इन्फोसिस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इन्फोसिस्

इन्फोसिस् लिमिटेड् (पूर्वम् - इन्फोसिस् टेक्नोलजीस् लिमिटेड्) इत्येषा संस्था बहुराष्ट्रियसूचनातन्त्रज्ञानसंस्था । अस्याः केन्द्रं भारतदेशस्य बेङ्गलूरुनगरे वर्तते । भारते विद्यमानासु बृहत्तमासु सूचनातन्त्रज्ञानसंस्थासु अन्यतमा वर्तते एषा । अस्यां संस्थायां १,४५,००० उद्योगिनः वर्तन्ते । अस्याः संस्थायाः ९ तन्त्रांशाभिवृद्धिकेन्द्राणि भारते वर्तन्ते । अमेरिका, चीना, आस्ट्रेलिया, युनैटेड् किङ्ग्डम्, केनड, जपान् इत्यादिषु राष्ट्रेषु २९ कार्यालयाः वर्तन्ते । इन्फोसिस्संस्था त्रिंशदधिकानां विदेशीयकार्यागाराणां कृते वाणिज्यव्यवहार-तान्त्रिक-यान्त्रिक-बाह्याधारसेवासु साहाय्यम् आचरति । २००७-२००८ वर्षे ४०० कोट्यधिकांशस्य लाभं प्राप्नोत् ।

इतिहासः[सम्पादयतु]

इन्फोसिस्संस्था १९८१ तमे वर्षे नारायणमूर्तिः, नन्दन् निलकेनि, एन् एस् राघवन्, एस् गोपालकृष्णः, एस् डि शिबुलाल्, के दिनेशः अशोक अरोर - इत्येतैः आरब्धा ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=इन्फोसिस्&oldid=354176" इत्यस्माद् प्रतिप्राप्तम्