एन् सि सि
एन् सि सि (National Cadet Corps (India)) भारतीय सैनिकप्रशिक्षणसंस्था । न्याशेनल् केडत् कार्प्स् ( राष्ट्रियशिशिक्षुनिकायः) अस्य प्राधानकार्यालयः नवदेहल्याम् अस्ति । एन् सि सि शालाछात्राणां तथा महाविद्यालयछात्राणां कृते ऐच्छिकम् अस्ति । एषः त्रिविषयकः भवति । स्थलवायुजलसेनायाः प्रत्येकं विभागः अस्ति । युवानः अग्रे देशभक्तियुताः अनुशासानयुक्ताः प्रजाः भवेयुः । भारते सर्वत्र विश्वविद्यालयेषु, , प्रौढशालासु , महाविद्यालयेषु च छात्राः सैनिकप्रशिक्षणं प्राप्नुवन्ति एतेन । सैनिकविषये सामान्यज्ञानं ते प्राप्नुवन्ति । अत्रत्य अधिकारिभिः तथा शिक्षार्थिभिः सैनिकैः भवितव्यम् इति अनिवार्यता नास्ति । परन्तु ये अत्र प्रशिक्षणं प्राप्नुवन्ति तेषां चयनसमये अन्य-अभ्यर्थिनाम् अपेक्षया प्रथमप्राशस्त्यं दीयते ।
अन्तर्विषयाः |
उद्देशाः [सम्पादयतु]
- १ देशस्य युवकेषु शीलसंवर्धन, साहाय्यकरणम् अनुशासनं, नायकत्वं, जात्यतीतभावना, साहसप्रवृत्तिः, परार्थभावनया कार्यकरणम्, इत्यादीनां मौलिकगुणानां वर्धनम् ।
- २ मानवसंसाधननिर्मितिः ।
- ३ युवानः सैनिककार्यार्थं प्रोत्साहिताः भवेयुः ।
- ४ जीवनस्य प्रत्येकस्मिन् क्षेत्रे नायकत्ववर्धनं , देशस्य सेवायै सदा उपलब्धिः च ।
- ५ सशस्त्रबलेषु युवकाः कार्यं कुर्युः, तदर्थं योग्यवातावरणस्य निर्मितिः भवेत् ।
इतिहासः [सम्पादयतु]
एतस्य स्थापनं प्रशासनेन १९४८ तमे वर्षे कृतम् । एतस्य मूलं तावत् ‘University Corps” । १९१७ तमे वर्षे भारतीयरक्षा-अधिनियमेन स्थापितम् एतत् । तस्य कारणं रक्षाकार्ये सैनिकानाम् अभावः आसीत् । यदा भारतीयप्रादेशिकाधिनियमः पारितः अभवत् तदा विश्वविद्यानिलयनिकायस्थाने राष्ट्रियनिकायः स्थापितः अभवत् । १९४९ तमे वर्षे बालिकानां कृते एकः विभागः स्थापितः अभवत् । १९५० तमे वर्षे वायुसेनाविभागः अपि योजितः अभवत् । चीनयुद्धसमये भारते सर्वेभ्यः छात्रेभ्यः एन् सि सि अनिवार्यम् आसीत् । परन्तु १९६८ तमे वर्षे पुनः ऐच्छिकत्वेन कृतम् । अस्य मुख्यालयः देहल्याम् अस्ति । तस्य १६ निदेशकाः सन्ति । ते देशस्य विभिन्नराज्येषु कार्यं निर्वहन्ति । ते राज्यस्य राजधान्यां भवन्ति ।
निर्देशनालयाः [सम्पादयतु]
- १. आन्ध्रप्रदेशराज्यम्
- २. बिहारराज्यम् तथा झारखण्डराज्यम्
- ३. देहली
- ४. गुजरातराज्यम् , दादरा तथा नगरहवेली
- ५. जम्मूकाश्मीरराज्यम्
- ६. कर्णाटकराज्यम् तथा गोवाराज्यम्
- ७. केरलराज्यम् तथा लक्षद्वीपाः
- ८. महाराष्ट्रराज्यम्
- ९. मध्यप्रदेशराज्यम् तथा छत्तीसगढराज्यम्
- १०. ओडिशाराज्यम्
- ११. पूर्वोत्तरप्रदेशः
- १२. पञ्जाबराज्यम्, हरियाणाराज्यम्, हिमाचलप्रदेशराज्यम्, चण्डीगढ़
- १३. राजस्थानराज्यम्
- १४. तमिळनाडुराज्यम् ,पुदुचेरी तथा अण्डमाननिकोबारद्वीपसमूहः
- १५. उत्तरप्रदेशः
- १६. पश्चिमबङ्गालराज्यम् तथा सिक्किमराज्यम्
षोडश निदेशालयाः ७७४ घटक्त्वेन पुनः विभक्ताः सन्ति । एतेषु ६५७ स्थलसेनायाः, ५९ जलसेनायाः, ५८ वायुसेनायाः घटकाः सन्ति ।
समवस्त्रम् [सम्पादयतु]
स्थलसेनायाः शिशिक्षवः खाकीवस्त्रं धरन्ति । जलसेनायाः श्वेतवस्त्रं धरन्ति । वायुसेनायाः नीलवर्णस्य वस्त्रं धरन्ति ।
गणतन्त्रदिनोत्सवशिबिरम् [सम्पादयतु]
एतन्निमित्तं देहल्यां जनवरीमासे प्रथमदिनाङ्कतः २९ दिनाङ्कपर्यन्तं चिताः १८५० शिक्षार्थिनः देशस्य विभिन्नराज्यतः केन्द्रशासितप्रदेशतः च आगत्य शिबिरे भागं वहन्ति । शिबिरस्य उद्घाटनं भारतस्य उपराष्ट्रपतिः करोति । २७ दिनाङ्के प्रधानमन्त्रिणः उपस्थितौ शिबिरस्य समापनं भवति । शिबिरसमये देशस्य रक्षामन्त्री, केन्द्रसचिवमण्डल्याः मन्त्रिणः, मुख्यमन्त्रिणः, सेनात्रयस्य नेतारः अभ्यागच्छन्ति । तस्मिन् समये अनेके स्पर्धाः आयोजिताः भवन्ति । तेषु षोडशनिदेशालयानां मध्ये गुणप्रवरनिदेशालयः चितः भवति । तदर्थं प्रधानमन्त्रिपताका दीयते । स्पर्धासु राष्ट्रिय-एकता-बोधः, व्यायामः,रेखा तथा पताकाप्रदेशः, साम्स्कृतिककार्यक्रमाः च भवन्ति । प्रत्येकं विभागतः उत्तमशिक्षार्थिनः तथा उत्तमशिक्षार्थिन्याः च , (ज्येष्टबालकेषु ज्येष्टबालिकासु च) चयनम् भवति