एन् सि सि

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

न्याशेनल् केडत् कार्प्स् ( राष्ट्रियशिशिक्षुनिकायः) अस्य प्राधानकार्यालयः नवदेहल्याम् अस्ति । एन् सि सि शालाछात्राणां तथा महाविद्यालयछात्राणां कृते ऐच्छिकम् अस्ति । एषः त्रिविषयकः भवति । स्थलवायुजलसेनायाः प्रत्येकं विभागः अस्ति । युवानः अग्रे देशभक्तियुताः अनुशासानयुक्ताः प्रजाः भवेयुः । भारते सर्वत्र विश्वविद्यालयेषु, , प्रौढशालासु , महाविद्यालयेषु च छात्राः सैनिकप्रशिक्षणं प्राप्नुवन्ति एतेन । सैनिकविषये सामान्यज्ञानं ते प्राप्नुवन्ति । अत्रत्य अधिकारिभिः तथा शिक्षार्थिभिः सैनिकैः भवितव्यम् इति अनिवार्यता नास्ति । परन्तु ये अत्र प्रशिक्षणं प्राप्नुवन्ति तेषां चयनसमये अन्य-अभ्यर्थिनाम् अपेक्षया प्रथमप्राशस्त्यं दीयते ।

अन्तर्विषयाः

[सम्पादयतु] उद्देशाः

१ देशस्य युवकेषु शीलसंवर्धन, साहाय्यकरणम् अनुशासनं, नायकत्वं, जात्यतीतभावना, साहसप्रवृत्तिः, परार्थभावनया कार्यकरणम्, इत्यादीनां मौलिकगुणानां वर्धनम् ।
२ मानवसंसाधननिर्मितिः ।
३ युवानः सैनिककार्यार्थं प्रोत्साहिताः भवेयुः ।
४ जीवनस्य प्रत्येकस्मिन् क्षेत्रे नायकत्ववर्धनं , देशस्य सेवायै सदा उपलब्धिः च ।
५ सशस्त्रबलेषु युवकाः कार्यं कुर्युः, तदर्थं योग्यवातावरणस्य निर्मितिः भवेत् ।

[सम्पादयतु] इतिहासः

एतस्य स्थापनं प्रशासनेन १९४८ तमे वर्षे कृतम् । एतस्य मूलं तावत् ‘University Corps” । १९१७ तमे वर्षे भारतीयरक्षा-अधिनियमेन स्थापितम् एतत् । तस्य कारणं रक्षाकार्ये सैनिकानाम् अभावः आसीत् । यदा भारतीयप्रादेशिकाधिनियमः पारितः अभवत् तदा विश्वविद्यानिलयनिकायस्थाने राष्ट्रियनिकायः स्थापितः अभवत् । १९४९ तमे वर्षे बालिकानां कृते एकः विभागः स्थापितः अभवत् ।१९५० तमे वर्षे वायुसेनाविभागः अपि योजितः अभवत् । चीनयुद्धसमये भारते सर्वेभ्यः छात्रेभ्यः एन् सि सि अनिवार्यम् आसीत् । परन्तु १९६८ तमे वर्षे पुनः ऐच्छिकत्वेन कृतम् । अस्य मुख्यालयः देहल्याम् अस्ति । तस्य १६ निदेशकाः सन्ति । ते देशस्य विभिन्नराज्येषु कार्यं निर्वहन्ति । ते राज्यस्य राजधान्यां भवन्ति ।

[सम्पादयतु] निर्देशनालयाः

१. आन्ध्रप्रदेशः
२. बिहार तथा झारखण्डः
३. देहली
४. गुजरात, दादरा तथा नगरहवेली
५. जम्मू तथा काश्मीरम्
६. कर्णाटकम् तथा गोवा
७. केरलम् तथा लक्षद्वीपः
८. महाराष्ट्रम्
९. मध्यप्रदेशः तथा छ्त्तीसगढ
१०. ओरिस्सा
११. पूर्वोत्तरप्रदेशः
१२. पञ्जाब्, हरियाणा, हिमाचलप्रदेशः, चण्डीगढ्
१३. राजास्थानम्
१४. तमिळ्नाडु ,पुदुचेरी तथा अण्डमान् निकोबार्
१५. उत्तरप्रदेशः
१६. पश्चिमबङ्गाल तथा सिक्किम्

षोडश निदेशालयाः ७७४ घटक्त्वेन पुनः विभक्ताः सन्ति । एतेषु ६५७ स्थलसेनायाः, ५९ जलसेनायाः, ५८ वायुसेनायाः घटकाः सन्ति ।

[सम्पादयतु] समवस्त्रम्

स्थलसेनायाः शिशिक्षवः खाकीवस्त्रं धरन्ति । जलसेनायाः श्वेतवस्त्रं धरन्ति । वायुसेनायाः नीलवर्णस्य वस्त्रं धरन्ति ।

[सम्पादयतु] कार्यक्रमाः

[सम्पादयतु] गणतन्त्रदिनोत्सवशिबिरम्

एतन्निमित्तं देहल्यां जनवरीमासे प्रथमदिनाङ्कतः २९ दिनाङ्कपर्यन्तं चिताः १८५० शिक्षार्थिनः देशस्य विभिन्नराज्यतः केन्द्रशासितप्रदेशतः च आगत्य शिबिरे भागं वहन्ति । शिबिरस्य उद्घाटनं भारतस्य उपराष्ट्रपतिः करोति । २७ दिनाङ्के प्रधानमन्त्रिणः उपस्थितौ शिबिरस्य समापनं भवति । शिबिरसमये देशस्य रक्षामन्त्री, केन्द्रसचिवमण्डल्याः मन्त्रिणः, मुख्यमन्त्रिणः, सेनात्रयस्य नेतारः अभ्यागच्छन्ति । तस्मिन् समये अनेके स्पर्धाः आयोजिताः भवन्ति । तेषु षोडशनिदेशालयानां मध्ये गुणप्रवरनिदेशालयः चितः भवति । तदर्थं प्रधानमन्त्रिपताका दीयते । स्पर्धासु राष्ट्रिय-एकता-बोधः, व्यायामः,रेखा तथा पताकाप्रदेशः, साम्स्कृतिककार्यक्रमाः च भवन्ति । प्रत्येकं विभागतः उत्तमशिक्षार्थिनः तथा उत्तमशिक्षार्थिन्याः च , (ज्येष्टबालकेषु ज्येष्टबालिकासु च) चयनम् भवति

"http://sa.wikipedia.org/w/index.php?title=एन्_सि_सि&oldid=145311" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु