आन्ध्रप्रदेशः
आन्ध्रप्रदेश: दक्षिणभारतस्य कश्चन प्रान्त: अस्ति । पूर्वम् आन्ध्रप्रदेशः तमिलनाडुप्रदेश्च मिलित्वा आवर्तेताम् । ततः १९५६ तमे वत्सरे नवम्बर्-मासस्य प्रथमदिनाङ्के स्वतन्त्रप्रतिपत्तिं प्राप्य आन्ध्रप्रदेशः इति जातः । आन्ध्रप्रदेशे त्रयोविंशतिः मण्डलानि सन्ति । अत्र अधिकसंख्याकैः 'तेलुगु'भाषा उपयुज्यते । '''हैदराबाद्नगरम्''' आन्ध्रप्रदेशस्य राजधानी । राजधान्यां दर्शनीयानि स्थलानि बहूनि सन्ति । तेषु बिर्लामन्दिरं, सालार्जङ्ग्सङ्ग्रहालयः, चार्मिनार्भवनम् इत्यादयः प्रमुखाः । आन्ध्रप्रदेशस्य अन्यत् प्रसिद्धं नगरम् अस्ति विशाखपट्टणम् । अत्रत्यं समुद्रतीरम् अतीव रमणीयम् अस्ति । अत्र विद्यमानाः नौकानिर्माणागारं, तैलशुद्धिकर्मागारम् अयसः कर्मागारं च प्रसिद्धानि सन्ति । आन्ध्रप्रदेशे गोदावरी, कृष्णा, तुड्गभद्रा, पिनाकिनी, नागावली, वंशधारा प्रभुतयः प्रसिद्धाः नद्यः प्रवहन्ति । 'नन्दिकोण्डा' इत्येतस्य स्थलस्य समीपे 'नागार्जुनसागरः' निर्मितः । एतेषां कारणतः आन्ध्रप्रदेशः समृद्धः जातः अस्ति । गोदावरीमण्डलं 'भारतदेशस्य धान्यागारम्' इति प्रसिद्धं जातमस्ति । देवालयेषु 'वरङ्गल्'उपमण्डले विद्यमानः रामप्पदेवालयः चारित्रिकदृष्ट्या अतीव प्राचीनः । अस्मिन् रामायणमहाभारतकथाः अवलम्ब्य चित्राणि निर्मितानि सन्ति । आन्ध्रप्रदेशे तिरुपतिदेवालयः सुप्रसिद्धः । तत्रत्यः देवः वेङ्कटेश्वरः । एतस्य दर्शनाय देशविदेशेभ्यः सहस्रसङ्खयाकाः यात्रिकाः नित्यम् आगच्छन्ति ।
राजधानी - भाग्यनगरम् भाषा - तेलुगु
प्रमुखाणि नगराणि - विशाखापटनम्, विजयवाडा, तिरुपति:, वारङ्गल
सम्बद्धा: विषया: