उपनयनसंस्कारः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

फलकम्:Underlinked

उपनयसंस्कारस्य चित्रम्

बालसंस्काराणाम् उपनयनाख्यः संस्कारः एव सर्वप्रधानः । वेदाध्ययनाय गुरोः शिष्यस्य समीपे गमनम् उपनयनम् इति उच्यते । उपनयन शब्दोऽयम् उपपूर्वक नी धातोः ल्युट् प्रत्यययोगे निष्पद्यते । उप-समीपे (वेदपठनाय गुरोः समीपे) नयनमुपनयनम् । यदा पिता वेदम् अध्यापयितुम् असमर्थो भवति तदा स्वयं स्वपुत्रम् आचार्यस्य समीपं नीत्वा तस्य उपनयनार्थं प्रार्थयेत् । आचार्यश्च तम् उपनीय शिष्यत्वेन अङ्गीकृत्य तम् अध्यापयेत् । महर्षिगौतममतानुसारेण प्रथमतः अष्टमवर्षवयस्कं माणवकम् उपनयनसंस्कारेण संस्कुर्यात् । उपनयनं हि माणवकसंस्कारः ।

आगर्भाष्टमाब्दमा च षोडशाद्वर्षात् ब्राह्मणस्योपनकालः । क्षत्रियवैश्ययोरेकादशे द्वादशे च वर्षे कर्तव्यः । तदत्यते च यथाक्रमं द्वाविंशात् चतुर्विंशाच्च वर्षात् पूर्वं कर्तुं शक्यः । उपनयनक्रियायां प्राधान्येनानुष्ठीयमानं कर्म वटुना दण्डग्रहणं मेखलाजिनबन्धारणं च । तत्र ब्रह्मसूत्रं वामबाहोरधस्तात् लम्बयित्वा शिरः प्रवेश्य वामस्कन्धे ध्रियते । मेखलापि विभिन्नवस्तुका श्रूयते । ब्राह्मण-क्षत्रिय-वैश्यभेदं निमित्तीकृत्य दण्डो विभिन्नवृक्षसम्बन्धी विहितः । ब्रह्मसूत्रं त्रैवर्णिकानाम् आर्याणां बाह्यं चिह्नम् । यद्धारणेन वटुः द्वितीयं जन्म प्रपन्न इति आस्थीयते । द्विज इति च व्यपदिश्यते । उपनयनसंस्कारस्य प्रयोजनं वेदाध्ययनाधिकारसिद्धिः, सावित्री मन्त्रोच्चारणयोग्यता सिद्धैश्च । तत्र यः कुमारं ब्राह्मणम् उपनीय वेदम् अध्यापयति सः आचार्यः । तस्य विद्याप्रदातृत्वात् पितृत्वेन, भगवती सावित्री मातृत्वेन च निर्दिश्यते । अध्ययनेन गुरुकुले निवसतां वटूनाम् इन्धनानयनं सायम्प्रातः सन्ध्योपासनं, भिक्षाटनं, स्थण्ड्लशयनं, गुरुशुश्रूषणम् इत्यादयो बहवः कर्मनियमाः सन्ति ।

"http://sa.wikipedia.org/w/index.php?title=उपनयनसंस्कारः&oldid=265899" इत्यस्माद् पुनः प्राप्तिः