आरण्यकम्
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गृहस्थाश्रमात् निवृत्तस्य वने रहसि उपविश्य यज्ञरहस्यतत्वावबोधाय अध्ययनार्थमाविष्कृताः मन्त्राः आरण्यकम् इति उच्यन्ते । ऋग्यजुस्सामवेदीयानि आरण्यकानि प्रकाशितानि सन्ति । ऐतरेयं, कौषीतकं, शांख्यायनमिति त्रीणि ऋग्वेदीयानि; बृहदारण्यकं, तैत्तिरीयं, मैत्रायणीयम् इति त्रीणि यजुर्वेदसम्बन्धिनि; तलवकारण्यकं एकं सामवेदीयञ्च । अथर्ववेदानुबन्धि आरण्यकं किमपि न समुपलभ्यते ।