आश्लेषा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते आश्लेषानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् आश्लेषानक्षत्रं भवति नवमं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

आश्लेषानक्षत्रम्

आकृतिः[सम्पादयतु]

आश्लेषा सर्पऋतू - सर्पाकृतौ विद्यमानानि षट् नक्षत्राणि ।

सम्बद्धानि अक्षराणि[सम्पादयतु]

डी डू डे डो - आश्लेषानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

अश्लीलनामश्चित्रे नावस्येन्न यजेत् ।
यथा पापाहे कुरुते तादृगेव तत् ॥ (तैत्तिरीयब्राह्मण १-५-२)

द्वयोः पदार्थयोः संयोगरूपा एव आश्लेषा । श्रावणमासे पृथ्वी-आकाशयोः संयोगः दृश्यते । तदा सूर्यः आश्लेषानक्षत्रे आगच्छति । वैदिकसाहित्ये आश्लेषानक्षत्रस्य अधिपतिः सर्पः यः देवतासु अन्यतमः । यजुर्वेदस्य १०-३०, १३-६, २३-५६ मन्त्रेषु लोकाः सर्पाः इति कथ्यन्ते । यः सरति सः सर्पः । सर्पन्ति इति सर्पाः । तारादयः अपि सर्पाः इति कथ्यन्ते यतः ताः निरन्तरं सञ्चरन्ति । अत्यधिकतया प्रकाशमानं सर्पमणिः इति उच्यते । अयं सर्पः द्युलोके, अन्तरिक्षे, पृथिव्याञ्च वसति । भगवता शिवेन अपि सर्पः ध्रियते । सूर्यमण्डले अपि सर्पः विद्यते । नक्षत्राणि तदीयं शरीरं वर्तते ।

असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
नमोऽस्तु सर्प्नेभ्यो ये केचन पृथिवी मनु ।
ये अन्तरिक्षे ये दिवि तेभ्यः सर्प्नेभ्यो नमः ।
इदं सर्प्नेभ्यो हविरस्तु जुष्टम् ।
ये अन्तरिक्षं पृथिवीं क्षियन्ति ते नः सर्पासो हव मागमिष्ठाः ।
ये रोचने सूर्यस्यापि सर्पाः । ये दिवं देवीमनुसञ्चरन्ति ।
येषामाश्लेषा अनुयन्ति कामं, अनुयन्ति चेतः ।
तेभ्यः सर्प्नेभ्यो मघुमज्जुहोमि ।

तैत्तिरीयब्राह्मणस्य कथनानुगुणं यः सर्पः द्युलोके अन्तरिक्षे, पृथिव्यां च वसति, तारासु ग्रहेषु च भवति, सूर्यस्य किरणेषु भवति, नक्षत्ररूपी देहवति आश्लेषा यस्य चित्तकामनानाम् अनुगामिनी अस्ति सः सर्पः अस्माकं यज्ञे उपस्थितः भवतु । वयं तस्मै मधुमतिहविषः प्रदानं कुर्मः ।

आश्रिताः पदार्थाः[सम्पादयतु]

अहिदेवे कृत्रिमकन्दमूलफलकीटपन्नगविषाणि ।
परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च ॥

कृत्रिमाणि द्रव्याणि यानि युक्त्या क्रियन्ते । यन्मूलमेव बीजं स कन्दः । केचिदभिनवाङ्कुरमिच्छन्ति । मूलानि प्रसिद्धानि । फलानि च प्रसिद्धान्येव । कीटाः कृमिजातयः । पन्नगाः सर्पाः । विषं प्रसिद्धम् । परधनहरणे ये अभिरताः सक्ताः । तुषधान्यं शालयः । सर्वभिषजो निःशेषाः शल्यहर्तृशालाकिकाः कायचिकित्सकादयः । एते सर्व एवाहिदेवे आश्लेषायाम् ।

स्वरूपम्[सम्पादयतु]

उद्धतरिपुमदभञ्जनसाहसवाणिज्यकपटकर्म ।
अनलायससङ्ग्रहणक्ष्वेडस्तेयादि सर्पभे कार्यम् ॥

आश्लेषनक्षत्रे शत्रोः मानभङ्गः, साहसकार्यं, वाणिज्यं, कपटकर्म, अग्निकर्म, लोहादीनां सङ्ग्रहः, चौर्यकर्म इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

तीक्ष्णसंज्ञकनक्षत्राणि[सम्पादयतु]

मूलशिवशक्रभुजगाधिपानि तीक्ष्णानि तेषु सिद्ध्यन्ति ।
अभिघातमन्त्रवेतालबन्धभेदसम्बद्धाः

अथ तीक्ष्णानि नक्षत्राणि तैर्यानि कर्माणि क्रियन्ते तानि चाह - मूलं प्रसिद्धम् । शिवाधिपमार्द्रा । शक्राधिपं ज्येष्ठा । भुजगाधिपं सर्पदैवत्यमाश्लेषा । एतानि नक्षत्राणि तीक्ष्णानि दारुणानीत्यर्थः । तेषु तीक्ष्णेषु सिद्ध्यन्ति । के ते ? अभिघात उपद्रवः । मन्त्रो मन्त्रसाधनप्रयोगः । वेतालं वेतालोत्थापनादिकर्म । बन्धो बन्धनम् । वधस्ताडनम् । भेदः पृथ्क्करणं श्लिष्टयोर्द्वयोः । सम्बन्धो राजकुल आवेदनम् । एते सिद्ध्यन्ति ।

पश्य[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=आश्लेषा&oldid=273254" इत्यस्माद् पुनः प्राप्तिः