उत्तराखण्डराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(उत्तराञ्चलः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
उत्तराखण्डराज्यम्
उत्तराखंड
—  राज्यम्  —
भारते उत्तराखण्डराज्यम्
उत्तराखण्डराज्यस्य भूपटः
Coordinates (देहरादून्): 30°20′N 78°04′E / 30.33°N 78.06°E / 30.33; 78.06
Country भारतम्
Established ९ नवेम्बर् २०००
Capital देहरादून्
Largest city देहरादून
Districts १३
सर्वकारः
 • Governor अझीझ् खुरेशि
 • मुख्यमन्त्री विजय बहुगुण
 • विधानमण्डलम् 70 seats
 • Parliamentary constituency 5
 • High Court Uttarakhand High Court
विस्तीर्णता
 • संहतिः ५१ Square km ( Square mile)
क्षेत्रविस्तारः 18th
जनसङ्ख्या (2011)
 • संहतिः १,०१,१६,७५२
 • रैङ्क् 19th
Indian Standard Time (IST) (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-UT
HDI 0.515
मानवविकाससूचकाङ्कः (HDI rank) सप्तमः (२०११)
साक्षरता ७९.६३
लिङ्गानुपातः ९६३
भाषाः हिन्दीभाषा, गर्वाली, कुमोनि,
राजभाषा हिन्दीभाषा, संस्कृतम्
जालस्थानम् uk.gov.in


उत्तराखण्डराज्यं (हिन्दी: उत्तराखण्ड राज्य, आङ्ग्ल: Uttarakhand State) भारतीय राज्येषु अन्यतमं राज्यम् । एतस्य राज्यस्य २००० तमे वर्षे 'नवम्बर'-मासस्य नवमे दिनाङ्के रचना जाता । उत्तरप्रदेशराज्यस्य रचनार्थं हिमालयपर्वतप्रान्तस्य, उत्तराखण्डराज्यस्य च विभागः कृतः । राज्यस्यास्य उत्तरे टिबेट्, पूर्वे नेपाल, दक्षिणपश्चिमयोः उत्तरप्रदेशः अस्ति । अस्य राज्यस्य नाम २००७ तमे संवत्सरे 'जनवरी'-मासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम् । राज्यस्य उच्चन्यायालयः नैनिताल् नगरे अस्ति ।

चतुर्धाम
Kedarnathji-mandir.JPG Badrinathji temple.JPG
केदारनाथः बदरीनाथः
Gangotri temple.jpg Yamunotri temple and ashram.jpg
गङ्गोत्री यमुनोत्री

विभागः[सम्पादयतु]

मण्डलानि

अस्मिन् राज्ये विभागद्वयं भवति गढवाल तथा कुमाऊं इति । अस्मिन् राज्ये १३ मण्डलानि सन्ति । गढवालविभागे चमोलीमण्डलं, देहरादूनमण्डलं, हरिद्वारमण्डलं, पौडीगढवालमण्डलं, रुद्रप्रयागमण्डलं, टिहरीगढवालमण्डलं, उत्तरकाशीमण्डलं चास्ति । कुमाऊंविभागे अल्मोडामण्डलं, बागेश्वरमण्डलम्, नैनितालमण्डलं, पिथौरागढमण्डलं, चम्पावतमण्डलम्, उधमसिंहनगरमण्डलं चास्ति । राज्यस्य मुख्यराजभाषा हिन्दी, उपराजभाषा संस्कृतभाषा चास्ति । “चिप्को” आन्दोलनस्य आरम्भः उत्तराखण्डराज्ये ऐदम्प्राथम्येन जातः । उत्तराखण्डस्य विस्तारः ५१,१२५ चतुरस्रकि.मी अस्ति । जनसंख्या ८५ लक्षमस्ति । देहरादून-हरिद्वार-नैनिताल-नगराणि अस्य राज्यस्य प्रमुखनगराणि सन्ति । राज्यस्य ९२.५७% भागः पर्वतीयः अस्ति । ६३% भागः अरण्यप्रदेशः अस्ति । उत्तराखण्डस्य मुख्याः पर्वताः नन्दादेवी (७८१६ मी.), बदरीनाथः(७१४० मी.), चौखम्बा(७१३८ मी.) तथा त्रिशूल्(७१२० मी.) सन्ति ।

