आयुधानामहं वज्रं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ २८ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य अष्टाविंशतितमः (२८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

आयुधानाम् अहं वज्रं धेनूनाम् अस्मि कामधुक् प्रजनः च अस्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥ २८ ॥

अन्वयः[सम्पादयतु]

अहम् आयुधानां वज्रं धेनूनां कामधुक् प्रजनः कन्दर्पः सर्पाणां वासुकिः च अस्मि ।

शब्दार्थः[सम्पादयतु]

आयुधानाम् = शस्त्राणाम्
वज्रम् = वज्रायुधम्
धेनूनाम् = गवाम्
कामधुक् = कामधेनुः
प्रजनः = अपत्योत्पत्तिहेतुः
कन्दर्पः = मन्मथः
सर्पाणाम् = विषसहितानाम् उरगाणाम्
वासुकिः च अस्मि = वासुकिनामकः अस्मि ।

अर्थः[सम्पादयतु]

शस्त्रेषु अहं दधीचेः अस्थ्ना निर्मितं वज्रायुधम् अस्मि । धेनुषु कामधेनुः अस्मि । जनयिता मन्मथः अपि अस्मि । सर्पविशेषेषु वासुकिनामकः सर्पराजः अस्मि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आयुधानामहं_वज्रं...&oldid=418465" इत्यस्माद् प्रतिप्राप्तम्