उडुपी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
श्रीकृष्णमन्दिरम्

उडुपी(Udupi)नगरं कर्णाटकराज्ये उडुपीमण्डले विद्यमानं किञ्चन प्रसिद्धं यात्रास्थलं प्रेक्षणीयं स्थानं च । 'उडुप'शब्दात् उडुपी इत्येषः शब्दः उत्पन्नः । उडुप इत्यस्य चन्द्रः इत्यर्थः । अस्मिन् स्थले चन्द्रः दक्षशापपरिहारार्थं तपः आचरितवान् । चन्द्रस्य उग्रतपसा परशिवः अत्र प्रत्यक्षः आसीत् । तस्य स्मरणार्थम् एव चन्द्रमौलीश्वरदेवालयः स्थापितः अस्ति । उडुपीनगरं 'शिवळ्ळि' इति अपि कथयन्ति । पूर्वं शिवबेळ्ळी इति आसीत् इति श्रूयते । वादिराजस्वामिनः महेशरजत इति आकारितवन्तः । रजतपीठम् इत्यपि अस्य नाम अस्ति ।

इतिहासः[सम्पादयतु]

कृतयुगे परशुरामः २२ वारं लोकस्य प्रदक्षिणां कृत्वा क्षत्रियाणां संहारं कृतवान् । सर्वां भूमिं ब्राह्मणेभ्यः दत्तवान् । अनन्तरं दत्ते स्थले स्वयं वासकरणम् अनुचितम् इति मत्वा स्वशक्त्या समुद्रम् एव दूरे अपसार्य नवीनं क्षेत्रम् निर्मितवान् । एतत् परशुरामक्षेत्रम् इति ख्यातमस्ति । अनन्तरम् एतत् क्षेत्रं रामभोजाय अददात् ।

गीतामन्दिरम्

रामभोजः अश्वमेधयागसमये परशुरामम् आहूय रजतपीठासने उपवेशनाय व्यवस्थां कृतवान् । यागानन्तरं तत्पीठम् पातालम् अगच्छत् । तस्मिन् स्थले शिलालिङ्गः आविर्भूतः तत्र परशुरामस्यापि सान्निध्यम् अस्ति । एतम् अनन्तासनः अथवा अनन्तेश्वरः इति कथयन्ति । अनन्तासनः एव परशुरामः । एषः देवः एव शिवबेळ्ळिनगरस्य मुख्यप्राणभूतः इव आसीत् ।

मध्वाचार्यः अस्मिन् देवालये एव पाठप्रवचनादिकं करोति स्म । आन्तरिकप्राङ्गणे विद्यादानादिकं प्रचलति स्म । अद्यापि पर्यायस्वामिनः प्रथमं तावत् श्रीअनन्तदर्शनं कृत्वा अनन्तरं कृष्णदेवालयं प्रविशन्ति । एषः सम्प्रदायः।

क्रिस्ताब्दे १२९७ तमे वर्षे हेविळम्बिसंवत्सरस्य माघशुद्धतृतीयायां मध्वाचार्याः श्रीकृष्णस्य सुन्दरप्रतिमाम् आनीय पूर्वाभिमुखं प्रतिष्ठापितवन्तः । कनकदासाय दर्शनं दातुं श्रीकृष्णः स्वयं पाश्चिमाभीमुखी भूत्वा रन्ध्रदारा दर्शनं दत्तवान् । तस्य स्थानस्य ''कनकनकिण्डी'' इति नाम अभवत् । गोपीचन्दनशिलायां श्रीकृष्णमूर्तिम् ओडभाण्डेश्वरप्रदेशे मध्वाचार्याः प्राप्तवन्तः । ततः पूर्वम् एकस्य सार्थवाहस्य नौका चण्डमारुतेन ग्रस्ता अभवत् । मध्वाचार्याः योगबलेन नौकां रक्षितवन्तः । सार्थवाहः भक्त्या इष्टं वस्तु स्वीकर्तुं प्रार्थनां कृतवान् । मध्वाचार्याः गोपीचन्दनशिलाम् स्वीकृतवन्तः । तस्यां शिलायां श्रीकृष्णमूर्तिः लब्धा इति अभिप्रायः अस्ति । उडुपीतः ओडभाण्डेश्वरः ४ कि.मी. दूरेऽस्ति । उडुपीतः समीपे समुद्रतीरे मल्पेप्रदेशे मत्स्योद्यमः, कापुप्रदेशे दीपस्तम्भः च प्रसिद्धौ स्तः ।

श्रीकृष्णमन्दिरस्य अलङ्कृतः रथः

उत्सवाः[सम्पादयतु]

अष्टमठानां यतयः श्रीकृष्णस्य पूजादिकं मासद्वयं यावत् कुर्वन्ति स्म। श्रीवादिराजमुनीनां काले मासद्वयस्य अपेक्षया वर्षद्वयस्य अवधिः उत्तमः इति निश्चयः अभवत् । अस्य पूजा-कार्यपरिवर्तनस्य पर्यायमहोत्सवः इति वदन्ति । एषः पर्यायमहोत्सवः वर्षद्वये एकवारं जनवरीमासस्य तृतीये सप्ताहे प्रचलति । उडुपिनगरे श्रीकृष्णदेवालयः, श्रीमदनन्तेश्वरदेवालयः, श्री चन्द्रमौळीश्वरदेवालयः, गीताभवनादीनि च दर्शनीयानि स्थलानि सन्ति । उडुपीनगरे सदा उत्सवाः भवन्ति । पर्यायोत्सवः, श्रीकृष्णजन्माष्टमी, लक्षदीपोत्सवः, मकरसङ्कमणं च विशेषोत्सवाः सन्ति ।

उडुप्याः श्रीकृष्णमन्दिरे कलासांस्कृतिकसङ्गीतकार्यक्रमाः आयोजिताः भवन्ति । मध्वसरोवरः राजाङ्गणं, काष्ठरथः, दीर्घा वृत्ताकारिका राजवीथी, गीताभवनम् इत्येते इतरविशेषाः । मध्वसरोवरे प्लवनयानोत्सवः (तेप्पोत्सवः) प्रचलति । प्रतिदिनम् उडुपिनगरं प्रति बहुजनाः आगच्छन्ति । श्रीकृष्णदर्शनं कृत्वा प्रसादं स्वीकुर्वन्ति मुख्यप्राणं च नमन्ति ।

मार्गः[सम्पादयतु]

बेङ्गळूरुतः ४२२ कि.मी। राष्ट्रियमार्गः २६। मङ्गळूरुतः ५८ कि.मी । (राष्ट्रियमार्गः २७) । कुन्दापुरतः ४२ कि.मी। रेलयानार्थं कोङ्कणरेलमार्गे इन्द्राळी निस्स्थानम् ।

वसतिः[सम्पादयतु]

बिर्लायात्रिवासः, श्रीकृष्णमठः, श्रीकृष्णमठे यात्रिकाणां भोजनव्यवस्था अस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=उडुपी&oldid=265827" इत्यस्माद् पुनः प्राप्तिः