इतिहासः[सम्पादयतु]

प्राचीनहिन्दूग्रन्थेषु केदार-मानसखण्डयोः मिलित्वा उत्तराखण्ड इति उल्लेखः दृश्यते । उन्नतपर्वताः, दर्दराः, नद्यः, पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति । अतः “देवभूमिः” इति अस्य नामान्तरमस्ति । ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः आसन् । वेदकाले आर्यसन्ततेः “रावत्” नामकाः जनाः आसन् । तस्मिन् काले ॠषीणां, साधूनाञ्च इष्टतमं स्थानम् आसीदेतत् । व्यासमहर्षिः अस्मिन्नेव स्थले महाभारतकाव्यं रचितवान् इति प्रतीतिः अस्ति । अस्मात् स्थलादारभ्यैव स्वर्गारोहणयात्रा आरब्धा पाण्डवैः इति जनानां विश्वासः । एतत् स्थलम् अशोककाले बौद्धधर्मप्रभावितम् आसीत् । आदिशङ्कराचार्यस्य प्रभावेण पुनः वैदिकसम्प्रदायावृतं जातं स्थलम् । मध्यकाले गढवाल,कुमाऊं च द्वे संस्थाने उत्तराखण्डे आस्ताम् । कुमाऊंसंस्थाने ’चन्द्रवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । गढवालसंस्थाने ’परमारवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । नेपालदेशस्य ’गूर्खा’ शासकाः १७९१ तमे संवत्सरे कुमाऊंराज्यं, १८०३ तमे संवत्सरे गढवालराज्यञ्च आक्रान्तवन्तः । १८१६ तमे संवत्सरे आङ्ग्लजनैः सह युद्धमभूत् । अनन्तरं गढवाल-कुमाऊंप्रदेशौ आङ्ग्लशासने आस्ताम् । भारतस्य स्वातन्त्र्यानन्तरं टिहरिसंस्थानम् उत्तरप्रदेशराज्ये शासनमकरोत् ।

राज्यजनसमुदायः[सम्पादयतु]

उत्तराखण्डस्य जनसमुदायस्य स्वमूलस्थानानुगुणं ’गढवाली’ उत ’कुमावी’ इति व्यवहारः अस्ति । सम्पूर्णस्य समुदायस्य “पहाडी” इति व्यवहारः अस्ति । पञ्जाबराज्यात् आगताः जनाः हिमालयस्य ’तेराय्ट्रदेशे’ वसन्ति । एतान् विहाय नेपालीजनाः, टिबेट्जनाः, गुज्जर्जनाश्च अत्रैव वसन्ति । राज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति ।

प्राकृतिकवर्णनम्[सम्पादयतु]

नन्दादेवीशिखरप्रदेशः

उत्तराखण्डः अतीवप्रकृतिरमणीयः प्रदेशः अस्ति । प्रायः राज्यस्य उत्तरभागस्य प्रदेशः हिमालयस्य अङ्गप्रदेशः अस्ति । अस्मिन् भागे उन्नतशिखराणि, हिमनद्यश्च विलसन्ति । हिमालयस्य सानुप्रदेशः पूर्वम् आकुलारण्यप्रदेशः आसीत् इति । अरण्यविभागस्य यत्नेन अरण्यस्य वृद्धिः जायमाना अस्ति । हिमालयस्य परिसरे विविधवन्यजन्तवः आश्रिताः । वन्यजन्तुषु व्याघ्राः, चित्रकाः, हिमचित्रकाः इत्यादयः अत्र आश्रिताः । अमूल्यानि सस्यानि, वनस्पतयश्च विलसन्त्यत्र। भारतीयपवित्रतमौ महानद्यौ गङ्गा, यमुनाच उत्तराखण्डस्य हिमपर्वतमूले उद्भूते । हिमालयपर्वतश्रेण्याः दक्षिणे भागे उत्तराखण्डः अस्ति । उन्नतप्रदेशाः हिमेन, शिलया च आवृताः सन्ति । नैनितालमण्डलस्य रामनगरे जिम् कार्बेट् राष्ट्रियोद्यानम् अस्ति । चमोलीजनपदे पुष्पकन्दरराष्ट्रियोद्यानम्, नन्दादेवीराष्ट्रियोद्यानञ्च आस्ति । उत्तरकाशीमण्डले गोविन्दपशुराष्ट्रियोद्यानम्, गङ्गोत्रीराष्ट्रियोद्यानञ्च अस्ति । हरिद्वारमण्डले राजाजि राष्ट्रियोद्यानम् अस्ति ।

