आर्द्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते आर्द्रा । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् आर्द्रा भवति षष्टं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

आर्द्रानक्षत्रम्

आकृतिः[सम्पादयतु]

आर्द्रा प्रवालमेकम् - प्रवालाकृतौ विद्यमानं किञ्चन नक्षत्रम् ।

सम्बद्धानि अक्षराणि[सम्पादयतु]

कू खं ङ्ग छ - आर्द्रानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

आर्द्रया रुद्रः प्रथमन एति । श्रेष्ठो देवानां पतिरघ्नियानाम् ।
नक्षत्रमस्य हविषा विधेम । मा नः प्रजां रीरिषन् मोत वीरान् ।
आर्द्रा नक्षत्रं जुषतां हविर्नः । प्रमुञ्चमानौ दुरितानि विश्वा ।
अपाघशंसं नुदतामरातिम् । हेती रुद्रस्य परितो वृणुक्तु ॥

आर्द्रानक्षत्रस्य अधिपतिः रुद्रः । रुद्रस्य प्रिया आर्द्रा । तस्याः हृदयं सर्वदा दयया आर्द्रा तिष्ठति इत्यतः तस्याः नाम आर्द्रा इति । आर्द्रानक्षत्रे एव प्रथमवृष्टिः भविष्यति येन भूमिः आर्द्रा भवति, समस्ताः प्राणिनः सुखम् अनुभवन्ति । सा वृष्टिः यदा भवेत् तदा फलोदयः भवति । अतः तदनन्तरं पुनर्वसुः भवति । आर्द्रानक्षत्रसमूहे एका एव तारा अस्ति या प्रकाशमाना अस्ति । अतः एतत् आकाशमणिः इत्यपि कथ्यते । आकाशे अधिकतेजोमयः ग्रहः अस्ति रुद्रः । अस्य पार्श्वे एव विद्यते इदं नक्षत्रम् । तैत्तिरीयब्राह्मणस्य अनुसारं देवेषु श्रेष्ठः प्राणिनां स्वामी सुप्रसिद्धः देवः रुद्रः आर्द्रया सह आगच्छन् अस्ति । जनाः आर्द्रानक्षत्रस्य पूजां कुर्वन्तः सन्ति । सः अस्माकं हविः स्वीकरिष्यति । सः अस्माकं प्रजानां वीराणाञ्च रक्षणं करोति । रुद्रः आर्द्रा च पापेभ्यः मुक्तिं यच्छति शत्रुभ्यः रक्षणं करोति च ।

आश्रिताः पदार्थाः[सम्पादयतु]

रौद्रे वधबन्धानृतपरदारस्तेयशाठ्यभेदरताः ।
तुषधान्यतीक्ष्णमन्त्राभिचारवेतालकर्मज्ञाः ॥

वधरता घातकाः । बन्धरताः प्राणिनां ये बन्धं कुर्वन्ति । अनृतरता असत्यभाषिणः । परदाररताः परस्त्रीषु सक्ताः । स्तेयरताश्चोराः । शठाः परकार्यविमुखाः । तथा चोक्तम् -

मनसा वचसा यश्च दृश्यतेऽकार्यतत्परः ।
कर्मणा विपरीतश्च स शठः सद्भिरिष्यते ॥

तस्य भावः शाठ्यम् । तत्र ये रताः । एकीभूतानां पदार्थानां पृथक्करणं भेदाः । तत्र ये रताः । तुषधान्यं शालयः । तीक्ष्णाः क्रूराः । मन्त्रज्ञा मन्त्रविदः । अभिचारज्ञा वशीकरणादिकर्मविदः । वेतालकर्मज्ञा वेतालोत्थापनविद्यास्वभिज्ञाः । एते सर्वे रौद्रे आर्द्रायाम् ।

स्वरूपम्[सम्पादयतु]

प्रहरणदारुणबन्धनविग्रहविषसन्धिवह्निकर्माद्यम् ।
छेदनदहनोच्चाटनमारणकृत्यं च रौद्रभे कुर्यात् ॥

आर्द्रानक्षत्रे प्रहारकर्म, दारुणकर्म, बन्धनं, युद्धं, विषं, सन्धिकर्म, अग्निकर्म, छेदनम्, उच्चाटनं, मारणम् इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

तीक्ष्णसंज्ञकनक्षत्राणि[सम्पादयतु]

मूलशिवशक्रभुजगाधिपानि तीक्ष्णानि तेषु सिद्ध्यन्ति ।
अभिघातमन्त्रवेतालबन्धभेदसम्बद्धाः

अथ तीक्ष्णानि नक्षत्राणि तैर्यानि कर्माणि क्रियन्ते तानि चाह -
मूलं प्रसिद्धम् । शिवाधिपमार्द्रा । शक्राधिपं ज्येष्ठा । भुजगाधिपं सर्पदैवत्यमाश्लेषा । एतानि नक्षत्राणि तीक्ष्णानि दारुणानीत्यर्थः । तेषु तीक्ष्णेषु सिद्ध्यन्ति । के ते ? अभिघात उपद्रवः । मन्त्रो मन्त्रसाधनप्रयोगः । वेतालं वेतालोत्थापनादिकर्म । बन्धो बन्धनम् । वधस्ताडनम् । भेदः पृथ्क्करणं श्लिष्टयोर्द्वयोः । सम्बन्धो राजकुल आवेदनम् । एते सिद्ध्यन्ति ।

पश्य[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आर्द्रा&oldid=395161" इत्यस्माद् प्रतिप्राप्तम्