ऋतुसंहारम्
ऋतुसंहारं महाकविना कालिदसेन विरचितमेकमत्यधिकं प्रसिद्धं काव्यमस्ति। काव्येस्मिन् ग्रीष्मवर्षाशरद्हेमन्तशिशिरवसन्तानां षण्णाम् ऋतूणां सुमनोहरं विस्तृतं वर्णनमस्ति। अस्मिन् काव्ये प्रकृत्याः सौन्दर्यस्य दर्शनं भवति।
अत्र काव्ये लघुकायाः षट् सर्गा यत्र संहत्थ १५३ श्लोकाः वडृतुवर्णने निबध्दाः । प्रकृतेः सर्वावस्थासु परिवर्त्तितानि तानि तानि चित्राण्यत्र् प्रस्तुतानि यानि प्रत्यक्षदृष्टानीव हृदयं रञ्जयन्ति । कालिदासीयमेवेदमपि काव्यम् ।
केचिदत्र मल्लिनाथस्य टीकामनालोक्यास्य कालिदासप्रणीतत्वं न स्वीकुर्वन्ति । केचित्पुनरत्र ग्रीष्मं प्रथमं वर्ण्यमानमपि दृष्ट्वा कमपि वितृष्णत्वमिव प्रकाशयन्ति । उभयमपीदं न युक्तम्, यतो मल्लिनाथः सर्वानेव ग्रन्थान् विवृणुयादेवेति कुतस्त्या नियमः ? किञ्च वर्षादौ वसन्तस्य निपातेन तद्वर्णनं प्राथम्यमर्हतीति पञ्चाङ्गे युज्यते, न पुनः काव्ये । काव्ये हि कविरुचिः प्राधान्यं भजते । अतो नानया पध्दत्याऽस्य ग्रन्थस्य कालिदासकृतित्वं प्रतिषेध्दुं शक्यते । वस्तुतोऽयं ग्रन्थः कस्यचिदन्यस्य कालिदासस्य कोटिजिदपरनाम्नः । बहवो हि बभूवुः कालिदासाः शृङ्गारतिलक –ज्योतिर्विदाभरण-पुष्पबाणविलासादिकर्त्तारः । तदयं ग्रन्थोऽपि तदन्यतमस्यैव कस्यापि कृतिः स्वादिति सम्भवदुक्तिम् । कीथ महाशयोऽप्यर्थमिममुक्तवान् । कविताशैली पुनरस्य ग्रन्थस्य सरसा सरला च प्रतिभाति –
- मन्दानिलाकुलितचारुतराग्रशाखः पुष्पोद्गमप्रचयकोमलपल्लवाग्रः ।
- मत्तद्विरेफपरिपीतमधुप्रसेकश्चितं विदारयति कस्य न कोविदारः॥
- गृहीतताम्बूलविलोपनस्रजः पुष्पासवामोदितवक्त्रपङ्कजाः ।
- प्रकामकालागुरुधूपवासितं विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