आत्रेयी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

आत्रेयी (Atreyi) अत्रिमहर्षेः पुत्री । पौराणिकव्यक्तिः अत्रिमहर्षिः अस्य मन्वन्तरस्य सप्तर्षिषु, ब्रह्ममानसपुत्रेषु च अन्यतमः । एषः कठिनतपसा ब्रह्मविष्णुमहेश्वरान् पुत्ररूपेण प्राप्तवान् । चन्द्रमदत्तात्रेयदूर्वासाः एव ते त्रिमूर्तिस्वरूपाः । अत्रिः कर्दपब्रह्मणः पुत्रीम् अनसूयाम् ऊढवान् । एतयोः पुत्री एव महासाध्वी आत्रेयी । एषा अपि माता इव पतिपारायणा, तपस्विनी, धर्मनिष्ठा च आसीत् । अग्निदेवस्य पुत्रेण अङ्गीरसेन सह एतस्याः विवाहः अभवत् ।

कठोरः अङ्गीरसः[सम्पादयतु]

तप्ताग्नौ जन्म प्राप्तवान् इत्यनेन एतस्य स्वभावः बहु उग्रः आसीत् । पत्न्या सह एषः बहु रूक्षतया व्यवहरति स्म । कठोरवचनैः तस्याः अपमाननं करोति स्म । तथापि आत्रेयी बहुधैर्येण पत्या सह कुटुम्बिनी आभवत् । एतयोः अनेकाः पुत्राः जाताः । तेषु आङ्गीरसः अन्यतमः । बालाः अपि मात्रा सह प्रेम्णा व्यवहरतु इति पितरं प्रार्थितवन्तः । किन्तु प्रयोजनं नाभवत् । महर्षिः कठोरस्वभावं न त्यक्तवान् ।

अग्निदेवानुग्रहः[सम्पादयतु]

अतीवदुःखेन कदाचित् आत्रेयी अग्निदेवम् एवं प्रार्थयति हे लोकप्रकाशकप्रभो भवतः द्वारा देवेभ्यः हविः प्राप्यते । भवान् जठराग्निरूपेण समस्तप्राणीनां पोषणं कुर्वन् अस्ति । सर्वेषां दोषाणां निर्मूलनकर्ता भवान् एव । भवतः चरणौ भक्त्या प्रणमामि । दोषरहितां मां भवतः पुत्रः तिरस्करोति । निन्द्यावचनेन दुःखं जनयति । कथञ्चित् भवान् तस्मै शान्तिं ददातु । एतद् श्रुत्वा अग्निदेवः वदति, पुत्रि भवत्याः पतिः तप्ताग्नौ जन्मप्राप्तवान् अस्ति इत्यनेन सः उग्रः अस्ति । सः यदा प्रज्वलाग्नौ तपः कर्तुम् आरप्स्यते तदा भवती नद्याः रूपं धृत्वा तम् आप्लावितं करोतु । तेन सः शान्तः भविष्यति । एतद् श्रुत्वा अत्रेयी चकिता जाता । भोः श्वशुर अहं यानि कानि कष्टानि सोढुं शक्नोमि । किन्तु यथा तेन अग्निप्रवेशः न क्रियते तथा करोतु । तस्य ग्निप्रवेशं द्रष्टुम् अहं न शक्नोमि । तं रक्षतु इति प्रार्थयति । आश्वासयन् अग्निदेवः अवदत् पुत्रि भयं मास्तु सः मम पुत्रः, अग्निज्वालाभिः तस्य किञ्चिदपि भयं नास्ति । ज्वालाः तं न दहन्ति । जलं तं न निमज्जयति । वायुना सः उड्डीतः न भवति । विश्वासयतु केनापि वस्तुना तस्य कष्टं न भवति । अतः भवती अग्निस्वरूपेण नद्याः रूपं धृत्वा तं शान्तं करोतु । भवतः उपस्थितौ अहं कथं अग्निरूपं धरामि ? भवान् तस्य मातापिता । एवं सति नदीरूपं धृत्वा तं मयि कथं धारणां करोमि ? एषः अधर्मः किल ? एतद् कार्यं तु केवलं माता कर्तुं शक्नोति । मत्सदृशी न । क्षम्यताम् इति नम्रतया प्रार्थयत् । भवती मम पुत्रस्य पुत्रेभ्यः जन्म दत्तवती अस्ति । अतः भवती मम स्वरूपभूता अभवत् । पुत्रवती पत्नी मातुः रूपं धरति इति शास्त्रेण उच्यते । भवती तस्मै अपि मातुः प्रतिरूपा इव अस्ति । अतः शङ्का मास्तु । मम आज्ञां पालयतु । इति अग्निः स्नुषाम् उपादिशत्।

शान्तः पतिः ब्रह्मवादिनी पत्नी[सम्पादयतु]

महर्षिः अङ्गीरसः प्रज्वलिताग्नौ उपविश्य तपः आरब्धवान् । आत्रेयी नद्याः रूपं धृत्वा पतिम् आप्लाव्य प्रशान्तं कृतवती । तादृश्यां नद्यां निमज्ज्य, उत्थाय अङ्गीरसमहर्षेः स्वभावः प्रशान्तः अभवत् । तस्य उग्रस्वभावस्य परिवर्तनम् अभवत् । आत्रेय्याः नदीरूपं परुषी नाम्ना प्रख्यातः अस्ति । एषा परुषीनदी यत्र गङ्गानदीं मिलति तत् स्थानं परमपवित्रम् अस्ति । अस्मिन् सङ्गमस्थाने पुरुषाः स्नानतर्पणं च कुर्वन्ति चेत् ते समस्तपापैः मुक्ताः भवन्ति इति विश्वासः अस्ति । पत्न्याः साहसम् इष्ट्वा अङ्गीरसः ताम् अनुगृहीतवान् । परिणामेन सा केषाञ्चन वेदमन्त्राणां द्रष्टारा जाता । ब्रह्मवादिनी अपि जाता ।

"http://sa.wikipedia.org/w/index.php?title=आत्रेयी&oldid=261711" इत्यस्माद् पुनः प्राप्तिः