आनन्दीबेन पटेल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Anandiben Patel
आनन्दीबेन पटेल
આનંદીબેન મફતલાલ પટેલ
गुजरातराज्यस्य पञ्चदशः मुख्यमन्त्री
In office
२२/५/२०१४ – ०१/०८/२०१६
Governor ओम प्रकाश कोहली
Preceded by नरेन्द्र मोदी
Constituency घाटलोडिया
Assembly Member
for घाटलोडिया
In office
२०१२ – विद्यमाना
Assembly Member
for पाटण
In office
२००७ – २०१२
Assembly Member
for पाटण
In office
२००२ – २००७
Assembly Member
for माण्डल, अहमदाबादमण्डलम्
In office
१९९८ – २००२
संसद्सदस्यः, राज्यसभा
In office
१९९४ – १९९८
व्यैय्यक्तिकसूचना
Born २१/११/१९४१
खरोड, महेसाणामण्डलं, गुजरातराज्यं, भारतम्
Nationality भारतीया
Political party भारतीयजनतापक्षः
Spouse(s) मफतलाल पटेल
Children अनार पटेल, सञ्जय पटेल
Parents जेठाभाई पटेल
Residence अहमदाबाद
Occupation शिक्षिका
Cabinet गुजरातसर्वकारः
Portfolio शिक्षणमन्त्री, उच्चशिक्षणम् एवं तकनिकीशिक्षणं, स्त्री-बाल्य-कल्याणं, क्रीडाविभागः, युवा एवं सांस्कृतिकप्रवृत्तिविभागः (१९९८-२००७)
Website व्यकतिगतं जालस्थानम्
गुजरातराज्यस्य प्रप्रथमः महिलामुख्यमन्त्री

आनन्दीबेन पटेल ( /ˈɑːnəndbɛnə pətɛlə/) (गुजराती: આનંદીબેન પટેલ, आङ्ग्ल: Anandiben Patel) गुजरातराज्यस्य पञ्चदशः मुख्यमन्त्री । एषा गुजरातराज्यस्य प्रप्रथमा महिलामुख्यमन्त्री अस्ति[१] । उत्तरोत्तरं चतुर्वारं गुजरातविधानसभायाः निर्वाचने भारतीयजनतापक्षस्य विजये आनन्द्याः योगदानम् अपि महत्वपूर्णम् आसीत् । २०१४ तमस्य वर्षस्य ‘मई’-मासस्य एकविंशतितमे (२१/५/२०१४) दिनाङ्के नरेन्द्र मोदी इत्यस्य गुजरातराज्यस्य मुख्यमन्त्रित्वेन पदत्यागानन्तरम् आनन्दीबेन गुजरातराज्यस्य मुख्यमन्त्रित्वेन पदारूढा अभवत्[२]

जन्म, परिवारश्च[सम्पादयतु]

१९४१ तमस्य वर्षस्य 'नवम्बर'-मासस्य एकविंशतितमे (२१/११/१९४१) दिनाङ्के गुजरातराज्यस्य महेसाणामण्डलस्य विजापुर-उपमण्डलस्य खरोद-ग्रामे आनन्द्याः जन्म अभवत् । तस्याः पितुः नाम जेठाभाई आसीत् । तस्याः पिता जेठाभाई गान्धीवादी शिक्षकः, नेता च आसीत् ।

तस्याः पत्युः नाम मफतलाल पटेल अस्ति । तयोः द्वे अपत्ये स्तः । तयोः नाम क्रमेण अनार, सञ्जय च । तस्याः जामाता जयेशभाई प्रख्यातः समाजसेवकः अस्ति ।

शिक्षणं, विवाहश्च[सम्पादयतु]

तस्याः पिता जेठाभाई गान्धीवादी नेता आसीत् । अतः सः समाजस्य कुप्रथायाः विरोधी आसीत् । तस्मिन् काले जनाः स्वबालाः पठनाय विद्यालयं न प्रेषयन्ति स्म । परन्तु जेठाभाई स्वपुत्रीं नियततया विद्यालयं प्रेषयति स्म । यस्मिन् विद्यालये आनन्दीबेन पठन्ती आसीत्, तस्मिन् विद्यालये सप्तशतविद्यार्थिषु आनन्दीबेन एकाकिनी विद्यार्थिनी आसीत् । तत्र सप्तमकक्षां यावत् प्राथमिकशिक्षणं समाप्य विसनगरस्य समीपं नूतन नामके विद्यालये सा अष्टमकक्षायां प्रवेशं प्रापत् । आनन्दीबेन पठनेन सह क्रीडा-व्यायाम-योगविषयेषु अपि कुशाग्रा आसीत् । अतः माध्यमिकशिक्षणकाले सा “वीर-बाला”[३] इति पुरस्कारमपि प्रापत् ।

