ईरोडमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
ईरोडमण्डलम्

पेरियारमण्डलम्

—  मण्डलम्  —


Location of ईरोडमण्डलम्
in तमिळ्नाडुराज्यम्
निर्देशाङ्काः

11°0′45″N 76°58′17″E / 11.0125°N 76.97139°E / 11.0125; 76.97139

देशः भारतम्
भूप्रदेशम् पश्चिम तमिळ्नाडु (Kongu Nadu)
राज्यम् तमिळ्नाडुराज्यम्
विभागः कोयम्बत्तूरु
मण्डलानि ईरोडमण्डलम्
उपमण्डलानि ईरोड्, गोबिचेट्टिपाल्यम्
केन्द्रप्रदेशानि ईरोड
बृहत्तमं नगरम् ईरोडनगरम्
बृहत्तमं महानगरम् ईरोडनगरम्
समीपतमं नगरम् कोयम्बत्तूरु
Collector श्री सि। कामराज् IAS
सांसदक्षेत्रम् 3
अधिवेशनसभा 8
जनसङ्ख्या

सान्द्रता
महानगरम्

२२[१] (2011)

३९७ /km2 ( /sq mi)
१५,००,००० (2001)

लिङ्गानुपातः पु-51%/स्त्री-49% /
साक्षरता

• Male
• Female

72.96%% 

• 80.81%
• 65.07%

व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
विस्तीर्णम् ५,६९२ square kilometres ( sq mi)
वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः


     ७०० mm ( in)

     ३५ °C ( °F)
     १८ °C ( °F)

Central location: 11°15′N 77°19′E / 11.25°N 77.317°E / 11.25; 77.317
जालस्थानम् Official website of District Collectorate, Erode

ईरोडु मण्डलं (तमिऴ् – ஈரோடு மாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य पश्चिममण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानम् ईरोडुनगरम् । १९९६ पर्यन्तम् इदं मण्डलं पेरियारमण्डलम् इति ज्ञातम् आसीत् । सेप्टम्बर् १७, १९७९ पर्यन्तम् ईरोडुमण्डलं कोयम्बत्तूरुमण्डलस्य भागः आसीत् । सुप्रसिद्धगणितज्ञस्य श्रीनिवासरामानुजस्य, समाजसुधारकस्य पेरियारस्य च जन्मस्थलम् ईरोडु ।

अन्तर्विषयाः

भौगोलिकम् [सम्पादयतु]

ईरोडुमण्डलस्य उत्तरभागे कर्णाटकराज्यस्य चामराजनगरमण्डलम् अस्ति । पूर्वदिशि कावेरीनदी प्रवहति । कावेर्याः अपरस्मिन् तीरे सेलं मण्डलं, नामक्कल् मण्डलं, करूरुमण्डलं च अस्ति । दक्षिणसीमायां तिरुप्पूरुमण्डलम् अस्ति । कोयम्बत्तूरुमण्डलम् तथा नीलगिरिमण्डलं च पश्चिमदिग्भागे स्तः ।

कावेरीनद्याः तिस्रः उपनद्यः भवानी, नोय्यल्, अमरावती च मण्डलस्य उत्तरभागे पर्वतेषु प्रवहन्ति । पालार् नदी अत्र प्रवहन्ती अपरा प्रमुखा नदी । पालार् नदी ईरोडुमण्डलस्य कर्णाटकराज्यस्य च सीमारूपेण प्रवहति । भवानीसागरजलबन्धः, कोडिवेरिजलबन्धः च मण्डले कृषिकार्यार्थं जलव्यवस्थां कल्पयतः । पश्चिमघट्टेषु अन्तर्भूताः अनेके पर्वताः अस्मिन् मण्डले सन्ति । तेषु प्रमुखाः – चेन्निमलै, पच्चैमलै, पवऴमलै, पेरुमाळ्मलै, तलवुमलै, लक्कपुरपर्वतः च ।

जनसंख्या [सम्पादयतु]

२०११ जनगणनानुगुणं ईरोडुमण्डलस्य जनसंख्या २,२५९,६०८ । जनसंख्यादृष्ट्या भारतस्य ६४० मण्डलेषु ईरोडुमण्डलस्य २००तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरस्ररकिलोमीटर् ३९७ अस्ति (१०३० प्रतिचतुरश्रमैल्) । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १२.०५% आसीत् । अत्रत्यः पुं-स्त्री अनुपातः १०००-९९२, साक्षरताप्रमाणं च ७२.९६% ।

उपमण्डलानि [सम्पादयतु]

  • भवानी
  • ईरोडु
  • गोबिचेट्टिपाळैयम्
  • पेरुन्दुरै
  • सत्यमङ्गलम्

कृषिः वाणिज्यं च [सम्पादयतु]

कृषिः ईरोडुमण्डलस्य जनानां प्रमुखा जीविका । तण्डुलः, कलायः, कदली, कार्पासः, हरिद्रा, नारिकेलः, इक्षुखण्डः इत्येतानि मुख्यानि कृष्युत्पन्नानि । ईरोडुनगरम् हरिद्रानगरम् इत्येव विख्यातम् अस्ति । अत्र अत्यधिकप्रमाणस्य हरिद्रा रुह्यते । पाके उपस्करत्वेन, वस्त्रेषु वर्णकारकत्वेन च हरिद्रा उपयुज्यते ।

