एड्विन् मोसेस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Edwin Moses
व्यक्तिगतविवरणम्
सम्पूर्णनाम Edwin Corley Moses
जन्म (१९५५-२-२) ३१, १९५५ (आयुः ६८)
Dayton, Ohio, USA

एड्विन् कार्ले मोसेस्(जननम् आगस्त् ३१, १९५५) अमेरिकादेशस्य प्रसिद्धक्रीडापटुः । आङ्लभाषायां Track and Field Athlete इति उच्यते । तस्य विशिष्टता ४०० मीटरम् सबाधधावनक्रीडायां (Hurdles) आसीत् । ओलिम्पिक्स् इति नामक सर्वश्रेष्ठविश्वक्रीडास्पर्धायां १९७६ तमे वर्षे एवं १९८४ तमे वर्षे च स्वर्णपदके प्राप्तवान्। १९७७ तमवर्षतः १९८७ तमवर्षपर्यन्तं १२२ अनुगामिसबाधधावनक्रीडास्पर्धासु विजयं प्राप्य, चतुर्वारं विश्वविक्रमाः साधितवान्। अतः यत्र सबाधधावनक्रीडा इति उल्लेकः भवति, तत्र झटिति एड्विन् मोसेस् महोदयस्य नाम जनैः स्मर्यते । वस्तुतः क्रीडाजगतः विशेषज्ञैः (एड्विन्) मोसेस् एवं सबाधधानाक्रीडा द्वौ शब्दौ पर्यायशब्दौ एव इति उच्यते । बाल्यम् शिक्षणम् विजयाश्च[सम्पादयतु] मोसेस् महोदयस्य जननम् अमेरिका (U S A) देशस्य ओहायो राज्ये डेटन् नामके नगरे १९५५ तमे वर्षे आगस्ट्मासस्य ३१ तमे दिनाङ्के अभवत्। झार्जियानगरे भौतशास्त्रम् एवम् इन्डस्ट्रियल् एञ्जिनीरिङ् पठितवान् । १९७६ तमे वर्षे मान्ट्रील् (Montreal, Canada olympics) विश्वक्रीडायां यू एस् ए दलस्य सदस्यः आसीत् । तस्यां क्रीडायां, या आसीत् तस्य प्रथमा विश्वक्रीडा, सः सबाधधावनक्रीडायां विश्वाभिलेखाः (world record) ४७.६३ क्षणेषु संसाध्य स्वर्णपदकं प्राप्तवान् । तदैव तस्य विजययात्रायाः आरम्भः । १९७६ तमवर्षतः १९८७ वर्षपर्यन्तं सः निरन्तरं विजयं प्राप्नोत् । पुरस्काराः[सम्पादयतु] क्रीडाजीवने मोसस् महोदयेन पुरस्काराः अनेके प्राप्ताः । तेषु महत्वपूर्णाः अधः दत्ताः सन्ति । १९८० वर्षस्य ट्राक् एवं फील्ड् क्रीडापटु इति । १९८१ यू एस् ए ट्राक् एवं फील्ड् जेस्सी ओवेन्स् पुरस्कारः । (पुरस्कारस्य प्रथमः प्रतिग्राही ) १९८३ ए ए यू जेम्स् सल्लिवन् पुरस्कारः स्र्वश्रेष्ठक्रीडापटुः इति । १९८४ तमे वर्षे तस्य जन्मस्थले डेटन्नगरे एकस्य मार्गस्य नाम "एड्विन् सि मोसेस् बोलेवार्ड्" इति परिवर्तितवन्तः । १९९९ तमे वर्षे ई एस् पी एन् स्पोर्ट्शदाब्दस्य ५० सर्वश्रेष्ठक्रीडापटुषु #४७ स्थानं प्राप्तवान् । २००० तमे वर्षे लारेस् विश्व क्रीडा अकेडमी (Laureus World Sports Academy,) संस्थायाः प्रथमाध्यक्षः अभवत् | २००९ तमे वर्षे बास्टन् माशासुसेट्स् विश्वविद्यालयात् (गौरव) पि हेच् डी प्राप्तवान् । वैयक्तिकजीवनम्[सम्पादयतु] एड्विन् मोसेस् कश्चन शाकाहारी, मानवतावादी, शान्तिप्रतिपादकश्च । तस्य जूलियन् नामकः एकः पुत्रः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=एड्विन्_मोसेस्&oldid=352930" इत्यस्माद् प्रतिप्राप्तम्