आणन्दमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आणन्दमण्डलम्
मण्डलम्
गुजरातराज्ये आणन्दमण्डलम्
गुजरातराज्ये आणन्दमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters आणन्द
Area
 • Total २,९५१ km
Population
 (२०११)
 • Total २०,९०,२७६
 • Density ६३१/km
Languages
 • Official गुजराती, हिन्दी
Website anand.gujarat.gov.in

आणन्दमण्डलम् (गुजराती: આણંદ જિલ્લો, आङ्ग्ल: Anand district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति आणन्द इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

आणन्दमण्डलस्य विस्तारः २,९५१ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य मध्यभागे वर्तते । अरब्बीसमुद्रे विद्यमानस्य 'गल्फ् आफ् खम्भात्' इत्यस्य समीपे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे वडोदरामण्डलं , पश्चिमे अहमदाबादमण्डलम् , उत्तरे खेडामण्डलं, दक्षिणे भरुचमण्डलम् अस्ति । अस्मिन् मण्डले ७७७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा- साबरमतीनदी, महीसागरः, सेढी, नविदा ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् आणन्दमण्डलस्य जनसङ्ख्या २०,९०,२७६ अस्ति । अत्र १०,८८,२५३ पुरुषाः १०,०२,०२३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६३१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६३१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२१ अस्ति । अत्र साक्षरता ८५.७९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- १ आणन्द २ आङ्कलाव ३ बोरसद ४ खम्भात ५ पेटलाद ६ तारापुरं ७ सोजीत्रा ८ उमरेठ

कृषिः वाणिज्यं च[सम्पादयतु]

न केवलं गुजरातराज्ये अपि तु समग्रे भारते क्षीरोत्पादने आणन्दस्य प्रथमं स्थानम् अस्ति । अत्र प्रमुखं कारणम् अमूलगुजरातराज्यस्य मण्डलेषु कृषिक्षेत्रे इदं मण्डलम् अन्यतमम् अस्ति । कदलीफलोत्पादने गुजरातराज्यस्य मण्डलेषु अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । कदलीफलं, पपितफलं ('पपाया'), आम्रफलम्, आलुकम्, आम्लकी, पलाण्डुः, कपिशाकम् ('क्याबिज्'), कार्पासः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । क्षीरोत्पादनम्, आहारसंस्करणं, कृषिः, 'एञ्जिनियरिङ्ग्', रासायनिकोद्यमः, 'सिमेण्ट्', नौनिर्माणोद्यमः इत्यादयः अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

'फ्लो-आर्ट्-ग्यालरी' इत्यत्र हस्तकलाप्रदर्शिनी अस्ति । आणन्दमण्डले विद्यमानः अमूल क्षीरोत्पन्नसहकारिसङ्ग्रहालयः प्रसिद्धं वीक्षणीयस्थलम् अस्ति । करमसदे विद्यमानं सरदार् वल्लभभाई पटेलस्मारकं, वीरविठ्ठलभाई पटेलस्मारकं च सुन्दरं वीक्षणीयस्थलम् । एतत् स्मारकं परितः रमणीयम् उद्यानम् अस्ति । आणन्द इत्यस्मात् नगरात् षष्ठिकिलोमीटर् दूरे खम्भात अस्ति । अत्र उपलभ्यमानानि कौशेयवस्त्राणि गुजरातराज्ये प्रसिद्धानि सन्ति । एकादशे शतके निर्मितः स्तम्भन-पार्श्वनाथ-जिनालयः आनन्दमण्डले विद्यमानं प्रसिद्धं जैनमन्दिरम् अस्ति । स्वामिनारायणमन्दिरं, दरबार घाट्, बी डी राव् कोलेज् सङ्ग्रहालयः च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=आणन्दमण्डलम्&oldid=458232" इत्यस्माद् प्रतिप्राप्तम्