आकाशवाणी(AIR)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
All India Radio
आकाशवाणी
प्रकारः Government Organisation
देशः India
उपलभ्यम् National
ध्येयोवाक्यम् Bahujan Hitaya Bahujan Sukhaya[१]
मुख्यकार्यालयः Sansad Marg, New Delhi - 110001, India,
स्वामी Prasar Bharati
शुभारम्भः
1930
जालस्थानम्
www.allindiaradio.org, www.newsonair.nic.in
आकाशवाणी कार्यालयः, कोल्काता

AIR इति अस्याः संक्षेपनाम अधिकृतरूपेण आकशवाणी इति जनाः कथयन्ति । एषा भारतस्य रेडियोप्रसारस्य माध्यमम् अस्ति । एषा प्रसारभारत्याः अङ्गम् अस्ति । एषा १९६३ तमे वर्षे आरब्धा । अद्य एषा राष्ट्रियदूरदर्शनप्रसारस्य सहयोगिनी भूत्वा कार्यं करोति । विश्वस्य बृहत् रेडियोसम्पर्केषु एषा अपि अन्यतमा । एतस्याः प्रधानः कार्यालयः नवदेहल्यां आकाशवाणीभवने अस्ति । आकशावाणीभवने नाटकविभागः, FM विभागः राष्ट्रियसेवा च कार्यं कुर्वन्ति । दूरदर्शनकेन्द्रं (देहल्याः) आकाशवाणीभवनस्य षष्ठे अट्टे अस्ति ।

इतिहासः[सम्पादयतु]

१९२३ तमे वर्षे ब्रिटिश-इण्डिया-प्रसारभारती आरब्धा । तया प्रसारितान् कार्यक्रमान् बाम्बे-रेडियो-कूटेन, अन्यैः रेडियोकूटैः सह प्रसार्यते स्म । १९२६तमवर्षस्य सन्ध्यनुगणं भारतीयप्रसारकेन्द्रं (स्वायत्त-इण्डियन् ब्राड् कास्टिङ्ग् कम्पनी) आरब्धम् । रेडियोकेन्द्रद्वयं चालयितुम् अनुमतिं प्राप्तवत् । बाम्बेकेन्द्रं तावत् १९२७ तमे वर्षे जुलै मासे २३तमे दिनाङ्के प्रारब्धम् । कोलकताकेन्द्रं १९२७ तमे वर्षे आगस्ट् २६ तमे दिनाङ्के आरब्धम् । १९३० तमवर्षस्य मार्चप्रथमे दिनाङ्के पिहितम् । भारते इण्डियन् स्टेट् ब्राड्कास्ट्सेवा (भारतीयराज्यप्रसारसेवाकेन्द्रम् ) (ISBN) आरब्धा १९३२ तमे वर्षे मेमासे ।१९३६ तमे वर्षे जून् मासे अष्टमे दिनाङ्के आल् इण्डिया रेडियो (AIR: १९५६ तः आकाशवाणी इति अपि निर्दिशन्ति ) इति नामान्तरं प्राप्तम् । १९३९ तमवर्षस्य अक्टोबर् प्रथमे दिनाङ्के बाह्यसेवा अपि आरब्धा । (पुष्टुभाषया अपि समकाले सेवा आरब्धा) एतत् जर्मनीदेशतः पुनःप्रसारः इति कथ्यते स्म । एतत् आफ्गानीस्थानम् इरान्, अरबराष्ट्राणां कृते निर्देशितम् । १९४७ तमे वर्षे यदा भारतं स्वतन्त्रं अभवत् तदा केवलं षट् केन्द्राणि आसन् । तानि देहली-बाम्बे-कोल्कत्ता-मद्रास्-लख्नो-तिरुचिकेन्द्राणि । तदा आहत्य २७५,००० रेडियो यन्त्राणि आसन् । १९५७ तमे वर्षे अक्टोबर् मासे तृतीये दिनाङ्के विविधभारती-केन्द्रं रेडियोसिलोन् अनेन सह योजितम् । दूरदर्शनप्रसारः अपि १९५९ तमे वर्षे आकशवाण्याः अङ्गत्वेन आरब्धः । परन्तु १९७६ तमे वर्षे एप्रिल् प्रथमे दिनाङ्के आकाशवाणीतः दूरदर्शनं पृथक्कृतम् । FM प्रसारः मद्रास्नगरे (इदानीन्तनचन्नैनगरे) १९७७ तमे वर्षे जुलैमासस्य २३ तमे दिने आरब्धः ।१९९० तमे वर्षे इतोऽपि विस्तृतः ।

विविधाः सेवाः[सम्पादयतु]

आकाशवाणी अनेकविभागैः युक्ता अस्ति । भारतेषु सर्वत्र विविधप्रदेशेषु/भाषाणां कृते विभागाः सन्ति । अस्याः जनप्रियविभागः तावत् विविधभारतीप्रसारकेन्द्रम् । विविधभारत्याः सुवर्णमहोत्सवः २००७ तमे वर्षे आचरितः । केवलं विविधभारतीविभागः दत्तांशाधारितगीतयुक्तः अस्ति । हिन्दीचलनचित्रसङ्गीतस्य सुवर्णयुगम् इति कथ्यमानस्य कालघट्टस्य गीताभिः युक्तः (स्थूलरूपेण १९४० तः १९८० पर्यन्तं यानि गीतानि सन्ति तानि सुवर्णयुगस्य गीतानि) । एषः विभागः अन्यविभागस्य अपेक्षया धनम् आनाययति । एष विभागः मुम्बै तथा अन्यनगरेषु जनप्रियः । एष विभागः चलनचित्रगीतं, हास्यकार्यक्रमाः, इत्यादिभिः युक्तः बहुविधकार्यक्रमाणां कृते अवसरं प्रकल्पितवान् । विविधभारतीकेन्द्रम् अधः प्रदत्तेषु नगरेषु विभिन्न MW (आवर्तनसमूहः) यच्छद् अस्ति । विविधभारत्यां प्रसार्यमाणाः केचन कार्यक्रमाः।

हवा-महल् कादम्बरीः नाटकानि च आधारीकृत्य लिखितानि रेडियोनटकानि ।
स्याण्टोजिन् के महफिल्-हास्यकणिकाः विनोदानि च

अन्यविभागाः[सम्पादयतु]

प्रधानवाहिनी ( प्रादेशिकाः – ११५ केन्द्राणि )
स्थानीयानि आकाशवाणी केन्द्राणि( ८३ केन्द्राणि )
राष्ट्रियवाहिनी ( रात्रौ : १९८८ वर्षे मेमासस्य १८ तमे दिनाङ्के आरब्धा) नागपुरतः प्रधानावर्तनतः (१५६६ kHz)कार्यं करोति ।
स्थानीयवार्ताविभागः (एतेन सह newsonair.com अपि)

२७ भाषासु बाह्यसेवाः[सम्पादयतु]

नाटकस्य केन्द्रघटकः (CDU) एषः अखिलभारत-आकाशवाण्याः प्रधानः निर्माणघटकः अस्ति । गुणयुक्तकार्यक्रमाणां निर्माणदायित्वं स्वीकृतवान् । एष घटकः क्रीडायाः सरणिक्रीडायाः कार्यक्रमाणां प्रसारणं करोति । चिरञ्जीत्, सत्येन्दर् शरत्, निर्मल अगर्वाल्, ड्यनिष् इक्बाल् इत्यादयः ख्याताः नाटककाराः निर्मापकाः च एतेन घटकेन सह सम्बद्धाः । एतेन घटकेन निर्मितानि नाटकानि पुनः प्रादेशिकभाषासु अनूद्य प्रसार्यन्ते । १९६० तः अधुना यावत् १५०० तः अधिकानि नाटकानि निर्मितानि । अधुना अस्मिन् घटके पुरातनमूलकृतयः (कथावस्तु) तथा निर्मितनाटकानाम् अमूल्यः भण्डारम् अस्ति ।

FM वाहिन्यः ( FM रेन्बो -१२ केन्द्राणि , FM गोल्ड् -४ केन्द्राणि, FM –शास्त्रीयसङ्गीतम्/अमृतवर्षिणी- एकं केन्द्रम्)
आकाशवाण्याः विभागानां भागशः पट्टिका अत्र प्रदत्ता ।

पूर्वप्रादेशिकसेवाविभागः कोल्काता-आकाशवाणी-केन्द्रम् पूर्णपट्टिका: http://www.allindiaradio.org/schedule/fre_[नष्टसम्पर्कः] er.html

  1. भागल्पुर्
  2. कटक्
  3. दर्भाङ्ग्
  4. जेम्शेड्पुर्
  5. कोल्कत्त
  6. पाटना
  7. राञ्ची

AIR FM कोल्कत्तामध्ये केन्द्रद्वयम् अस्ति १०७ FM रेबो तथा १००.२ FM गोल्ड् उत्तरप्रादेशिकसेवाविभागः पूर्णपट्टिका: http://www.allindiaradio.org/schedule/fre_[नष्टसम्पर्कः] nr.html ईशान्यप्रादेशिकसेवाविभागः पूर्णपट्टिका: http://www.allindiaradio.org/schedule/fre_[नष्टसम्पर्कः] ner.html अगर्तला गोहाति शिलाङ्ग् पश्चिमसेवाविभागः पूर्णपट्टिका: http://www.allindiaradio.org/schedule/fre_[नष्टसम्पर्कः] wr.html

