आन्ध्रप्रदेशराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(आन्ध्रप्रदेशः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
आन्ध्रप्रदेशराज्यम्
—  State  —
Nickname(s): Rice Bowl of India
Location of Andhra Pradesh in India
Coordinates (हैदराबाद्): 17°21′58″N 78°28′34″E / 17.366°N 78.476°E / 17.366; 78.476Coordinates: 17°21′58″N 78°28′34″E / 17.366°N 78.476°E / 17.366; 78.476
Country भारतम्
Established 1 November 1956 (1956-11-01)
Capital हैदराबाद्
Largest city हैदराबाद्
Districts 13 total
सर्वकारः
 • Body Government of India, Government of Andhra Pradesh
 • राज्यपाल इ. एस्. एल्. नरसिंहन्
 • मुख्य मन्त्री नारा चन्द्रबाबु नायुडु
 • विधायि मण्डल विधान् सभा च विधान् परिषद् (175 + 56 पीठिकाः)
 • Deputy Chief Minister दामोदर् राज नरसिम्ह
 • उच्च न्यायालय आन्ध्रप्रदेशराज्य उच्च न्यायालय
विस्तीर्णता
 • संहतिः १६० Square km ( Square mile)
क्षेत्रविस्तारः 8th
जनसङ्ख्या (2011)
 • संहतिः ४९
 • रैङ्क् 8th
IST (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-AP
HDI increase 0.572 (medium)
HDI rank 20th (2005)
Literacy 67.77% (2011)
Official language तेलुगु (తెలుగు)
Secondary language उर्दु
जालस्थानम् ap.gov.in


आन्ध्रप्रदेश: (Andhra Pradesh) दक्षिणभारतस्‍य कश्चन राज्यम् अस्‍ति । पूर्वम् आन्ध्रप्रदेशः तमिलनाडुप्रदेश्च मिलित्वा आवर्तेताम् । ततः १९५६ तमे वत्सरे नवम्बर्-मासस्य प्रथमदिनाङ्के स्वतन्त्रप्रतिपत्तिं प्राप्य आन्ध्रप्रदेशः इति जातः । आन्ध्रप्रदेशे त्रयोविंशतिः मण्डलानि सन्ति । अत्र अधिकसंख्याकैः 'तेलुगु'भाषा उपयुज्यते । हैदराबाद्नगरम् आन्ध्रप्रदेशस्य राजधानी । राजधान्यां दर्शनीयानि स्थलानि बहूनि सन्ति । तेषु बिर्लामन्दिरं, सालार्जङ्ग्सङ्ग्रहालयः, चार्मिनार्भवनम् इत्यादयः प्रमुखाः । आन्ध्रप्रदेशस्य अन्यत् प्रसिद्धं नगरम् अस्ति विशाखपट्टणम् । अत्रत्यं समुद्रतीरम् अतीव रमणीयम् अस्ति । अत्र विद्यमानाः नौकानिर्माणागारं, तैलशुद्धिकर्मागारम् अयसः कर्मागारं च प्रसिद्धानि सन्ति । आन्ध्रप्रदेशे गोदावरी, कृष्णा, तुड्गभद्रा, पिनाकिनी, नागावली, वंशधारा प्रभृतयः प्रसिद्धाः नद्यः प्रवहन्ति । 'नन्दिकोण्डा' इत्येतस्य स्थलस्य समीपे 'नागार्जुनसागरः' निर्मितः । एतेषां कारणतः आन्ध्रप्रदेशः समृद्धः जातः अस्ति । गोदावरीमण्डलं 'भारतदेशस्य धान्यागारम्' इति प्रसिद्धं जातमस्ति । देवालयेषु 'वरङ्गल्'उपमण्डले विद्यमानः रामप्पदेवालयः चारित्रिकदृष्ट्या अतीव प्राचीनः । अस्मिन् रामायणमहाभारतकथाः अवलम्ब्य चित्राणि निर्मितानि सन्ति ।

इतिहासः[सम्पादयतु]

