आम्लीयवर्षणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अम्लीयवर्षणस्य आवर्तनचक्रम्

अम्लीयवर्षा नाम वायुमण्डले यदा च विषानिलाः अधिकप्रमाणेन भवन्ति तस्मिन्नेव समये यदि वृष्टिः सम्भवति तदा वर्षया सह विषानिलाः अपि मिलित्वा भूमिं प्रविशन्ति तस्यैव अम्लीयवर्षणम् इत्युच्यते । एतदेकं प्रदूषणं विद्यते । अस्याः प्रभावः दूरगामी भवति । उद्योगतः निस्सृतानां इङ्गालाम्लानां, सल्फरडायाक्सैड्- नैट्रिक्-आक्सैड्-वायुमण्डलीयजलम् इत्यादीनां मेलनेन आम्लीयवर्षा भवति । अपि च यदा वर्षा भवति तर्हि वर्षाजलेन सह इदमाम्लं पृथिवीम् आगच्छति । अनेन सस्योत्पादनम् अवरुद्धं भवति । भवनानां हानिः अपि एतेन भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आम्लीयवर्षणम्&oldid=485088" इत्यस्माद् प्रतिप्राप्तम्