१९६० तमे वर्षे ‘एम् जि पञ्चाल विज्ञान’ नामके महाविद्यालये विज्ञानविषयं पठितुं प्रवेशं स्व्यकरोत् । महाविद्यालयस्य प्रथमवर्षस्य कक्षायां सर्वेषु विद्यार्थिषु सा एकाकिनी एव विद्यार्थिनी आसीत् । ततः सा विसनगरस्य एकस्मिन् महावद्यालये बी एस् सी इत्यस्य अन्तिमवर्षस्य अभ्यासं पूर्णम् अकरोत् ।

१९६२ तमस्य वर्षस्य ‘मई’-मासस्य षड्विंशतितमे (२६/५/१९६२) दिनाङ्के अष्टाविंशतितमे वयसि आनन्द्याः विवाहः सरसपुर आर्ट्स् एण्ड् कॉमर्स् महाविद्यालयस्य प्राध्यापकेन मफतलाल इत्यनेन सह अभवत् । वर्षत्रयं यावत् महेसाणा-पत्तने स्थित्वा १९६५ तमे वर्षे तौ सहपरिवारं कर्णावती-महानगरम् अगच्छताम् ।

विवाहानन्तरम् अपि सा अध्ययनं नास्थगयत् । कर्णावती-महानगरे सा अनुस्नातकस्य अभ्यासं प्रारभत । ततः तया शिक्षाशास्त्रिणः (B.Ed), शिक्षाचार्यस्य (M.Ed) च पदवी प्राप्ता । शिक्षाचार्यपदव्या सह तया सुवर्णपदकम् अपि प्राप्तम् ।

आजीविका[सम्पादयतु]

आनन्दीबेन इत्यनया प्रप्रथमा वृत्तिः (job) महिलाविकासगृह इत्याख्यायां संस्थायाम् आरब्धा । सा संस्था विधवामहिलानां सशक्तीकरणस्य कार्यं करोति स्म । ततः १९७० तमे वर्षे मोहिनीबा कन्या विद्यालये शिक्षकात्वेन तया कार्यं प्रारब्धम् । तस्मिन् विद्यालये सा विद्यार्थिनः विज्ञान-गणित-समाजशास्त्रादिविषयान् पाठयति स्म । ततः तस्मिन् विद्यालये पाठयन्ती सा स्वप्रतिभया प्रधानाचार्यस्य पदं व्यभूषयत्[३] । सततं त्रिंशत् वर्षाणि सा तस्य विद्यालयस्य विद्यार्थिनां मार्गदर्शनम् अकरोत् । त्रिंशद्वर्षाणि मोहिनीबा कन्या विद्यालयस्य प्रधानाचार्यस्य कार्यम् अकरोत् । ततः तया स्वैच्छिकनिवृत्तिः स्वीकृता ।

राजनीतिप्रवेशः[सम्पादयतु]

आनन्दीबेन यदा मोहिनीबा कन्या-विद्यालये प्रधानाचार्या आसीत्, तदा १९८७ तमे वर्षे सा शैक्षणप्रवासार्थं नर्मदानद्याः समीपम् एकं स्थलं गतवती आसीत् । तस्मिन् शैक्षणिकप्रवासे एका घटना घटिता । ततः तस्याः राजनैतिकप्रवासः आरब्धः । तस्याः घटनायाः उल्लेखः अधः कृतः ।

१९८७ तमे वर्षे यदा मोहिनीबा कन्या विद्यालयस्य विद्यार्थिनः नीत्वा कर्णावती-महानगरात् नर्मदायाः समीपम् एकं स्थलं सा शैक्षणिकप्रवासार्थम् अगच्छत्, तदा एका विद्यार्थिनी नर्मदायाः प्रवाहे अपतत् । नद्यां प्रवाहः अतिवेगवान् आसीत् । विद्यार्थिन्याः प्राणं रक्षितुं आनन्दीबेन अपि विद्यार्थिन्याः पृष्ठे नद्याम् अकूर्दत् । तया तस्याः विद्यार्थिन्याः प्राणः अपि रक्षितः । तस्याः घटनायाः अनन्तरं राज्यसर्वकारेण आनन्दीबेन इत्यस्याः वीरता-पुरस्कारेण सम्मानः अपि कृतः ।