अन्ध्रसाम्राज्यस्य उल्लेखाः ऐतरेयब्राह्मणे, महाभारते तथा संस्कृतमहाकाव्येषु च लभ्यन्ते। आन्ध्रीयाणां विवरणं भरतस्य नाट्यशास्त्रेऽपि लभ्यते। ’भट्टिप्रोलुप्रदेशे’ लब्धेषु शिलाभिलेखेषु तेलगुभाषायाः मूलं प्राप्तमस्ति। चन्द्रगुप्तमौर्यस्य शासनकाले आस्थानाय “मेगस्तनीस्” आगतवान् आसीत्। सः एवम् उल्लिखति, दुर्गैः नगराणि आवृतानि आसन् । एवं १००,००० सैनिकाः, २०० अश्वदलः, १,००० गजाः आन्ध्रप्रदेशस्य साम्राज्ये एते आसन् इति। अस्मिन् समये गोदावरीतटस्य विशालप्रदेशे आन्ध्रप्रदेशस्य साम्राज्यं स्थापितमासीदिति ’बौद्धग्रन्थेषु’ दृश्यते। १३ तमे शिलाभिलेखे आन्ध्रीयाः मम सामन्ताः आसन् इति आशोकः उल्लिखति। शिलाभिलेखानाम् आधारेण आन्ध्रस्य करावळिप्रदेशे साम्राज्यमेकम् आसीत् इति ज्ञातमस्ति। एतस्य साम्राज्यस्य शासकः ’कुबेरकः’ आसीत्। साम्राज्यस्य राजधानी प्रतिपालपुरम् (भट्टिप्रोलु) आसीत्। प्रायः इदं साम्राज्यं भारतस्य प्राचीनम् एवं प्रसिद्धञ्च स्यात् इति। अस्मिन् समये ’धरणिकोटम्’ (अमरावती) इति मुख्यं स्थलम् आसीत् इति। अत्र गौतमबुद्धः आगतवान् आसीत्। १४ तमे शतमाने आन्ध्रप्रदेशपर्यन्तं मौर्याः स्वसाम्राज्यस्य विस्तारं कृतवन्तः। मौर्यसाम्राज्यस्य अवपातानन्तरं शातवाहनाः स्वतन्त्राः सञ्जाताः। शातवाहनसाम्राज्यस्य अवपातानन्तरम् इक्ष्वाकुशासकाः, पल्लवाः, आनन्दगोत्रिकाः, विष्णुकोन्दिनाः, पूर्वस्य चालुक्याः, चोळाः आन्ध्रप्रदेशं क्रमेण शासितवन्तः। पल्नाडुयुद्धात् पूर्वचालुक्यानां शक्तिः क्षीणा जाता। अनेन परिणामेन काकतीयाः प्रवर्धमानाः सञ्जाताः। देहली सुल्तानः ’फियाजुद्दीन् तुघलक्’ बृहत्सैन्यसहितस्य ’उलुघ् खानस्य’ नायकत्वे आन्ध्रप्रदेशम् आक्रान्तुं स्वसैन्यं प्रेशितवान् आसीत्। ’प्रतापरुद्रं’ युद्धबन्दित्वेन नीतवन्तः। १३२६ तमे संवत्सरे देहली सुल्तानेभ्यः मुसुनूरि नायकाः वाराङ्गल् प्रदेशं आक्रान्ताः। इतः ५० वर्षाणि एते शासितवन्तः। अनया प्रेरणया भारतस्य सुप्रसिद्धस्य विजयनगरसाम्राज्यस्य स्थापनम् अबूत् इति। येच काकतीयसाम्राज्यस्य वित्ताधिकारिणौ हरिहरस्य हक्कबुक्कौ एतस्य साम्राज्यस्य संस्थापकौ।“अल्लावुद्दीन् हसन् गङ्गु”इति शासकः देहली सुल्तानानां विरुद्धं युद्धं कृत्वा, बहुमनि इति स्वतन्त्रसाम्राज्यं दक्षिणभारते स्थापितवान्। १६ तम शतमानादरभ्य १७ तम शतमानपर्यन्तं अर्थात्, प्रायः २००शतं वर्षाणि यावत् आन्ध्रप्रदेशं शासितवन्तः इति।

भूगोलः वायुमण्डलञ्च[सम्पादयतु]

प्रायः आन्ध्रप्रदेशे वातावरणम् उष्णं तथा परिक्लेदयुक्तञ्च भवति। नैरुत्य वर्षमरुतः अस्य राज्यस्य वातावरणस्य निर्धारणे मुख्यपात्रं वहन्ति। अत्रत्य शैत्यकालः हितकरं भवति। अतः यात्रिकाः अस्मिन्नेव काले यान्ति। आन्ध्रप्रदेशे ग्रीष्मकालः मार्चमासादारभ्य जून्मासपर्यन्तं भवति। एषु मासेषु पादरसस्य स्थरः अतीव उन्नतः भवति। करावळिप्रदेशेषु ग्रीष्मकालीनतापमानं प्रायः राज्यस्य इतरप्रदेशानाम् अपेक्षया अधिकमेव भवति। प्रायः तापमानं २० डिग्रितः ४० डिग्रि परिमितं भवति। केषुचित् प्रदेशेषु ग्रीष्मकाले ४५डिग्रि परिमिततापः भवति। जुलैमासादारभ्य सेप्टम्बर्मासपर्यन्तम् आन्ध्रप्रदेशे वर्षाकालः भवति। कदाचित् अक्टोबर् मासे शैत्यकालः राज्यं प्रविशति। अक्टोबर्, नवेंबर्, डिसेंबर्, जनेवरि तथा फेब्रवरिमासेशु आन्ध्रप्रदेशे शैत्यकालः भवति। अस्मिन् राज्ये अधिकस्य करावळिप्रदेशस्य सत्वात् अत्र शैत्यम् अधिकं नभवति। अस्मिन् काले १३ डिग्रि तः ३० डिग्रि पर्यन्तं औष्ण्यं भवति। ग्रीष्मकाले अत्र प्रवासार्थं गच्छन्ति तर्हि ग्रीष्मकालस्य धारणयोग्यानि वस्त्राणि नेतव्यानि।

विभागाः[सम्पादयतु]

आन्ध्रप्रदेशे त्रयो विभागाः सन्ति। ते क्रमशः ’करावळिआन्ध्रः’, ’रायलसीमा’ तथा ’तेलङ्गाणा’ भवन्ति। आन्ध्रप्रदेशे २३ जनपदाः सन्ति। आदिलाबाद्, अनन्तपुरम्,चित्तूर्, कडपा, पूर्वगोदावरि, पश्चिमगोदावरि, गुन्टूर्, हैदराबाद्, करींनगरम्, खम्मम्, कृष्ण, कर्नूल्, मेहबूब् नगरम्, मेडक्, नल्गोण्ड,नेल्लूर्, निजामाबाद्, प्रकाशम्, रङ्गारेड्डि, श्रीकाकुलम्, विशाखपट्टणम्, विजयनगरम् तथा वारङ्गल् जनपदाः सन्ति। अस्य आन्ध्रप्रदेशस्य राजधानि हैदरबाद् अस्ति। समीपे विद्यमानेन सिकन्दराबाद् नगरेण सह मिलित्वा हैदराबाद्नगरम् राज्ये अत्यन्तं बृहत् नगरम् अस्ति। विशाखपट्टनम् एकम् समुद्रतीरप्रदेशम् अस्ति। आन्ध्रप्रदेशे द्वितीयं बृहत् नगरं भवति। अत्र भारतस्य नौकासेनायाः केन्द्रमपि अस्ति। विजयवाडा नगरम् प्रसिद्धं वाणिज्यकेन्द्रं भवति। आन्ध्रप्रदेशस्य इतराणि मुख्यनगराणि काकिनाड,वाराङ्गल्,गुण्टूर्,तिरुपतिः, राजमण्ड्रि,नेल्लूरु,ओङ्गोल्, कर्नूल्, अनन्तपुरम्, करीम्नगरम्, निजामाबाद् तथा एलूरु भवन्ति।

सालार् जङ्ग वस्तुसङ्ग्रहालयः[सम्पादयतु]

हैदराबाद् जनपदे सालार् जङ्ग वस्तुसङ्ग्रहालयः अस्ति। एनं सङ्ग्रहालयं सालार् जङ्ग् शासकः मीर् यूसिफ् अलिखान् एकैनेव निर्मितवान्। एकैनेव संगृहीत बृहत् वस्तुसङ्ग्रहालयम् इति विश्वे प्रसिद्धिरस्ति। पर्षियादेशस्य रत्नकम्बलाः, मोघल शासनकालस्य सूक्ष्म चित्राणि, चीनीयमृत्पात्राणि, जपानदेशस्य सिक्थपात्राणि, युरोपदेशस्य अमृतशिलायाः मूर्तयः इत्यादीनि आकर्षकानि वस्तूनि विराजन्ते।

अहारपद्धतिः[सम्पादयतु]

आन्ध्रप्रदेशस्य आहारे उत पाके अधिकतया गन्धद्रव्याणाम्(condiment) उपयोगं कुर्वन्ति। देश,जाति तथा सम्प्रदायभेदेन आहारे भेदः दृश्यते। अवलेहिकायाः उपयोगं अधिकतया कुर्वन्ति, एवं जनप्रियञ्च भवति। तेलगुभाषायां “पच्चडि” इति व्यवहारः। बहुविधाः अवलेहिकाः आन्ध्रप्रदेशे जनप्रियाः भवन्ति। तण्डुलः आन्ध्रप्रदेशस्य मुख्यः आहारः भवति। अस्य तण्डुलस्य उपयोगं विविध पाकेषु कुर्वन्ति। दोसा, इडलि इत्यादि अहारविशेषाः अस्मिन् प्रदेशे लभ्यन्ते। यथा सस्याहारे विविधपाकाः लभ्यन्ते, तथैव मांसाहारे विद्यन्ते। १४तमे शतमाने तेलङ्गाणाप्रान्तं यवनाः अक्रान्ताः। तदारभ्य अस्मिन् प्रान्ते मांसाहारस्य प्रभावः अधिकतया विद्यते। अजस्य्, कुक्कुटस्य तथा मत्स्यस्य मांसम् अधिकतया उपयोगं कुर्वन्ति। हैदराबदस्य आहरेषु बिरियानि तथा कबाब् अत्यन्तजनप्रियौ आहारौ भवतः।

नृत्यम्[सम्पादयतु]

आन्ध्रप्रदेशे विद्यमानानां नृत्यप्रकाराणां विषये प्रप्रथमतया जयपसेनानि (जयप नायुडु)लिखितवान्। “देसि” तथा “मार्गि” नृत्यप्रकारयोः उल्लेखः “नृत्यरत्नावळि” इति प्रकरणसंस्कृतग्रन्थे दृश्यते। अस्मिन् ग्रन्थे ८ अध्यायाः सन्ति। पेरानि, प्रेंखन, शुद्धनर्तन, कार्करि, रासक, दण्डरासक, शिवप्रिय, कन्दुकनर्तनम्, भन्दिकानृत्यम्, करणनृत्यम्,चिन्दु, गोण्डालि,कोलाटम् इत्यादि जनपदनृत्यप्रकाराः अस्मिन् ग्रन्थे वर्णिताः। मार्गि तथा देसि नृत्ययोः, ताण्डवमं तथा लास्य नृत्ययोः, नाट्यनृत्ययोः प्रकारयोः भेदान् विचारयति प्रथमोऽध्याये। 'अङ्गिकाभिनयस्य', 'कारिणाम्', 'स्थानकानां' तथा 'मण्ड्लानां' विशये २,३ अध्याये लिखति। 'करणानि', 'अङ्गहाराः', रेचकादिनां विषये ४ अध्याये लिखति। अग्रिमेषु अध्यायेषु देसिनृत्यप्रकाराः वर्णिताः। अन्तिमे अध्याये कलायाः तथा नृत्याभ्यासस्य विषययोः लिखति। आन्ध्रप्रदेशे शास्त्रीयनृत्यं पुरुषाः तथा महिलाश्च कुर्वन्ति। “कूचिपुडि” नृत्यविशेषः राज्यस्य अत्यन्तं सुपरिचितणं शास्त्रीयनृत्यं भवति। ’चेञ्चु भागोतम्’, ’कूचिपुडि’, ’भामकलापम्’, ’बुर्र्कथा’, ’वीरनाट्यम्’, ’बुट्ट् बोम्मलु’, ’दप्पु’, ’तप्पेट गुल्लु’, ’लंबाडि’, ’बोनालु’, ’धिंस’, ’कोलाटं’ ताथा ’चिण्डु’ इत्यादि प्रकाराः अद्यापि दृश्यन्ते।

साहित्यम्[सम्पादयतु]