प्रवासोद्यमविभागः[सम्पादयतु]

उत्तराखण्डस्य धनादायस्य प्रमुखविभागः प्रवासोद्यमविभागः भवति । सर्वदा अत्र तीर्थयात्रिकाः, पर्वतारोहिसाधकाः, पर्यटकाश्च भवन्ति । नैनिताल्, मस्सूरी, अल्मोरा तथा राणिखेत् इत्यादीनि गिरिधामानि प्रसिद्धानि सन्ति । हेमकुण्डस्य "श्वेतपुष्पकन्दरः" तथा नन्दादेवी राष्ट्रियोद्यानञ्च स्तः। विश्वपरम्परास्थानेषु नन्दादेवी राष्ट्रियोद्यानमपि अन्यतमम् । अधिकानां पर्यटकानाम् आकर्षणस्थानम् एतत् ।

धार्मिकक्षेत्राणि[सम्पादयतु]

हिन्दवानां पवित्रतमपुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते । तानि गङ्गोत्री, यमुनोत्री, केदारनाथः, बदरीनाथः(चारधाम) इति सुप्रसिद्धानि पवित्रक्षेत्राणि सन्ति । तथैव हरिद्वारं, हृषीकेशः च पवित्रक्षेत्रे स्तः । सिक्खधर्मस्य 'हेमकुण्डसाहेब्' पुण्यस्थानम् अस्मन्नेव राज्ये अस्ति । बौद्धधर्मस्य बुद्धस्तूपसहितं मिण्ड्रोलिङ्गपवित्रस्थानम् अत्रैव अस्ति ।

पुष्पकन्दरः[सम्पादयतु]

उत्तराखण्डराज्यं पूर्वम् उत्तरप्रदेशस्य भागः आसीत् । इदानीं स्वतन्त्रं राज्यम् अस्ति । अत्यन्तं सुन्दरं राज्यमेतत् । फ्राङ्क् स्मित् इति साहसी एतं प्रदेशम् अन्विष्टवान् । अत्र बहुविधाः पुष्पवृक्षाः सन्ति । एषः प्रपातः १० कि.मी. दीर्घः २ कि.मी. विस्तृतः च अस्ति । विश्वे एव एतादृशः निम्नकन्दरः अन्यत्र नास्ति । सागरतीरतः ३३५२ पादोन्नते प्रदेशे एतदस्ति । भारतीयाः विदेशीयाः च तत्र गच्छन्ति । जून-मासतः सप्तम्बर-मासपर्यन्तम् तत्र गन्तुं योग्यः कालः अस्ति । शीतकाले अतीव शैत्यं भवति ।

नैनिताल[सम्पादयतु]

'कुमाहिल्' प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराखण्डराज्यस्य किञ्चन नगरम् । नैनिताल इत्यस्य देवानां नेत्रे इत्यर्थः । नैनादेवी-तः नैनिताल इति नाम । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति अस्य नामान्तरमस्ति । नैनिताल-नगरस्य बृहत्तमः तडागः अस्ति 'भीमताल'-तडागः । अत्र नौकाविहारः, मीनग्रहणमित्यादिकम् अतीव आकर्षकाणि सन्ति । नैनिताल-नगरे मेघाच्छादितशिखराणि, सरोवराणि, तृणावृतप्रदेशाः, अरण्यानि, समतलभूमिः च अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं "A Jewel among the Tourist Places" इति यात्रिकाः सगौरवं कथयन्ति । शिवालिकपर्वतश्रेणिः, पर्वताः, प्रपाताः च मनोहराणि सन्ति । बहुकालपर्यन्तम् एतत् गिरिधाम अदृष्टमीव आसीत् । 'ब्यारन्' इति अधिकारी मार्गभ्रष्टः अत्र आगत्य अपूर्वप्रदेशं दृष्ट्वा सन्तुष्टः अभवत् । अनन्तरं यूरोपियन् जनाः अत्र आगतवन्तः । सा.श.१८४१तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । 'क्याटर्पिल्लर्' इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । नैनितालनगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः पक्षिणः तत्र दर्शनीयाः सन्ति । नैनिताल-तः पश्चिमे रामनगरम् इत्यस्मिन् स्थले राष्ट्रियोद्यानं 'जिम् कार्बेट् न्याशनल् पार्क्' अस्ति । अत्र भल्लूकाः, व्याघ्राः, गजादयः प्राणिनः सन्ति । समीपे 'राणीखेत्' अल्मोडादीनि गिरिधामनि सन्ति ।