तस्मिन् काले आनन्दीबेन इत्यस्याः पिता जेठाभाई भारतीयजनतापक्षस्य सक्रियनेता आसीत् । सः तस्याः परिचयं नरेन्द्र मोदी, शङ्करसिंह वाघेला इत्येताभ्यां सह अकारयत् । तौ आनन्दीबेन इत्येनां न्यवेदयेताम् यत्, “भवत्याः पुरुषार्थस्य, पराक्रमस्य अस्माकं पक्षे आवश्यकता अस्ति । भवती पक्षे महिलानां सशक्तीकरणे स्वयोगदानं ददाति चेत्, महती कृपा भविष्यति” इति । ततः सा भारतीयजनतापक्षस्य गुजरातप्रदेशस्य महिलाविभागस्य अध्यक्षत्वेन दायित्वं स्वयकरोत् ।

राजनीतिप्रवेशस्य सप्तवर्षानन्तरं १९९४ तमे वर्षे सा प्रप्रथमवारं गुजरातराज्यात् राज्यसभायाः संसद्सदस्यत्वेन चिता । ततः १९९८ तमे वर्षे गुजरातविधानसभायाः निर्वाचने माण्डलप्रदेशस्य जनसामान्यैः सा विधायकत्वेन चिता । तस्मिन् वर्षे केशुभाई पटेल रचिते मन्त्रिमण्डले सा शिक्षणमन्त्रिपदं व्यभूषयत् । राजनैतिककार्ये तया पक्षस्य अपेक्षया देशस्य कृते अधिकं ध्यानं प्रदत्तम् । यतो हि नरेन्द्र मोदी सदृशः देशभक्तनेता तस्याः मार्गदर्शकः आसीत् । २००१ तमे वर्षे केशुभाई पटेल इत्यस्य पदभ्रष्टतायाः काले आनन्दीबेन नरेन्द्र मोदी इत्यस्य विचारैः सम्मता आसीत् । अतः सा स्वसमर्थनं तस्मै अयच्छत् । मोदी इत्यस्य सर्वकारे अपि आनन्दीबेन शिक्षणमन्त्रित्वेन दायित्वम् अवहत् । ततः नरेन्द्र मोदी तस्यै नगरविकास-राजस्व(revenue)मन्त्रित्वेन कार्यभारम् अयच्छत् । राज्यसर्वकारस्य अतिमहत्त्वपूर्णसमितीनाम् अध्यक्षत्वेन अपि सा कार्यम् अकरोत् ।

व्यक्तित्वम्[सम्पादयतु]

अनुशासनप्रिया आनन्दीबेन कठोरप्रशासिका अस्ति । समयपालनं, स्वच्छता, कर्मठता तस्याः व्यवाहरेणैव ज्ञायते । अतः सा सहकार्यकर्तृभ्यः अपि तादृशीम् अपेक्षां धरते । सा मितव्ययिनी, मितभाषिणी व्यक्तिः अस्ति । विना कारणं हसनं, वचनं तस्यै न रोचते । कार्यकर्तृभिः सह चर्चाकाले सा गभीरतया विषयोपस्थापनं करोति । अतः आनन्दीबेन कार्यकर्तॄणां मित्रं नास्ति इति तस्याः आलोचना अपि भवति । परन्तु सा वदति यत्, “मम मुखे हास्यं दृष्ट्वा कार्यकर्ता कार्यं न करोति, अपि तु मम कथने तस्य, देशस्य च हितम् अस्ति इति दृष्ट्वा सः कार्यरतः भवति" इति ।

तस्याः स्वभावस्य विषये नरेन्द्र मोदी अवदत् –

“मम प्रियाः गुजरातीबान्धवाः ! गुजरातराज्यस्य शासनम् अहम् आनन्दीबेन इत्येतस्यै दत्त्वा गच्छन् अस्मि । एषा गुजरातराज्यस्य प्रप्रथमः मुख्यमन्त्री अस्ति, यया अभ्यासे सुर्वर्णपदकं प्राप्तम् आसीत् । यस्मिन् काले बालिकाः विद्यालयं न गच्छन्ति स्म, तस्मिन् काले सर्वेभ्यः प्रेरणारूपम् अध्ययनं कृत्वा तया समाजस्य मार्गदर्शनं कृतम् । एतादृशी व्यक्तिः गुजरातराज्यस्य प्रप्रथमः महिलामुख्यमन्त्री भविष्यति । शिक्षकत्वेन तया स्वदायित्वस्य योग्यरीत्या निर्वहणं कृतम् । श्रेष्ठशिक्षिकात्वेन तया राष्ट्रपतेः पदकम् अपि प्राप्तम् अस्ति । शिक्षिका अस्ति चेत् अनुशासनस्य आग्रहं तु सा करिष्यत्येव । केनापि क्षतिः कृता चेत्, सा तर्जनं (scold) तु करिष्यति एव । परन्तु तत् तर्जनं विद्यार्थिनां लाभाय एव भवति[४] ।”

