आचार्यज्ञानसागरः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

कविपरिचयः[सम्पादयतु]

आचार्यज्ञानसागरः १८९१ तमे ईशवीयाब्दे राजस्थानस्य सिकरमण्डलस्थे राणैलीग्रामे जैनवैश्यपरिवारे जनी लेभे । जनकोऽस्य चतुर्भुजो जननी च धृतवारीदेवी । कविरयं १९५९ तमे ई०वर्षे जैनमुनिदीक्षां प्राप्तवान् । ततः पूर्वम् अस्य भूरामलशास्त्रीति नाम आसीत् । अयं १९७३ ई०वर्षे पार्थिवदेहं त्यक्तवान्।

रचनापरिचयः[सम्पादयतु]

आचार्यज्ञानसागरो जयोदयं वीरोदयं सुदर्शनोदयं समुद्रदत्तचरितं चेति महाकाव्यचतुष्टयं प्रणीतवान् ।

जयोदयम्[सम्पादयतु]

अस्मिन् महाकाव्ये अष्टाविंशतिसर्गेषु हस्तिनापुरनरेशस्य जयकुमारस्य जीवनचरितं वर्णितम् । जयकुमारस्य विवाहः काशीराजकन्यया सुलोचनया सह बभूव । जयकुमारो धीरोदात्तनायकः । जिनेन्द्रोपासकः सच्चरित्रोऽयं राजा लोकस्यासारतामनुभुय पत्न्या सह तपश्चकार । शरीरत्यागानन्तरं ताभ्याम् उत्तमगतिर्लब्धा ।

विरोदयम्[सम्पादयतु]

अस्मिन् महाकाव्ये २२ सर्गाः सन्ति । अत्र तीर्थङ्करस्य महावीरस्य जीवनचरितम् उपदेशाश्च वर्णिताः । तेन सह इन्द्रभूत्यादीनां चरितान्यपि वर्णितानि । कविरत्र जैनधर्मस्य तदनुयायिनाञ्च वर्तमानदशाया अपि यथार्थंचित्रणं कृतवान् ।

सुदर्शनोदयम्[सम्पादयतु]

अस्मिन् महाकाव्ये महावीरस्वामिनः समकालिकस्य वैश्यपुत्रस्य सुदर्शनस्य चरितमुपनिबद्धम् अत्र सुदर्शनस्य जितेन्द्रियतायाः वैराग्यादीनां विशेषतानाञ्च हृद्यं वर्णनमस्ति । केवलज्ञानमवाप्य स कर्मक्षयानन्तरम् मोक्षमाप्नोति ।

समुद्रदत्तचरितम्[सम्पादयतु]

नवसर्गात्मके समुद्रदत्तचरिते नायकस्य समुद्रदत्तस्य विविधजन्मनां चरितानि वर्णितानि । अन्तिमजन्मनि केवलज्ञानमवाप्य स मुक्तिं लभते ।

काव्यकला[सम्पादयतु]

आचार्यज्ञानसगर उद्भटो जैन दार्शनिकः रससिद्धः कविश्च । उत्कृष्टमस्य कवित्वम् । अनेन यद्यपि जैनसिद्धान्तानां प्रचाराय काव्यरचना कृता तथापि उपदेशबाहुल्येन काव्यत्वस्य अपकर्षो न जातः । अनेन सरलया शैल्या जैनदर्शनसिध्दान्ताः काव्यरोपे प्रस्तुताः ।
ज्ञानसागरस्य भाषाविलासः परमरमणीयः । अस्य भाषा सरसा परिष्कृता, प्राञ्जला, प्रौढा, पाण्डित्यपूर्णा हृद्यानवद्या च । भाषायां लावण्यं माधुर्यं गाम्भीर्यं च सर्वत्र राजन्ते ।
ज्ञानसागरस्य महाकाव्येषु शान्तिरसस्यैव प्राधान्यम् । सर्वे नायकाः धीरप्रशान्ताः । जीवनस्य असारताम् अनुभूय ते विरक्ता भवन्ति । श्रृङ्गारकरुणादीनां रसानामङ्गत्वेन पारिपाको जातः ।
ज्ञानसागराय श्रीहर्षस्य अलंकृतकाव्यशैली रोचते । अयं विभन्नानाम् अलङ्काराणां विन्यासे परमनिपुणः । अनेन स्वकाव्ये प्रायशः सर्वत्रैव अलङ्कार प्रयोगः कृतः । कलापक्षस्य प्राधान्यादस्य अल्ङ्कारप्रयोगे न स्वाभाविकः । स कलाप्रदर्शनहेतुकः प्रतीयते । श्लेषोऽस्य प्रियोऽलङ्कारः । कविरयं स्वस्य काव्यविष्यकमान्यतां श्लेशोपमया व्यनक्ति -

सालंकारा सुवर्णा च सरसा चानुगामिनी ।
कामिनीव कृतिर्लोके कस्य नो कामसिध्दये ॥ (जयोदय २८/८३)

"http://sa.wikipedia.org/w/index.php?title=आचार्यज्ञानसागरः&oldid=261610" इत्यस्माद् पुनः प्राप्तिः