पिण्डारी[सम्पादयतु]

पिण्डारी ग्लेषियर्

एतत् हिमालयप्रदेशस्य अत्यन्तं सुन्दरं स्थलम् । अत्र हिमनद्यः पर्वतशिखरेभ्यः अवतरन्ति । एषा हिमनदी ३ कि.मी. दीर्घा , अर्ध कि.मी. विस्तृता अस्ति । एषा ३३५३ मीटर् उन्नतप्रदेशे अस्ति । समीपे सुन्दरतृणभूमिः अस्ति । अत्र पर्वतारोहणं कर्तुं अवकाशः अस्ति । स्वर्गसदृशस्थलमेतत् इतः हिमालयपर्वतश्रेण्याः आरम्भः भवति । सर्वैः जीवने एकदा अवश्यं दर्शनीयमेतत् स्थलम् ।

जिम् कार्बेट् राष्ट्रियोद्यानम्[सम्पादयतु]

उत्तराखण्डराजस्य नैनितालपौरीमण्डलयोः भागः एषः । अभयारण्यमेव ५२३ चतुरस्र कि.मी. अस्ति । कुमाऊं-पर्वतप्रदेशे रामगङ्गानदी प्रवहति । एतत् सा.श.१९३५ तमे वर्षे रक्षितारण्यं घोषितमस्ति । प्रख्यातः मृगयाविहारी मृगयाप्रियः लेखकः 'जिम् कार्बेट्' कदाचित् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं Man eaters of kumaon लिखितवान् । अत एव अरण्यं प्रति तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रियोद्यानस्य Tiger Country इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि अस्ति । मृगाः, व्याघ्राः, गजाः, भल्लूकाः अत्र सन्ति । अत्र विविधाः पक्षिणः सन्ति । अतः खगवीक्षकस्वर्गः (Bird Watcher’s Paradise) इति कथयन्ति ।

देहरादून्[सम्पादयतु]

प्रवासिजनाः एतं प्रदेशं द्रष्टुम् इतः मस्सूरीप्रदेशं गन्तुं तत्र गच्छन्ति । तत्र अत्यन्तम् उत्तमं खगवीक्षणस्थानम् अस्ति । तस्य कारणम् तु तत्र विद्यमानम् अरण्यसंशोधनकेन्द्रं एव विश्वे तस्य स्थानं प्रप्रथमम् अस्ति । तत्र भारतीयसर्वेक्षणविभागस्य केन्द्रम् (सर्वे आफ् इण्डिया) अस्ति । ततः ८ कि.मी. दूरे चोरगुहा (राबर्सकेव्) इति स्थलम् अपूर्वमस्ति । भव्यानि अरण्यानि, पर्वतप्रदेशाः, नदीतीरप्रदेशाः च अस्माकं मनः आकर्षन्ति । अत्र जलं किञ्चिद्दूरं गुप्तगामीनी भूत्वा पश्चात् दूरे फेनरूपेण बहिरागच्छति । समीपे १४ कि.मी. दूरे उष्णजलनिर्झरिण्यः सहस्रधारा इति स्थले सन्ति । मृगवनम् आकर्षकम् अस्ति ।

मसूरी गिरिधाम[सम्पादयतु]

अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । हिमालयशिखराणि अत्र गोचरी भवन्ति । इतः ११ कि.मी.दूरे 'केम्प्रीफालस्', 'भट्टफाल्स्, स्तः । अत्युन्नतं स्थानं 'लालतिल'-नामकं प्रसिद्धं स्थानम् अत्र अस्ति । सागर-स्तरतः २००० मीटर् उन्नतप्रदेशोऽयं 'क्यामल्स् बाक्स्'-'गन् हिल्'-स्थानके अतीवोन्नते स्थाने स्तः । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । 'लाक् मण्ड्ल्' (३५ कि.मी.) स्थले शिवदेवालयः अस्ति । अत्रैव कौरवाः पाण्डवान् लाक्षागेहे मारयितुं प्रयत्नं कृतवन्तः इति महाभारते उल्लिखितम् । सहस्रधारस्थले ९ मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः ।

हिमालयः[सम्पादयतु]

हिमालयः उत्तराखण्डप्रदेशस्य सुन्दरं स्थलम् । उत्तराखण्डराज्यमेव पर्वतानाम् स्थानमस्ति । अत्र पर्वतेषु सदा तुषारावृतं दृश्यं द्रष्टुं शक्यते । प्रपातेषु सदा शीतलं जलं प्रवहति । तृणावृतानि समतलानि आकर्षकानि भवन्ति । गढवालप्रदेशस्य विस्तारः ५००० चतुरस्रकि.मी. अस्ति । अत्रैव चमोली, पौरीगढवाल, टिहरीगढवाल, देहरादूनमण्डलानि सन्ति । गढवाल प्रवासिजनानां स्वर्गमिति कथयन्ति । अत्र यात्रा साहसिकानामेव साध्या । पर्वतारोहिणाम् उत्साहः भवति । जलक्रीडासु जनाः मग्नाः भवन्ति । "रिवर् राप्टिङ्ग्" , "मौण्टन् बैकिङ्ग्" इत्यादीनि जनानां प्रियाणि भवन्ति । पर्वतशिखरेषु त्रिशूल्, कामेट्, धुनगिरि इत्यादीनि अतीव प्रसिद्धानि सन्ति । नन्दादेवी अत्युन्नतः पर्वतः अस्ति । अत्र कठिनशिलारोहणं साहसिकानां प्रियं भवति । तुषारावृतप्रदेशे धावनमपि अत्र साहसप्रियाणाम् इष्टं भवति। मसूरी इवात्रापि अतीव शैत्यं भवति । हृषीकेशः, अल्मोरा, राणिखेत्, मसूरी, यमुनोत्री, केदारनाथः, बदरीनाथः च अत्रैव समीपे विद्यमानानि क्षेत्राणि । प्रतिक्षेत्रेषु सहस्राधिकाः जनाः दर्शनं प्राप्नुवन्ति ।

बदरीनाथः[सम्पादयतु]

नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथः अस्ति । अस्मिन् स्थाने स्थितं शिवक्षेत्रं ब्रह्मकपालनाम्ना निर्दिश्यते । वेदव्यासमहर्षिः अत्र स्थितवान् । श्रीशङ्कराचार्यः अत्रैव स्थित्वा भाष्यग्रन्थान् रचितवान् । श्रीमन्मद्वाचार्यः बदरीनाथे एव समाधिस्थः अभवत् इति जनानां विश्वासः । महर्षिः श्री वेदव्यासः महाभारतम् अत्रैव रचितवान् गणपतिः अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टादशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्टकि.मी. दूरे ४०० पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । हृषीकेशतः रुद्रप्रयागपर्यन्तम् आगत्य अग्रे केदारनथक्षेत्रं गन्तुं शक्यते । एतत् हृषीकेशतः २४० कि.मी. दूरेऽस्ति ।

केदारनाथः[सम्पादयतु]

सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । केदारनाथप्रदेशं रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । केदारनाथक्षेत्रं द्वादशज्योतिलिङ्गक्षेत्रेषु अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया शिवः अत्र ज्योतिर्लिङ्गरूपेण स्थितवान् इति शिवपुराणे अस्ति । एतत् हिन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपे मन्दाकिनीनद्याः उगमस्थानमस्ति । केदारनाथस्य क्षेत्रं सागरस्तरतः ११७०० पादपरिमितौन्नत्ये स्थलम् अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। गौरीकुण्डः इति पवित्रजलवापी अस्ति । श्रीशङ्कराचार्यः केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्तानां यात्रास्थलं , प्रकृतिप्रियाणां साहसप्रियाणां एतत् प्रियं स्थानम् ।

अल्मोडा[सम्पादयतु]

