इरुळजनाङ्गः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
इरुळजनाङ्गस्य पुरुषाः( 1871-72)

इरुळजनानां वैशिष्ट्यानि[सम्पादयतु]

बेङ्गळुरुतः ४०-५०कि.मी. दूरे मागडितः रामनगर-कनकपुरपर्यन्तं प्रसृता शैलपङ्क्तिः पूर्वं तु गहनारण्यमासीत् । इदानीमपि कथञ्चित् अवशिष्टेषु शैलपङ्क्त्याः गुहासु आदिवासिनः वसन्ति । कृष्णवर्णीयाः एते तमिळुमिश्रकन्नडभाषया वदन्ति । गुहायाः वासं त्यक्त्वा यदा कुटीरे वासम् आरब्धवन्तः तदा कुटुम्बजनाः तन्नाम मातापितापुत्राः सर्वे एकस्मिन् कुटीरे वसन्ति स्म । यदा पुत्रस्य विवाहः भवति तदा तस्य पृथक् कुटीरे निवासः आरभते स्म । मूषकस्य मृगया, मधोः सङ्ग्रहणं, कन्दमूलस्य अन्वेषणं, खननं च एतेषां दैनन्दिनकार्यमासीत् । इदानीं वनस्य न्यूनतायाः कारणतः नगरजनानां प्रभावेण च एते धेनोः, मेषस्य, अजस्य, कुक्कुटस्य च पालनं कुर्वन्तः सन्ति । ‘नाडगौड’ एतेषु ज्येष्ठः । एतस्य अनन्तरं ज्येष्ठः ‘कट्टुगौड’ । दण्डं ददाति ‘कोलुकार’ । सहजीवनस्य कुटुबपद्धतिः अस्ति इति कारणेन पतिं विना पत्नी, पत्नीं विना पतिः सामान्यतः न भवति ।

सामाजिकस्थितिः[सम्पादयतु]

यदा बालिका ऋतुमती तदा तां कुटीरात् बहिः स्थापयन्ति । तस्य मातुलः आगत्य औदुम्बर- वट- अङ्कोलस्य च पर्णानां कञ्चित् लघुपर्णकुटीरं रचयति । तस्याः भोजनपानं च तत्रैव भवति । अशुचिसमाप्तेः अनन्तरं गृहं स्वच्छीकृत्य पूर्वतनघटान् क्षिप्त्वा नूतनघटे पाकं कृत्वा, कुटुम्बदेवः वेङ्कटरमणः चेत् कञ्चित् संन्यासिनं, मादेश्वरस्य भक्ताः चेत् जङ्गमम् आहूय दक्षिणां दत्त्वा आतिथ्यं कृत्वा नामधारणम् अथवा विभूतिधारणं कुर्वन्ति । शवसंस्कारे एतेषां शिलासेवा बहुप्रमुखा । इरुलजनानाम् विश्वासाः== पिशाचेषु एतेशां विश्वासः भवति । स्वप्ने अपि एतेषां विश्वासः ।

  • स्वप्ने देवस्य दर्शनम् उत्तमं शकुनम्, शवः दृश्यते चेत् अनुत्तमम्।
  • जीवन्ताः दृश्यन्ते चेत् उत्तमम्।
  • जलं दृश्यते चेत् अश्रूप्राप्तिः।
  • अग्निः दृश्यते चेत् उदरे ज्वलनम्।
  • काष्ठं दृश्यते चेत् मरणसमाचारः श्रूयते।

इति एतेषां विश्वासः अस्ति ।

वेषभूषणानि[सम्पादयतु]

गुहासु यदा वसन्ति स्म तदा एते अश्वकर्णकपर्णैः(तेग) मानरक्षणं कुर्वन्ति स्म । अनन्तरं पुरुषाः वेष्टिबन्धनं, महिलाः शाटिकाधरणं च आरब्धवन्तः । चोलधरणस्य पद्धतिः नासीत् । रक्तवर्णस्य कङ्कणानि, निकषशिलायाः उपरि उद्घृष्टानि कङ्कणानि, विशालकङ्कणानि, मृत्तिकाकङ्कणानि च धरन्ति स्म । हस्ते प्रवालं बध्नन्ति स्म । कण्ठे कृष्णमणीनां हारं बाहौ ताम्रस्य केयूरं, रजतस्य पादाङ्गुलीयकं च धरन्ति स्म । स्वर्णाभरणं न्यूनमासीत् । पुरुषाः यदा नगरं, विपणिं च गच्छन्ति तदा क्षौरं कारयन्ति स्म । तदर्थं क्षौरिकाय काष्ठबन्धं यच्छन्ति स्म ।

इरुळजनानां कानिचन संभाषणानि[सम्पादयतु]

  • कळि तिण्डासर =भोजनमभवत्।
  • माडु पुस्कोण्डु बार =धेनूः आनयतु।
  • तेवळिके होगु बा =मधोः उत्पाटनार्थं गच्छाम, आगच्छतु ।
  • नेर्पोडुङ्ग्र =अग्निं ज्वालयतु।।
  • नेर्दु तण्णि वट्टोडुङ्गुर = अग्निं निर्वापयतु।
  • कल्लु स्यावे सेक्नु =शिलासेवा करणीया ।
  • तण्णि मुट्टुङ्गोर =स्नानं करोतु।
  • एल्प कोडुङ्गर =क्रमुकताम्बूलं ददातु।
  • बुण्ड्कोव्रु बार =शयनं कुर्मः आगच्छतु ।
  • काडिके होगान बाङ्गो =अरण्यं गच्छामः आगच्छतु ।

इरुळजनानां भाषा दक्षिणद्राविडभाषागणस्य काचित् पृथक् भाषा अस्ति ।

"http://sa.wikipedia.org/w/index.php?title=इरुळजनाङ्गः&oldid=232956" इत्यस्माद् पुनः प्राप्तिः