भारतीयपाकेषु अधिकोपयोगि हरिद्रा चूर्णस्य प्रमुखवाणिज्यस्थानम् ईरोडनगरे वर्तते

गोबिचेट्टिपाळैयं श्वेतकौशेय-कदली-नारिकेलोत्पादने प्रसिद्धम् । भारतदेशस्य प्रथमं स्वयञ्चालितं कौशेयतन्तूत्पादनकेन्द्रम् गोबिचेट्टिपाळैये अस्ति । ईरोडुनगरं भारतस्य वैद्युतसीवनकेन्द्रम् इत्यपि ख्यातम् । अत्र वैद्युतसीवनेन निर्मितानां कार्पासशाटिका-शयनवस्त्र-वस्त्रकट-प्रोञ्छ-कटिवस्त्रादीनां विपणयः सन्ति ।

ईरोडप्रान्त्यस्य प्रसिद्धं शयनवस्त्रं वस्त्रकटञ्च

वीक्षणीयस्थलानि [सम्पादयतु]

भवानीसागरजलबन्धः [सम्पादयतु]

अयं जलबन्धः भवानीनद्यां निर्मितः । एषः गोबिचेट्टिपाळैयपत्तनात् ३५ किलोमीटर् दूरे अस्ति । अस्य जलबन्धस्य निर्माणकार्यं १९५३तमे वर्षे समाप्तम् । अत्र बृहद् उद्यानम् अपि अस्ति ।

कोडिवेरिजलबन्धः [सम्पादयतु]

गोबिचेट्टिपाळैयात् १५ किलोमीटर् दूरे आनैकट्टुग्रामे अयं जलबन्धः अस्ति । एषः सप्तदशशतके मैसूरुमहाराजेन निर्मितः । भवानीनद्यां निर्मितः अयं जलबन्धः ।

सत्यमङ्गलवन्यप्राणिधाम [सम्पादयतु]

अन्दियूरुसंरक्षितारण्यप्रदेशः, सत्यमङ्गलवन्यप्राणिधाम च गोबिचेट्टिपाळैयतः २५ किलोमीटर् दूरे अस्ति । अत्र बहुविधाः प्राणिनः सस्यानि च जीवन्ति । पश्चिमघट्टप्रदेशस्य अस्मिन् अरण्ये अपरिमितं जीविवैविध्यं दृश्यते । अस्मिन् अरण्ये प्रायः २५०० गजाः वसन्ति । देशस्य बृहत्तमेषु गजनिवासप्रदेशेषु अयम् अपि अन्यतमः । इदम् अरण्यं व्याघ्रसुरक्षाकाननं भवेत् इत्यपि प्रयत्नः चलति । भारतीयचित्रव्याघ्रः, कृष्णसारङ्गः, मयूरः, कण्टकमृगः इत्यादयः अपि अत्र दृश्यन्ते ।

सङ्गमेश्वरदेवालयः [सम्पादयतु]

अयं देवालयः ईरोडुसन्धेः १५ किलोमीटर् दूरे भवानीक्षेत्रे अस्ति । अस्मिन् क्षेत्रे कावेरी-भवानी-अमृतवाहिनीनदीनां सङ्गमः अस्ति । अतः अयं दक्षिणदेशस्य त्रिवेणीसङ्गमः इति प्रसिद्धः । ये एतं देवालयं प्रति आगच्छन्ति तान् कोऽपि दुष्टशक्तिः न बाधते इति जनाः विश्वसन्ति । एतं देवालयं परितः शङ्खगिरिः, तिरुच्चेङ्गोडे, पद्मगिरिः, मङ्गलगिरिः, वेदगिरिः इति पञ्च गिरयः सन्ति ।

वेलायुधस्वामिदेवालयः [सम्पादयतु]

ईरोडुपत्तनात् २५ किलोमीटर् दक्षिणे शिवगिरिपत्तने अयं देवालयः अस्ति । अस्मिन् देवालये दक्षिणभारते तृतीयबृहत्तमः रथः अस्ति । चित्रापूर्णिमायाम् अत्र रथोत्सवः वैभवेन आचर्यते । अत्रत्या देवी पोन्कालियम्मन् । एषा कोङ्गु वेल्ललार् समुदायस्य कुलदेवता । पङ्गुनीमासे (मीनमासे) अस्याः देव्याः रथोत्सवः भवति ।

कोडुमुडिदेवालयः [सम्पादयतु]

तमिऴ्नाडुराज्यस्य कोङ्गुप्रदेशस्य सप्तसु तेवारस्थलेषु इदं षष्ठं स्थलम् । अत्र सुन्दरः नमच्चिवायप्पदिकं रचितवान् । अत्र ब्रह्मणः विष्णोः च पूजास्थलानि सन्ति । एतौ परमेश्वरस्य पूजां कृतवन्तौ, अतः अस्य देवालयस्य त्रिमूर्तिदेवालयः (मुम्मूर्तिगळ् तलम्) इत्यपि नाम ।

बाह्यसम्पर्कतन्तुः [सम्पादयतु]

  1. 2011 Census of India (Excel). Indian government (16 April 2011).
  2. www.tn.gov.in
"http://sa.wikipedia.org/w/index.php?title=ईरोडमण्डलम्&oldid=231794" इत्यस्माद् उद्धृतम्