ऋषभदेवः तीर्थङ्करः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
ऋषभदेवः
प्रथमः जैनतीर्थङ्करः
WLA lacma Jina Rishabhanatha.jpg

ऋषभनाथस्य प्रतिमा, लॉस एंजिल्स काउण्टी कला सङ्ग्रहालयः
विवरणम्
अन्यत्नाम आदिनाथः ऋषभनाथः, वृषभनाथः ।
परिवारः
पिता नाभिरायः
माता मरुदेवी
वंशः इक्ष्वाकुः
स्थानम्
जन्म अयोध्या
निर्वाणः कैलासपर्वतः
लक्षणम्
वर्णः सुवर्णम्
चिह्नम् वृषभः
औन्नत्यम् ५०० धनुनूंषि (१५०० मीटर्)
आयुः ८,४००,००० पूर्व (५९२.७०४ × १०१८ वर्ष)
शासकदेवः
यक्षः गौमुखम्
यक्षिणी चक्रेश्वरी

ऋषभदेव प्राचीने भारते महाराजस्य मनोः वंशीयः परमहंसः योगी आसीत् । सः जैनमतस्य तीर्थङ्करः । विष्णुपुराणानुसारम् अस्य पुत्रस्य भरस्य नाम्ना एव अस्य देशस्य भारतम् इति नाम प्राप्तम् । \

जीवनचरितम्[सम्पादयतु]

  • जन्म - चैत्रकृष्णनवमी ।
  • जन्मस्थानम् - अयोध्या ।
  • माता - महाराज्ञी मरूदेवी ।
  • पिता - महाराजः नाभिरायः ।
  • निर्वाणम् - माघकृष्णचतुर्दशी ।
  • निर्वाणस्थलम् - श्री कैलासपर्वतः ।
  • लञ्छनम् - वृषभः ।

ऋषभदेवं भगवान् आदिनाथः इति आह्वयन्ति । अस्य बृहत्तमा प्रतिमा मध्यप्रदेशराज्यस्य बावनगजा इति स्थाने अस्ति ।

जैनगन्थेषु वर्णनम्[सम्पादयतु]

जैनपुराणानुसारं राज्ञः नाभिरायस्य पुत्रः वृषभदेवः महाप्रतापी साम्राट् जैनमतस्य प्रथमः तीर्थङ्करः च । ऋषभदेवस्य अन्यनामानि ऋषभनथः, आदिनाथः, वृषभनाथः च । ऋषभानथस्य विवाहः यशवती (नन्दा) सुनन्दा इति कन्याभ्याम् अभवत् । भार्याभ्यां शतम् अपत्यानि अभवन् । एतेषु भरतः ज्येष्ठतमः चक्रवर्ती साम्राट् अभवत् । द्वितीयः पुत्रः बाहुबलिः अपि महान् राजा कामदेवपदभूषितः । एतयोः अतिरिच्य वृषभसेनः, अनन्तविजयः, अनन्तवीर्यः, अच्युतः, वीरः, वरवीरः इत्यादयः ९९पुत्राः, ब्राह्मी, सुन्दरी चेति द्वे पुत्री अभवताम् । [१]

हिन्दुग्रन्थेषु वर्णनम्[सम्पादयतु]

वैदिकधर्मे अपि ऋषभदेवम् कश्चन अवतारः इति भावयन्ति । भागवते अर्हन् इति राज्ञस्य रूपेण अस्य ऋषभदेवस्य वर्णनम् अस्ति । अत्र भारतादीनां १००पुत्राणां कथनं, जैनमतस्य इव कृतम् अस्ति । अन्ते सः दिगम्बरसाधुः भूत्वा भारते विहारकरणस्यापि उल्लेखः अस्ति । ऋग्वेदः इत्यादिषु प्राचिनवैदिकसाहित्येषु अपि अस्य सादरं स्तवः अस्ति । श्रीमद्भागवतपुराणे पञ्चमे स्कन्धानुसारं प्रियव्रतस्य पुत्रः आग्नीध्रः, अस्य पुत्रः नाभिः अभवत् । राज्ञः नाभेः पुत्रः ऋषभदेवः यः महाप्रतापी राजा अभवत् । भागवतपुराणानुसारं भगवतः ऋषभदेवस्य विवाहः इन्द्रस्य पुत्रीं जयन्तीं इत्यनया अभवत् । अनयोः दाम्पत्यफलरूपेण शतं पुत्राः उत्पन्नाः । तेषु भरतः ज्येष्ठः गुणवान् अभवत् ।[२] भरतस्य अनुजाः कुशावर्तः, इलावर्तः, ब्रह्मावर्तः, मलयः, केतुः, भद्रसेनः, इन्द्रस्पृक्, विदर्भः, कीकटः इति नवराजकुमाराः अन्य नवदशानाम् अपेक्षयाः श्रेष्ठाः आसन् । एतेषामपि कनीयाः कविः, हरिः, अन्तरिक्षः, प्रबुद्धः, पिप्पलायनः, आविर्होत्रः, द्रुमिलः, चमसः, करभाजनः इति नवराजकुमाराः भागवतधर्मस्य प्रचारं कुर्वाणाः भगवद्भक्ताः अभवन् । अन्ये राजकुमाराः पुतुः आज्ञानुसारिणः पुण्यकर्मनिरताः विप्राः अभवन् ।[३]

ऋषभो मरुदेव्याश्च ऋषभत् भरतो भवेत् ।
भरताद् भारतं वर्षं, भरतात् सुमतिस्त्वभूत् ॥
- विष्णु पुराण (२, १, ३१)

ततश्च भारतं वर्षमेतल्लोकेषुगीयते ।
भरताय यतः पित्रा दत्तं प्रतिष्ठिता वनम् ॥
- विष्णु पुराण (२, १, ३२)

सन्दर्भ[सम्पादयतु]

  1. आदिनाथपुराणम् चतुर्विंशतितीर्थङ्करपुराणम् च
  2. श्रीमद्भागवतस्य पञ्चमस्कन्धे चतुर्थे अध्याये नवमे श्लोके
  3. श्रीमद्धभागवतस्य पञ्चमस्कन्धे, चतुर्थोऽध्यायः, त्रयोदशः श्लोकः

बह्यानुबन्धाः[सम्पादयतु]

वीथिका[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=ऋषभदेवः_तीर्थङ्करः&oldid=270103" इत्यस्माद् पुनः प्राप्तिः