हिमालयपर्वतश्रेण्यां स्वर्गमिव प्रकाशामानं गिरिधाम अल्मोरा । एतत् गिरिधाम दर्शकानां स्वर्गः इति ख्यातमस्ति । अत्र कन्दराः पर्वतशिखराणि नद्यः (रामगङ्गा, कोशी) सर्वाणि दिव्यानि भव्यानि च सन्ति । अत्र समतले वाटिकाः सन्ति । पर्वतारोहिणां प्रियं स्थानमस्ति । अल्मोरातः कारूददेवि मन्दिरपर्यन्तं जनाः आरोहणं कुर्वान्ति । स्वामी विवेकानन्दः इतः एव भारतयात्राम् आरब्धवान् इति इतिहासः। उत्तराखण्दराज्यतः कुमांव् ट्रान्सपोर्ट् इति संस्था प्रवासव्यवस्थां करोति । स्वयं वाहनैः अपि गन्तुं शक्यते ।

गौमुखम्[सम्पादयतु]

उत्तरकाशीमण्डलस्य एतत् प्रमुखस्थलमस्ति । सागरस्तरतः ४२५५ मीटर् उन्नतप्रदेशे एतदस्ति । अत्र पञ्चदश हिमनदीभिः एका गुहा निर्मितास्ति । एषा गौमुखम् इव दृश्यते इति स्थलस्य नाम गोमुखम् इति आगतम् । भागीरथी नदी अत्र सञ्जाता । अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया अस्ति । अत्र नदीस्नानम् अतीव पुण्यफलदम् इति जननां विश्वासः । अत्र अपाय स्थानानि बहूनि सन्ति । अत्र नदी वेगेन प्रवहति । अत्र कदाचित् हिमशिलाप्रपातः भवति । रक्षकपुरुषाः अत्र दर्शनं कृत्वा शीघ्रं निवर्तितुं जनान् सूचयन्ति ।

हिमालययात्रा[सम्पादयतु]

उत्तराखण्डतः हिमालययात्रा आरब्धा भवति । तदर्थम् अनेकानि शीतनिरोधकानि वस्तूनि सङ्ग्रहणीयानि भवन्ति । यात्राकर्तुम् पूर्वमेव सर्वं सूचयन्ति । हिमालययात्रा अद्भुतास्ति । यावत् पर्यन्तं यात्रा समाप्ता न भवति तावत् पर्यन्तम् अतीव जागरूकतया भवितव्यं भवति । विशेषतः भारतीयानां हिमालययात्रा अतीव इष्टा अस्ति ।

हरिद्वारं हृषीकेशः[सम्पादयतु]

गङ्गानद्याः अपूर्वसौन्दर्यं द्रष्टुं शक्यते । हरिद्वारम् अथवा हरद्वारम् इति प्रख्यातं प्राचीनं पत्तनमेतत् हरेः पादौ अत्र स्तः इति हरिद्वारम् इति नाम आगतमस्ति । ब्रह्मकुण्डप्रदेशे हरिपादौ स्तः अमृतकुण्डं हरि की पायरि इत्यपि कथयन्ति । गङ्गातीरे गङ्गामातुः मन्दिरमस्ति । लक्ष्मीमन्दिरं श्रीराममन्दिरं नीलधारा, पावनधाम, दक्षप्रजापतिमन्दिरम् इत्यादिदर्शनीयानि सन्ति । गङ्गातीरे अनेक गुरुकुलानि सन्ति । अत्रानेकधर्मशालाः सन्ति । गङ्गास्नानम् अत्र पवित्रकार्यमस्ति । हरिद्वारतः १४ कि.मी. दूरे हृषीषिकेशक्षेत्रमस्ति । अत्र गीताभवनं, स्वर्गाश्रमः, ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिघट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा गङ्गायाः पारं कर्तुं शक्यते । इतः हिमालययात्रायाः आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं गङ्गा प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । गङ्गानद्याः उभयपार्श्वयो: स्नानघट्टाः निर्मिताः सन्ति ।

बाह्यानुबन्धः[सम्पादयतु]

Government
Other


.

"http://sa.wikipedia.org/w/index.php?title=उत्तराखण्डराज्यम्&oldid=271764" इत्यस्माद् पुनः प्राप्तिः