इळैयराजा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इळैयराजा

इळैयराजा भारतिय चलनचित्र गीतरचनाकारः, भारतीय चलनचित्र क्षेत्रे कार्यम् करोति। भारते सुप्रसिध गीतरचनाकारेषु अन्यतमः इति यषोभागीवर्तते। इळैयराजा नकेवलम् गीतरचनाकारः किन्तु विविध सङ्गीत वाद्यसाम् वादकः व्यवस्थापकः तथा गायकश्च। एतावत् पर्यन्तम् सह ४५०० गीतानि अरचयत्। यध्यपि सह तमिलुचलनचित्र क्षेत्रे भहुविधम् कार्यम् अकरोत् तथापि सह तेलुगु मलयालम् कन्नडा हिन्धि इत्याधि भाषसु अपि राग संयोजम् अकरोत्। ऎषः १९९३ तमे वर्षे लंडन् नगरे ट्रिनिति (Trinity) संगीत महाविध्यलयात् शास्त्रीय गितार् (guitar) वाधनो सुवर्ण पधकम् अलभत।

प्राथमिक जीवनम् तथ परिवारः च।[सम्पादयतु]

इळैयराजा महोधयः भारते तमिलुनाडू प्रदेशे तेनी मंडले पण्णैपुरम् इति ग्रामे तमिलु कुटुम्बे ज्ञानदेशिक रूपेन अजायत् एतस्य विवाहः जीवा इति क्न्यया सह अभवत्। ऎतयोः द्वौ पुत्रौ एक पुत्री च सन्ति तेषामं नामानि सन्ति यथा कार्तिक् राजा, युवन् षंकर् राजा, भयतारिणि इति त्रयोपि एते गान निर्मातारः तथ गायकाः च वर्तन्ते। एतस्य भार्यस्याः मरणम् अक्तोबर् मासस्य ३९ दिनाङ्के २०११ तमेवर्षे अभवत्। गङ्गैअमरन् इति नामदेयः अनुजः अस्ति इळैयराजस्य सोपि सङ्गीत निर्धेषकः साहितिः अपि अस्ति तमिलु चलनचित्र कार्य क्षेत्रे।

सङ्गीतस्य प्रारम्भिकी अभिरुचि।[सम्पादयतु]

इळैयराजा महोधयः ग्रामीण क्षेत्रे प्रवृद्धः। एतेन सह विविध ग्रामीण तमिलु सङ्गीतः परिचितो भवत्। यध्य् सह १४ वर्षीय असीत् तद सह स्वाग्रजेन पवलार् वरधराजन् महोधयेन सह सङ्गीत यात्र सङ्गे प्रविशत्। अस्मान् सङ्गे कार्यकरण समये सह स्वकीय प्रथमम् गीतम् व्यरचयत्। जवहर्लल् नेहरु महोधयस्य चरमगीतम् लिकितम् आसीत् तमिलु कविना कन्नधासन् महोधयेन।

इळैयराजा महोगदयस्य चलनचित्र चरित[सम्पादयतु]

श्री इळैयराजा महोदयः ऎदम्प्राथम्येन स्वसङ्गीतप्रावीण्यतां १९७५तमे वर्षे "अन्नक्किले" इति तमिळु भाषायाः चित्रे प्रादर्शयत् | चित्रे अस्मिन् नूतनतया रागसंयोजनम् कृत्वा वैदेशिकाणाम् वाद्यादिकम् शास्त्रीयमार्गे उपयुज्य सर्वादौ मान्यतां प्राप् अयम् सङ्गीतक्षेत्रे प्रावीण्यं अलभत | ऎवमेव नैकासु भाषासु महोदयस्यास्य सङ्गीतपारङ्गतां सङ्गीतप्रेमिणः अनुभूताः अस्य कन्नड, तमिळु, तेलुगु, मलयाळेत्यादि दाक्षिणात्य तथा औत्तरीया जनाः अद्यापि श्रुण्वन्तः एव अभिमानिनः आराधकाश्च अस्तीति सर्वे जानासि | महोदयो अयं पञ्चाशताधिक नवरातचित्राणां कृते सङ्गीतनिर्देशनं कृत्वा पञ्चशताधिक चतुःसहस्र सुमधुर श्राव्य गीताणि मनोरञ्ज्काणि सन्तीति अमोघ एव खलु सङ्गीतचतुरस्यास्य साधनम् |

इळैयराजा महोगदयस्य सङ्गीतशैलिः[सम्पादयतु]

विद्वान् इळैयराजस्य वैशिष्ट्यामिदमस्ति यत् भारतीय तथा पाश्चात्त्यः वाद्यादिकम् मेलयित्वा जनान् रञ्ज्यति इति| सामान्यतः अस्य गीतादि पारम्परिक शास्त्रीयसङ्गीते प्रसिद्दानि रागादिभिः युक्त ऎव पाश्चात्त्यः गेय परम्परामपि परिचाययति इति तु विशेषः | निदर्शनमस्यत्र अस्य महोदस्य विद्वत्ता सूचकम् | प्राख्यात चित्रनिर्देशकः मणिरत्नम् एवं वदति- "अयं सङ्गीते निष्णात दृश्यमेकं पश्यति तदैव सन्दर्भानुसारिणं रागं संसूच्य तत्रैव वाद्येनानेनव रञ्जयते" इति सूचयति अयं सङ्गीतस्वरूपि मानवः अलं खल्वेतदस्य वैशिष्ट्यावगमने |

अन्य सङ्गीत रचनाः[सम्पादयतु]

न केवलं चित्रस्य परं भक्तिप्रधानगीतानमपि अनेन प्रदत्तमस्ति | अस्य "हौ टु नेम् इट्" इति त्यागराजवर्धाणां सस्मरणार्थमेव विनिर्मितमेकं सङ्गीतगुच्छम् संसूचयति श्रद्धा कथमस्ति सतां कृतेति | अपि च "नतिङ्ग् बट् विण्ड्" इति नाम्ना प्रथितं वाद्यगुच्छे प्रसिद्ध वेणुवादकेन हरिप्रसाद् चौरासिया महायोगेन सह सङ्गीतप्रपञ्चस्य वैविध्यम् अमोघतया परिचायितामित्यलं तस्य कीर्तनेन |

नैकाः कृतयः कर्नाटकशास्त्रीयशैल्यां तथा पाश्चात्यशैल्यां च विराचिताः इति सार्वकाजकतया आप्रपञ्चस्थ अभिमानिनः एवं स्मरन्ति इति शब्देनाराधयामो वयमपि "भूयिष्ठां ते नाम अक्तिं विधेयं" इति |

"https://sa.wikipedia.org/w/index.php?title=इळैयराजा&oldid=426380" इत्यस्माद् प्रतिप्राप्तम्