ऋतुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ऋतुः
वषे ऋतुः
वषे ऋतुः

ऋतुः वर्षस्य कश्चित् कालखण्डः यस्मिन् वातावरणं निश्चितप्रकारकं भवति । समग्रवर्षस्य कालः षट्सु ऋतुषु विभक्तः । मासद्वयस्य कालः एकस्य ऋतुसमयः भवति । ऋतवः षट्सङ्ख्यकाः । यथा- ग्रीष्मः, वर्षाः, शरत्, हेमन्तः, शिशिरः, वसन्तः । ऋतुः पुंल्लिङ्गशब्दः वर्तते ।

  • ग्रीष्मर्तुः । सूर्यः तीव्रं तपति । नद्यादिषु जलं शुष्यति । दिवावर्धते । जनाः तापमनुभवन्ति ।
  • वर्षर्तुः । मेघाः वर्षन्ति । पर्वताः शितलाः भवन्ति । नद्यादयः जलपूरिताः भवन्ति । भूमिः सस्यश्यामला जायते । कर्षकाः नन्दन्ति । आश्वयुजकार्तिकयोः
  • शरदृतुः । आकाशः निर्मलःभवति मेघाः निर्जलाः सञ्चरन्ति । चन्द्रिका विशदा भवति । मार्गाः पङ्करहिताः भवन्ति । मार्गशीर्षपुष्ययोः
  • हेमन्तर्तुः । रात्रिः वर्धते । सूर्यः मन्दं तपति । विस्तारेण हिमं पतति । सलिलं शीतलतरं भवति वायुः अतिशितः वाति । माघफाल्गुणयोः
  • शिशिरर्तुः । वृक्षेभ्यः पर्णानि पतन्ति । सस्यानि फलन्ति । शीतं अधिकतरं भवति ।
  • वसन्तर्तुः । वृक्षाः कुसुमिताः भवन्ति । कोकिलाः कूजन्ति । मधुपाः मधु पिबन्ति । उपवनानि शोभन्ते ।

ऋतुमासानां तुलना[सम्पादयतु]

ऋतवः seasons मासाः (दक्षिणभारते) ग्रेगरियन् मासाः (दक्षिणभारते) मासाः (मध्यभारते) ग्रेगरियन् मासाः (मध्यभारते) मासाः (उत्तरभारते) ग्रेगरियन् मासाः (उत्तरभारते)
ग्रीष्मर्तुः Summer चैत्रमासः(१/२) - वैशाखमासः - ज्येष्ठमासः(१/२) एप्रिल् - मे वैशाखमासः - ज्येष्ठमासः एप्रिल्(१/२) - मे - जून्(१/२) ज्येष्ठमासतः आषाढमासपर्यन्तम् मे - जून्
वर्षर्तुः Rainy ज्येष्ठमासः(१/२) - आषाढमासः - श्रावणमासः(१/२) जून् - जूलै आषाढमासः - श्रावणमासः जून्(१/२) - जूलै - आगस्त्(१/२) श्रावणमासतः भाद्रपदमासपर्यन्तम् जुलै - सप्टम्बर्
शरदृतुः Autumn श्रावणमासः(१/२) - भाद्रपदमासः - आश्विनमासः(१/२) आगस्त् - सप्तम्बर् भाद्रपदमासः - आश्विनमासः आगस्त्(१/२) - सप्तम्बर् - अष्टोबर्(१/२) आश्वीजमासतः कार्तिकमासपर्यन्तम् अक्टोबर् - नवेम्बर्
हेमन्तर्तुः Pre-winter आश्विनमासः(१/२) - कार्तिकमासः - मार्गशीर्षमासः(१/२) अष्टोबर् - नवम्बर् कार्तिकमासः - मार्गशीर्षमासः अष्टोबर्(१/२) - नवम्बर् - दशम्बर्(१/२) मार्गशीर्षमासतः पुष्यमासपर्यन्तम् डिसेम्बर -जनवरी १५
शिशिर्तुः Winter मार्गशीर्षमासः(१/२) - पुष्यमासः - माघमासः(१/२) दशम्बर् - जनुवरी पुष्यमासः - माघमासः दशम्बर्(१/२) - जनुवरी - फेब्रुवरी(१/२) माघमासतः फाल्गुणमासपर्यन्तम् जनवरी १६ - फेब्रवरी
वसन्तर्तुः Spring माघमासः(१/२) - फाल्गुनमासः - चैत्रमासः(१/२) फेब्रुवरी - मार्च् फाल्गुनमासः - चैत्रमासः फेब्रुवरी(१/२) - मार्च् - एप्रिल्(१/२) चैत्रमासतः वैशाखमासपर्यन्तम् मार्च् - एप्रिल्

इमान्यपि दृश्यताम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ऋतुः&oldid=452762" इत्यस्माद् प्रतिप्राप्तम्