उत्तानपादासनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



उत्तानपादासनं योगासनस्य एकम् आसनमस्ति ।

आसनकरणविधिः[सम्पादयतु]

  • पृष्ठमवलम्ब्य भूमौ शयनं करोतु ।
  • हस्तद्वयं शरीरमुभयतः भूमौ स्थापयतु ।
  • पादद्वयं ऋजुतया प्रसारयतु ।
  • शनैः शनैः पूरकेण वामपादमुपरि उत्थाप्य निमेषद्वयं स्थापयित्वा पुनः रेचकेण भूमौ स्थापयतु ।
  • क्षणं विश्रम्य पुनः अपरपादेन तद्वत् करोतु ।
  • एवं प्रकारेण युगपत् पादद्वयेन तद्वत् करोतु ।

लाभः[सम्पादयतु]

  • पाकस्थल्याः बाह्याभ्यन्तरपेशयः सम्यक् सञ्चालिताः भवन्ति ।
  • आसनमेतद् यकृतं स्वस्थं कृत्वा कोष्ठकाठिन्यं वायुदोषं आन्त्रिकदोषञ्च अपसारयति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उत्तानपादासनम्&oldid=468685" इत्यस्माद् प्रतिप्राप्तम्