अहमदाबाद् औरङ्गाबाद् भोपाल् चिन्दावर चातर्पुर् ग्वालियर् इन्दोर् जल्गान् मुम्बै मुम्बै नागपुर् पणजि पूणे राज्कोट् रत्नगिरि शोल्लपुर् साङ्ग्ली दक्षिणप्रादेशिकसेवाविभागः पूर्णपट्टिका: http://www.allindiaradio.org/schedule/fre_[नष्टसम्पर्कः] sr.html अदिलाबाद् बेङ्गलूरु चन्नै कोयम्बत्तूरु गुल्बर्ग हैद्राबाद हैद्राबाद कोळिकोड् मदुरै नगर्कोयिल् उदकमण्डलम् पाण्डिचेरि पोर्ट्ब्लेर् तिरुवनन्तपुरम् अनन्तपुरि तिरुचिरापल्लि तिरुनेल्वेली विजयवाड विशाखपट्ट्णम् गौतम् बाह्यसेवाः भारतात् बहिः अपि २८ भाषासु आक्शवाणी प्रसारसेवां ददाति ।बाह्यसेवाविभागः प्रतिवेशिदेशेषु प्रसारणाय मध्यमगात्रत्रङ्गस्य उपओगः भवति । प्रधानतया अधिकसामर्थ्ययुतालघुतरङ्गप्रसारः अपि भवति । भाषाभिः सह निर्दिष्टराष्ट्रानां कृते प्रसारसेवां यच्छन्ति , तेन सागरोत्तरसेवा अपि प्रकल्पिता अस्ति ।एतस्यां सेवायां प्रतिदिनं ८ १/४(सपादाष्टवादनस्य) वादनं याव्त् आङ्लभाषया कार्यक्रमान प्रसारयति ।अन्ताराष्ट्रियश्रोतॄन् मनसि निधाय एषा सेवा प्रकल्पिता अस्ति । युववाणी- आकाशावाण्याः युववाणी सेवा १९६९ तमे वर्षे जुलै मासे २१ दिने आरब्धा । युवजनाः अधिकतया भागं वहेयुः इति कारणतः, तान् प्रेरयितुं विविधकथावस्तुभिः प्रयोगद्वारा उत्तमस्तरस्य तथा श्रेष्ट-आकाशवाणी अनुभवं उत्पादितः। एष १०१७ kHz मध्ये प्रसारितः भवति । एतं विहाय २९४.९ मीटर् अस्य अनुरूपम् । प्रतिदिन सायं अस्य प्रसारः भवति ।परन्तु दशकत्रयात् अनिरीक्षितकार्यक्रमाणां कारणतःसञ्चारेध्वनिवर्धकस्य कारणतः एषः कार्यक्रमः न प्रसार्यते ।तथापि युववाणी कार्यक्रमः तस्य एव शाश्वतं स्थानं प्राप्तः । भारतस्य समूहमाध्यमे केचन ख्यातनामानः युववाण्यां स्ववृत्तिजीवनस्य मार्गक्रमणम् आरब्धवन्तः।प्रख्यातः साक्ष्यचित्रनिर्माता प्रफुल् थक्कर् वदति –“ युववाणी कार्यक्रमः अस्माकं महाविद्यालयस्य दिनेषु दायित्वपाठनेन सह नववायुमण्डलं निर्माणम् अकरोत् । तथा एव आकाशवाणी नाम न केवलम् अविवेकस्य व्यक्तिगतहास्यकणिकानां वा उल्लेखनं इति अवगतम् । युववाण्यां अनेके प्रख्यातनामानः प्रदर्शननेतारः तेषु रोशन् अब्बास्, वि.जे गौरव् कपूर्, एम्मिक्षितिज् शर्मा, डि .जे. प्रथम् इत्यादयः सन्ति । दूरवाणीद्वारा वार्ताप्रसारसेवा- अखिलभारतीय-आकाशवाणी तावत् दूरवाणीद्वारा स्वसेवां नवदेहल्यां १९९८ वर्षे फेब्रवरि २५ दिनाङ्के प्रारब्धा । एषा सेवा STD, ISD. तथा स्थानीयदूरवाणीद्वारा अपि प्राप्यते । एषा सेवा नवनगरेभ्यः प्रसारिता भवति । तानि नगराणि अहमदाबाद्, भोपाल्, गौहाति,ग्वालियार्, जबल्पुर्,जयपुर्,कोल्कत्त, लख्नो,राञ्ची, शिम्ला तिरुवनन्तपुरं च । आङ्लभाषातः हिन्दीभाषातः अपि प्रतिघण्टं वार्तासङ्ग्रहः साक्षात् http://www.newsonair.com Archived २०१२-०६-२१ at the Wayback Machine जाल्तः श्रोतुं शक्यते । जालतः MP2 क्रमव्यवस्थायां वार्तां साक्षात् श्रोतुं शक्यते http://www.newsonair.com/BulletinsInd..html[नष्टसम्पर्कः] द्वारा पठितुं शक्यते । ।http://www..newsonair.com/index_regional.htm[नष्टसम्पर्कः] जालपुटतः आकाशवाणीवार्तासङ्ग्रहः नवप्रादेशिकभाषासु उपलभ्यते । (तमिलु, कन्नड, गुजराति,बेङ्गाली, मराठी, इशान्या, पञ्जाबी, तेलुगु, उर्दू च )

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "Mission Of AIR". 
"https://sa.wikipedia.org/w/index.php?title=आकाशवाणी(AIR)&oldid=481429" इत्यस्माद् प्रतिप्राप्तम्