उशीरसस्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
एक्स्प्रेशन गलती: अनपेक्षित < ओपरेटर
Vetiveria zizanioides0.jpg
वैज्ञानिक वर्गीकरण
जगत: Plantae
(अश्रेणिकृत) Monocots
(अश्रेणिकृत) Commelinids
गण: Poales
कुल: Poaceae
प्रजाति: Chrysopogon
जाति: C. zizanioides
द्विपद नाम
Chrysopogon zizanioides
(L.) Roberty
पर्याय

Vetiveria zizanioides


इदम् उशीरसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं वस्तुतः तृणम् । इदम् उशीरसस्यं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । एतदतिरिच्य ब्रेजिल्, वेस्ट् इण्डीस्, बर्मा इत्यादिषु देशेषु अपि वर्धते । इदं सस्यं गुल्माकारेण वर्धते । अस्य मूलं सुगन्धयुक्तं भवति । अस्य मूले भाष्पीभवनशीलं किञ्चित् तैलं भवति । तथैव रेसिन्, कलरिङ्ग् म्याटर्, आम्ल साल्ट् आफ् लैम्, अयसः आक्सैड् इत्यादयः अंशाः अपि भवन्ति ।

इतरभाषाभिः अस्य उशीरसस्यस्य नामानि[सम्पादयतु]

इदम् उशीरसस्यम् आङ्ग्लभाषया “खस् ग्रास्” इति उच्यते । अस्य वैज्ञानिकं नाम अस्ति Vetivaria Ziznioides इति । हिन्दीभाषया इदम् उशीरसस्यं “बाला” अथवा “खस्” इति, तेलुगुभाषया “विडावलिबेरु” इति, तमिळ्भाषायाम् “इलमिचामवर्” इति, मलयाळभाषया “वेट्टवर्” इति, कन्नडभाषया “लामञ्च” अथवा “लावञ्च” इति उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य उशीरसस्यस्य प्रयोजनानि[सम्पादयतु]

अस्य उशीरसस्यस्य रसः तिक्तः मधुरः च । अस्य गुणः लघु, रूक्षः च । इदम् उशीरसस्यं शीतवीर्ययुक्तम् । चिपाके कटुः भवति ।

१. इदम् उशीरसस्यं कफं पित्तं च शमयति ।
२. इदं मूत्रविकारेषु, रक्तपित्ते, ज्वरे च उपयुज्यते ।
३. विसर्पे अपि इदं हितकरम् ।
४. अस्य सेवनेन पित्तजन्याः व्याधयः अपगच्छन्ति ।
५. अनेन निर्मितम् “उशीरासव” नामकम् औषधम् आयुर्वेदस्य आपणेषु उपलभ्यते । तत् औषधं ३०मि.ली. यावत् सेवनीयम् ।
६. अस्य “षडङ्गपानीयम्” अपि ३० मि.ली यावत् सेवितुं शक्यते ।
"http://sa.wikipedia.org/w/index.php?title=उशीरसस्यम्&oldid=237447" इत्यस्माद् उद्धृतम्