आनन्दीबेन इत्यस्याः स्वभावविषये तस्याः पुत्री अनार पटेल वदति यत्, “मम माता यदा राजनीतिक्षेत्रे सक्रिया नासीत्, तदा सा स्वभ्रातृजस्य बाल्यविवाहम् अस्थगयत् । पुरा पटेल-समाजे बाल्यविवाहस्य कुप्रथा आसीत् । अतः मम मातुलः देवचन्दभाई तस्य पुत्रस्य बालविवाहस्य आयोजनम् अकरोत् । परन्तु “बालविवाहं मा कारयतु” इति मम माता तम् अबोधयत् । तथापि मम मातुलः तस्याः कथनं नाशृणोत् । अन्ततो गत्वा मम माता आरक्षकाणां साहाय्येन विवाहस्य दिने एव विवाहम् अस्थगयत् । पटेल-समाजस्य जनानाम् उपरि तस्याः निर्णयस्य अधिकः प्रभावः अभवत् । ते अपि बालविवाहस्य विरोधं प्रारभन्त । शनैः शनैः सा प्रथा पटेल-समाजात् अपाभवत्” इति ।

अनार पटेल अग्रे अवदत्, “मम मातुः उपरि मम मातामहस्य अधिकः प्रभावः अस्ति । सः गान्धीवादी आसीत् । यस्मिन् ग्रामे सः निवसति स्म, तस्य ग्रामस्य 'पञ्चायत' अनेकवारं तस्मै ग्रामनिर्वासनस्य (exiled from village) दण्डं प्रादात् । यतो हि सः अस्पर्शतायाः, जातिवादस्य च विरोधी आसीत् । तस्याः गुणाः एव मम मातरि सन्ति” इति ।

स्वमातुः स्वभावस्य विषये वदन्ती अनार पटेल अवदत्, “मम माता यावन्ती अनुशासनप्रिया अस्ति, तावन्ती सरला अपि अस्ति । तस्यै पक्षिणः अतीव रोचते । वृक्षाणां, सस्यानां च संरक्षणे तस्याः अधिका रुचिः अस्ति । सा अधुना यस्मिन् सर्वकारगृहे निवसन्ती अस्ति, तस्य गृहस्य उद्याने तया 'ऑर्गेनिक्' फलानि, शाकानि वपितानि सन्ति । मम गृहे, मम भ्रातुः गृहे च यानि फलसस्यानि, शाकसस्यानि च सन्ति, तानि तया एव प्रेषितानि सन्ति” इति ।

मुख्यमन्त्रित्वेन आनन्दीबेन[सम्पादयतु]

२०१४ तमस्य वर्षस्य ‘मई’-मासस्य एकविंशतितमे (२१/५/२०१४) दिनाङ्के गुजरातराज्यस्य राज्यपालः कमला बेनिवाल आनन्दीबेन इत्यनया मुख्यमन्त्रिपदस्य शपथम् अकारयत् [५] । २०१६ तमस्य वर्षस्य अगस्त-मासस्य प्रथमे दिनाङ्के (०१/०८/२०१६) फेसबुकमाध्यमेन <ref> https://www.youtube.com/watch?v=N87a86I8bBs <ref> त्यागपपत्राय निवेदनं कृतवती ।

सम्बद्धाः लेखाः[सम्पादयतु]

नरेन्द्र मोदी

नर्मदानदी

मुख्यमन्त्री

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

<references>

  1. "नरेन्द्र मोदी इत्यस्य पदत्यागानन्तरम् आनन्दीबेन पटेल सर्वसम्मत्या गुजरातराज्यस्य मुख्यमन्त्रित्वेन चिता". Desh Gujarat. आह्रियत 21 May 2014. 
  2. "पूर्वमुख्यमन्त्रिणः कथनम्". Vapi. Times of India. February 18, 2012. Archived from the original on 2013-06-29. आह्रियत 2013-05-09. 
  3. ३.० ३.१ "व्यक्तिविवरणम्". Archived from the original on 2014-08-16. आह्रियत 2014-04-16. 
  4. "नरेन्द्र मोदी इत्यस्य भाषणम्". आह्रियत 2014-04-16. 
  5. https://www.youtube.com/watch?v=taaXT6B1-jw
"https://sa.wikipedia.org/w/index.php?title=आनन्दीबेन_पटेल&oldid=479956" इत्यस्माद् प्रतिप्राप्तम्