नन्नय्यः, तिक्कनः, ’यर्राप्रगदः’ त्रयः आन्ध्रीयश्रेष्ठाः कवयः। त्रयः अपि महाभारतं महाकाव्यं तेलगुभाषायाम् अनुवादं कृतवन्तः। बम्मेरपोतनः कविषु अन्यतमः। अयं “श्रीमद् आन्ध्रमहाभागवतम्” अत्युत्कृष्टग्रन्थं रचितवान्। वेदव्यासेन लिखितस्य “भागवतस्य” अनूदितग्रन्थः पूर्वोक्तः। नन्नय्यः आदिकविरिति प्रसिद्धिं प्राप्तवान् आसीत्। राजमहेन्द्रवरस्य साम्राज्यस्य शासकस्य राजनरेन्द्रस्य आश्रयं नन्नय्यः प्राप्तवान् आसीत्। विजयनगरसाम्राज्यस्य चक्रवर्तिः कृष्णदेवरायः “अमुक्तमाल्याद्” इति ग्रन्थं रचितवानासीत्। तात्विकैः पद्यैः कडपप्रदेशस्य तेलगुभाषाकविः वेमनः प्रसिद्धिं प्राप्तवान् आसीत्। ’कन्दकूरि वीरेशलिङ्गस्य’ अनन्तरसाहित्यस्य अधुनिकसाहित्यम् इति व्यवहारः अस्ति। “सत्यवतिचरितम्” इति कादम्बरीं सत्यवतिचरितं लिखितवान्। अधुनिकेषु साहित्यकारेषु “ज्ञानपीठप्रशस्तीम्” प्राप्तेषु ’श्री विश्वनाथः’, ’सत्यनारायणः’ तथा ’डा.सि. नारायणः रेड्डि’ इत्यादयः प्रसिद्धाः भवन्ति। श्री श्रीः तेलुगु साहित्याय नूतनस्य अभिव्यक्तिवादस्य परिचयं कारितवान्। ’श्री पुट्टपर्ति नारायणाचार्युलु’ कविषु अन्यतमः। ’शिवताण्डवम्’, ’पाण्डुरङ्गमाहात्म्यम्’ इत्यादि ग्रन्थान् रचितवान्।

प्रवासोद्यमविभागः[सम्पादयतु]

प्रवासोद्यमविभागः भारतस्य “कोहिनूर्” इति आन्ध्रप्रदेशः बिम्बितमस्ति। आन्ध्रप्रदेशे प्रसिद्धानि धार्मिकयात्रास्थलानि सन्ति। श्री वेङ्कटेश्वरस्य तिरुपतिक्षेत्रं जगत्प्रसिद्धम् अस्ति। लक्षाधिकाः जनाः अत्रागत्य दर्शनं स्वीकुर्वन्ति। द्वादशज्योतिर्लिङ्गेषु अन्यतमं ज्योतिर्लिङ्गं श्रीशैलस्य मल्लिकार्जुनः भवति। बौद्धधर्मस्य केन्द्राणि अमरवाती, नागार्जुनकोण्ड, भट्टिप्रोलु, घण्टसाला, नेलकोण्डपल्लि, धूलिकट्ट, भाविकोण्ड, थोट्टकोण्ड, शालिहुण्डम्, पवुरालकोण्ड, शङ्करम्, फणिगिरि तथा कोलन्पाक् इत्यादि भवन्ति। अन्यानि धार्मिकयात्रा स्थानानि
यादगिरिगुट्टा – श्री लक्ष्मीनरसिंहस्यक्षेत्रम्।
अमरावती - शिवस्यक्षेत्रम्।
वाराङ्गल् - सहस्रस्तम्भाणाम् आलयम् अस्ति।
विजयवाडा - कनकदुर्गादेवस्थानम् ।
द्वारकातिरुमला –वेङ्कतेश्वरदेवस्थानम्।
श्रीकाकुलम् - सूर्यदेवस्थानम्।
अण्णावरम् - सत्यनारायणस्वामी मन्दिरम्।
राजधानी - भाग्यनगरम् भाषा - तेलुगु

प्रमुखाणि नगराणि - विशाखापटनम्‌, विजयवाडा, तिरुपति:, वारङ्गल

वीथिका[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=आन्ध्रप्रदेशराज्यम्&oldid=284670" इत्यस्माद् पुनः प्राप्तिः