अश्विनी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते अश्विनी । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् अश्विनी भवति प्रथमं नक्षत्रम् । अश्विनी इति नाम वराहमिहिरेण ऐदम्प्राथम्येन उपयुक्तम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

अश्विनीं दर्शयति मेषमानचित्रम्

आकृतिः[सम्पादयतु]

तुरगमुखाश्विनी त्रीणि - अश्वमुखस्य आकृतौ विद्यमानानि त्रीणि नक्षत्राणि ।

सम्बद्धानि अक्षराणि[सम्पादयतु]

चू चे चो ला -अश्विनीनक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

अश्विनीनक्षत्रस्य अधिपतिः अश्वीनीकुमारौ । एतौ देवानां वैदौ स्तः ।

तदश्विनौ अश्वयुजोपयाताम् । शुभं गमिष्ठौ सुयमेभिरश्वैः ।
स्वं नक्षत्रं हविषा यजन्तौ मध्वा सम्पृक्तौ यजुषा समक्तौ ॥
यो देवानां भिषजौ हव्यवाहौ विश्वस्य दूतौ अमृतस्य गोपौ ।
तौ नक्षत्रं जुजुषाणोपयातां नमोऽश्विभ्यां कृणुमोऽश्वयुगभ्याम् ॥

अश्विनीकुमारः सुनियन्त्रितैः अश्वैः सह अश्विनीनक्षत्रेण सह आगच्छन् अस्ति । इदमस्ति शुभम् । भवतः नक्षत्रस्य हविषा यजन् अस्ति । मधुना युक्तः अस्ति । यजुषा प्रकाशितः अस्ति । देववैद्यः, हव्यवाहः, विश्वदूतः, अमृतस्य संरक्षकः, कर्मफलदाता अस्ति । तस्मै नमः । सः अश्विन्यां वसति ।

आश्रिताः पदार्थाः[सम्पादयतु]

अश्विन्यामश्वहराः सेनापतिवैद्यसेवकास्तुरगाः ।
तुरगारोहा वणिजो रूपोपेतास्तुरगरक्षाः ॥

अश्वहरा अश्वग्राहकाः । सेनापतयश्चमृनाथाः । वैद्याः कायचिकित्सकाः । सेवकाः सेवानिरताः । तुरगा अश्वाः । तुरगारोहा अश्वगामिनः । वणिजः किराताः क्रयविक्रयनिरताः । रूपोपेताः रूपसम्पनाः सुरूपाः । तुरगरक्षा अश्वपतयः । एते सर्व एवाऽश्विन्याम् ।

स्वरूपम्[सम्पादयतु]

यात्राभेषजभूषणविद्याश्वेभाजशिल्पवस्त्राद्यम् ।
उत्सवमङ्गलकार्यं कर्त्तव्यं दस्रनक्षत्रे ॥

अश्विनीनक्षत्रे यात्रा, औषधम्, आभूषणम्, विद्या, अश्व-गजारोहम्, शिल्पकर्म, वस्त्रम्, उत्सवादिमङ्गलकार्याणि कर्तुं शक्यते ।

लघुसंज्ञकनक्षत्राणि[सम्पादयतु]

लघु हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु ।
शिल्पौषधयानादिषु सिद्धिकराणि प्रदिष्टानि ॥

अथ क्षिप्राणि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह -
हस्तः प्रसिद्धः । आश्विनमश्विनी । पुष्यस्तिष्यः । केचिदभिजिदत्रेच्छन्ति । एतन्नक्षत्रत्रयं चतुष्टयं वा लघु क्षिप्रमित्यर्थः । एतानि पण्ये विक्रये । रतौ पुंरतौ । ज्ञाने शास्त्रारम्भे । भूषणे अलङ्करणे । कलासु चित्रगीतवाद्यनृत्यादिषु । शिल्पकर्मणि तक्षककर्मलोहकारकर्मादौ । औषधे द्रव्यप्रयोगे । याने यात्रायाम् । आदिग्रहणादृणग्रहणे धनप्रयोगे च । एतेषु कार्येषु सिद्धिकराण्युक्तानि ।


पश्य[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=अश्विनी&oldid=270626" इत्यस्माद् पुनः प्राप्तिः