणे उपयोगार्थं भवति । पञ्च अग्निवृक्षेषु अयम् अन्यतमः । अस्य वृक्षस्य शाखानां सपत्रः परभागः समिद्रूपेण यज्ञयागदिषु उपयुज्यते । अस्य मूलस्य त्वक् आयुर्वेदीयौषधनिर्माणे उपयुज्यते । अयं श्लोकः वृक्षस्य गरिमां सूचयति ।

अश्वत्थमेकं पिचुमन्दमेकं, न्यग्रोधमेकं दशतिन्त्रिणीकम् ।
कपित्थबिल्वामलकी त्रयञ्च, पञ्चाम्ररोपी नरकं न पश्येत् ।।

अश्वत्थस्य सुन्दरं पर्णम्


"http://sa.wikipedia.org/w/index.php?title=अश्वत्थवृक्षः&oldid=270081" इत्यस्माद् पुनः प्राप्तिः