ऋषभदेवः तीर्थङ्करः
| ऋषभदेवः | |
|---|---|
| प्रथमः जैनतीर्थङ्करः | |
|
ऋषभनाथस्य प्रतिमा, लॉस एंजिल्स काउण्टी कला सङ्ग्रहालयः |
|
| विवरणम् | |
| अन्यत्नाम | आदिनाथः ऋषभनाथः, वृषभनाथः । |
| परिवारः | |
| पिता | नाभिरायः |
| माता | मरुदेवी |
| वंशः | इक्ष्वाकुः |
| स्थानम् | |
| जन्म | अयोध्या |
| निर्वाणः | कैलासपर्वतः |
| लक्षणम् | |
| वर्णः | सुवर्णम् |
| चिह्नम् | वृषभः |
| औन्नत्यम् | ५०० धनुनूंषि (१५०० मीटर्) |
| आयुः | ८,४००,००० पूर्व (५९२.७०४ × १०१८ वर्ष) |
| शासकदेवः | |
| यक्षः | गौमुखम् |
| यक्षिणी | चक्रेश्वरी |
ऋषभदेव प्राचीने भारते महाराजस्य मनोः वंशीयः परमहंसः योगी आसीत् । सः जैनमतस्य तीर्थङ्करः । विष्णुपुराणानुसारम् अस्य पुत्रस्य भरस्य नाम्ना एव अस्य देशस्य भारतम् इति नाम प्राप्तम् । \
अन्तर्विषयाः |
जीवनचरितम् [सम्पादयतु]
- जन्म - चैत्रकृष्णनवमी ।
- जन्मस्थानम् - अयोध्या ।
- माता - महाराज्ञी मरूदेवी ।
- पिता - महाराजः नाभिरायः ।
- निर्वाणम् - माघकृष्णचतुर्दशी ।
- निर्वाणस्थलम् - श्री कैलासपर्वतः ।
- लञ्छनम् - वृषभः ।
ऋषभदेवं भगवान् आदिनाथः इति आह्वयन्ति । अस्य बृहत्तमा प्रतिमा मध्यप्रदेशराज्यस्य बावनगजा इति स्थाने अस्ति ।
जैनगन्थेषु वर्णनम् [सम्पादयतु]
जैनपुराणानुसारं राज्ञः नाभिरायस्य पुत्रः वृषभदेवः महाप्रतापी साम्राट् जैनमतस्य प्रथमः तीर्थङ्करः च । ऋषभदेवस्य अन्यनामानि ऋषभनथः, आदिनाथः, वृषभनाथः च । ऋषभानथस्य विवाहः यशवती (नन्दा) सुनन्दा इति कन्याभ्याम् अभवत् । भार्याभ्यां शतम् अपत्यानि अभवन् । एतेषु भरतः ज्येष्ठतमः चक्रवर्ती साम्राट् अभवत् । द्वितीयः पुत्रः बाहुबलिः अपि महान् राजा कामदेवपदभूषितः । एतयोः अतिरिच्य वृषभसेनः, अनन्तविजयः, अनन्तवीर्यः, अच्युतः, वीरः, वरवीरः इत्यादयः ९९पुत्राः, ब्राह्मी, सुन्दरी चेति द्वे पुत्री अभवताम् । [१]
हिन्दुग्रन्थेषु वर्णनम् [सम्पादयतु]
वैदिकधर्मे अपि ऋषभदेवम् कश्चन अवतारः इति भावयन्ति । भागवते अर्हन् इति राज्ञस्य रूपेण अस्य ऋषभदेवस्य वर्णनम् अस्ति । अत्र भारतादीनां १००पुत्राणां कथनं, जैनमतस्य इव कृतम् अस्ति । अन्ते सः दिगम्बरसाधुः भूत्वा भारते विहारकरणस्यापि उल्लेखः अस्ति । ऋग्वेदः इत्यादिषु प्राचिनवैदिकसाहित्येषु अपि अस्य सादरं स्तवः अस्ति । श्रीमद्भागवतपुराणे पञ्चमे स्कन्धानुसारं प्रियव्रतस्य पुत्रः आग्नीध्रः, अस्य पुत्रः नाभिः अभवत् । राज्ञः नाभेः पुत्रः ऋषभदेवः यः महाप्रतापी राजा अभवत् । भागवतपुराणानुसारं भगवतः ऋषभदेवस्य विवाहः इन्द्रस्य पुत्रीं जयन्तीं इत्यनया अभवत् । अनयोः दाम्पत्यफलरूपेण शतं पुत्राः उत्पन्नाः । तेषु भरतः ज्येष्ठः गुणवान् अभवत् ।[२] भरतस्य अनुजाः कुशावर्तः, इलावर्तः, ब्रह्मावर्तः, मलयः, केतुः, भद्रसेनः, इन्द्रस्पृक्, विदर्भः, कीकटः इति नवराजकुमाराः अन्य नवदशानाम् अपेक्षयाः श्रेष्ठाः आसन् । एतेषामपि कनीयाः कविः, हरिः, अन्तरिक्षः, प्रबुद्धः, पिप्पलायनः, आविर्होत्रः, द्रुमिलः, चमसः, करभाजनः इति नवराजकुमाराः भागवतधर्मस्य प्रचारं कुर्वाणाः भगवद्भक्ताः अभवन् । अन्ये राजकुमाराः पुतुः आज्ञानुसारिणः पुण्यकर्मनिरताः विप्राः अभवन् ।[३]
ऋषभो मरुदेव्याश्च ऋषभत् भरतो भवेत् ।
भरताद् भारतं वर्षं, भरतात् सुमतिस्त्वभूत् ॥
- विष्णु पुराण (२, १, ३१)
ततश्च भारतं वर्षमेतल्लोकेषुगीयते ।
भरताय यतः पित्रा दत्तं प्रतिष्ठिता वनम् ॥
- विष्णु पुराण (२, १, ३२)