अहमदाबादमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अहमदाबादमण्डलम्
मण्डलम्
गुजरातराज्ये अहमदाबादमण्डलम्
गुजरातराज्ये अहमदाबादमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters अहमदाबाद
Area
 • Total ८,०८७ km
Population
 (२०११)
 • Total ७२,०८,२००
Languages
 • Official गुजराती, हिन्दी
Website amdavad.gujarat.gov.in
मध्यगुजरात

अहमदाबादमण्डलं (गुजराती: અમદાવાદ જિલ્લો, आङ्ग्ल: Ahmedabad district) गुजरातराज्ये स्थितं प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अहमदाबाद इति महानगरम् । संस्कृतभाषायाम् अहमदाबाद इत्यस्य महानगरस्य पुरातनं नाम कर्णावती इति आसीत् ।

भौगोलिकम्[सम्पादयतु]

अहमदाबादमण्डलस्य विस्तारः ८,०८७ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे खेडामण्डलं, पश्चिमे सुरेन्द्रनगरमण्डलम्, उत्तरे मेहसाणामण्डलं, दक्षिणे 'गल्फ् आफ् खम्भात' अस्ति । अस्मिन् मण्डले १,०१७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले नव नद्यः प्रवहन्ति । ताः यथा- साबरमतीनदी, खारी, मेश्वो, भोगावो, ॐकारः, भादर, नाईका, उतावली, रोध ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् अहमदाबादमण्डलस्य जनसङ्ख्या ७२,०८,२०० अस्ति । अत्र ३७,८७,०५० पुरुषाः ३४,२१,१५० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०३ अस्ति । अत्र साक्षरता ८६.६५% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- १ अहमदाबाद २ बरवाला ३ बावला ४ दस्क्रोई ५ देत्रोज-रामपुरा ६ धन्धूका ७ धोलका ८ माण्डल ९ राणपुरं १० साणन्द ११ विरमगाम

कृषिः वाणिज्यं च[सम्पादयतु]

कार्पासः, जीरकः, कपिशाकं ('क्याबिज्'), बृहज्जम्बीरं, कूष्माण्डः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । समग्रे गुजरातराज्ये कूष्माण्डस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । कार्पासस्य उत्पादनेऽपि अस्यैव मण्डलस्य आद्यं स्थानम् अस्ति । इदं मण्डलं गुजरातराज्यस्य वाणिज्यकेन्द्रं, प्रमुखं तन्त्रोद्यमकेन्द्रं च अस्ति । तत्रापि अहमदाबाद इत्यस्मिन् महानगरे बहवः उद्यमाः, यन्त्रागाराः च सन्ति । अहमदाबाद इतीदं महानगरं प्रमुखं वस्त्रोत्पादनकेन्द्रम् अस्ति । अतः अहमदाबादमहानगरं 'म्याञ्चेस्टर् आफ् इण्डिया' इति प्रसिद्धम् आसीत् । 'ड्रग्स् एण्ड् फार्मस्युटिकल्स्', 'आटोमोबैल्स्', 'एञ्जिनियरिङ्ग्', 'इलेक्ट्रोनिक्स्', 'बायोटेक्नोलजी', 'इन्फर्मेषन्-टेक्नोलजी', प्रवासोद्यमः इत्येते अस्य मण्डलस्य अन्ये उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

साबरमती आश्रमः

अस्मिन्नेव मण्डले विद्यमानम् अडालज-वाव इत्येतत् विश्वपारम्परिकस्थानेषु अन्यतमम् अस्ति । इदं प्रसिद्धं वीक्षणीयस्थलम् अस्ति । विश्वस्य प्रसिद्धेषु वस्त्रसङ्ग्रहालयेषु अस्मिन् मण्डले स्थितः क्यालिको-सङ्ग्रहालयः सुप्रसिद्धः अस्ति । अस्मिन् मण्डले स्थितं विज्ञान-नगरम् ('सायिन्स्-सिटि') अपरं वीक्षणीयस्थलम् अस्ति । नळसरोवरपक्षिधाम तु अस्य मण्डलस्य सुप्रसिद्धं वीक्षणीयस्थलम् अस्ति । अहमदाबादमहानगरस्य अधिष्ठात्रीदेव्याः भद्रकाल्याः अतिपुरातनं प्रसिद्धं मन्दिरं प्रमुखं वीक्षणीयस्थलम् अस्ति । अहमदाबादमहानगरे विद्यमानं 'सरखेज-रोजा' इति किञ्चन यवनधर्ममन्दिरम् (मस्जिद्) अपि वीक्षणीयस्थलम् अस्ति । गान्धि आश्रमः, 'सिटि-म्यूजियम्', 'शेकिङ्ग्-मिनरेट्स्', स्वामिनारायणमन्दिरं च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अहमदाबादमण्डलम्&oldid=479942" इत्यस्माद् प्रतिप्राप्तम्