अहमदाबाद्
| अहमदाबाद् અહમદાબાદ અહમદાબાદ |
|||
|---|---|---|---|
| — Metropolitan City — | |||
| Clockwise from top: Skyline at Ashram Road, Sidi Saiyyed Masjid, Kankaria Lakefront, Ellis Bridge, Delhii Darwaja, Hatheesing Temple | |||
| विकटनाम(नि):
|
|||
| Coordinates: 23°02′N 72°35′E / 23.03°N 72.58°ECoordinates: 23°02′N 72°35′E / 23.03°N 72.58°E | |||
| Country | भारतम् | ||
| State | गुजरातराज्यम् | ||
| District | अहमदाबाद् | ||
| संस्थापकः | Sultan Ahmed Shah | ||
| सर्वकारः | |||
| • प्रकारः | Mayor–Council | ||
| • Mayor | Asit Vora | ||
| • Deputy Mayor | Darshna Vaghela | ||
| • Municipal commissioner | Guruprasad Mohpatra | ||
| विस्तीर्णम् | |||
| • Metropolitan City | ४६४ Square km (१७९.२ Square mile) | ||
| औन्नत्यम् |
|
||
| जनसङ्ख्या (2011) | |||
| • Metropolitan City | ५ | ||
| • श्रेणी | 5th | ||
| • महानगरम् | ६ | ||
| • Metro rank | [ | ||
| IST (UTC+5:30) | |||
| ZIP code(s) | 380 0XX | ||
| क्षेत्रसूचीसङ्ख्या | 079 | ||
| वाहनपञ्जीकरणम् | GJ-1 & GJ-27 | ||
| Sex ratio | 1.11 ♂/♀ | ||
| Literacy | 86.65% | ||
| Spoken languages | गुजराती, हिन्दी and आङ्ग्लभाषा | ||
| जालस्थानम् | www.egovamc.com | ||
| Source: Census of India. | |||
अहमदाबादनगरं प्राचीननगरम् अस्ति । पूर्वं गुजरात् राज्यस्य राजधानी आसीत् । प्रथमः अहमदषा क्रिस्ताब्दे १४११ तमे वर्षे एतन्नगर निर्मितवान् । अतः एव गुजरातराज्यस्य सुन्दरनगरेषु अहमदाबाद् अपि अन्यतमम् अस्ति । मोगलबादषाहस्य जहाङ्गीरस्य आस्थानमागतः आङ्ग्लराजः सर् थामस् रो अहमदाबादनगरं लण्डन् नगरमिव अतीव सुन्दरं, भारते एव न विश्वेऽपि सुप्रसिध्दम् इति उक्तवान् । मोगलबादषाहः औरङ्गजेबः अहमदाबादनगरं भारतस्य आभरणं सौन्दर्यं च इति उक्तवान् । हिन्दुयवनशैल्याश्रितानि अनेकानि भवनानि अस्मिन्नगरे सन्ति । अहमदषाहस्य समाधौ हिन्दूजैनस्तम्भशिलालेखाभिलेखाः सन्ति । २६० स्तम्भाः १५ वर्तुलच्छदाः अत्र सन्ति । राज्ञी रूपमतीसमाधिः जामीयवनदेवालयः राजापुरबीबी, सिद्दि बषिरयवनदेवालयः अन्ययवनशिल्पाः च सन्ति । इत्तीसिङ्गजैनदेवालयः मौण्ट् अबू देवालयः इवास्ति । अत्र गोपुराणि पूर्वं दोलायमानानि आसन् इति वदन्ति । कङ्कारीसरोवरः ३४ कोणयुक्तः ६० मीटरदीर्घः अहमदाबादनगरस्य विहारस्थानमस्ति । एषः सा.श.१४५१ तमे वर्षे निर्मितः अस्ति । अहमदाबादनगरे अनेके वस्तुसङ्ग्रहालयाः सन्ति । तेषु अपूर्ववस्तूनां सङ्ग्रहः अस्ति । कङ्कारीसरोवरः बालानां विहारस्थानमपि अस्ति । षादीवाग् उद्यानमपि अतीव सुन्दरम् अस्ति । अहमदाबादनगरं वस्त्रनिर्माणाय अतिप्रसिद्धम् अस्ति । प्राचीननगरभागे स्वमीनारायणमन्दिरम् अस्ति । अहमदाबादनगरस्य मुख्य वाहननिस्थानं लालदर्वाजा इति विख्यातमस्ति । प्रवासिनां सर्वत्र गमनाय इतः वाहनव्यवस्था ,एकदिनप्रवासव्यवस्था चास्ति ।
विमानमार्गः [सम्पादयतु]
अहमदाबादनगरं मुम्बयी, देहली जयपुरम् इत्यादिनगरेभ्यः विमानयनसञ्चारः अस्ति । धूमशकटयानमार्गः मुम्बयी, देहली नगरेभ्यः अपि धूमशकटयानसम्पर्कः अस्ति । वसतिव्यवस्थार्थं तु अनेकानि वसतिगृहाणि सन्ति ।