एम्. एस्. सुब्बुलक्ष्मीः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(एम् एस् सुब्बालक्षमी इत्यस्मात् पुनर्निर्दिष्टम्)
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
एम्. एस्. सुब्बुलक्ष्मीः
भूमिका
नाम मदुरै षण्मुखवडिवु सुब्बुलक्ष्मीः
जननम् September 16, 1916(1916-09-16)
मूलम् मदुरै, तमिळुनाडुराज्यम्, भारतम्
मरणम् December 11, 2004(2004-12-11) (aged 88)
वृत्तिः सङ्गीतज्ञा, गायिका, अभिनेत्री च ।
वाद्या(नि) गायिका
सक्रिय वर्षाणि क्रि.श. १९२६तः क्रि.श.२००४

श्रीमती मदुरै षण्मुखवडिवु सुब्बुलक्ष्मीः (क्रि.श. १९१६तः २००४पर्यन्तं जीवितकालः) कर्णाटाकसङ्गीतस्य प्रसिद्धा गायिका । कर्णाटाकशास्त्रीयसङ्गीतस्य लोके एम्.एस्. इत्येव ख्याता अस्ति ।

अन्तर्विषयाः

[सम्पादयतु] जीवनम्

सुब्बुलक्ष्म्याः जन्म क्रि.श. १९१६तमे वर्षे सप्टम्बर् मासस्य १६दिनाङ्के तमिळुनाडुराज्यस्य मदुरैपत्तनस्य अभवत् । अल्पे वयसि एव एषा सङ्गीताध्ययनस्य आरम्भं कृतवाती । अस्याः दशमे वयसि एव प्रथमा गानमुद्रिका लोकार्पिता अभवत् । तदन्तरं सेम्मङ्गुडि श्रीनिवास अय्यर् इत्यनेन ख्यातविसङ्गीतविदुषा कर्णाटकसङ्गीतं, पण्डितेन नारायण राव् व्यासेन हिन्दुस्तानीसङ्गीतं च अभ्यस्तवती । स्वस्य सप्तदशमे वयसि मद्रासु सङ्गीताकादेमी सभायां प्रथमां सङ्गीतगोष्ठीं प्रस्तुतवती । ततः आरभ्यः अन्तिमकालपर्यन्तम् अगणिताः गानगोष्ठीः, असङ्ख्याताः ध्वनिमुद्रिकाः सङ्गीतरसिकलोकाय अर्पितवती । एषा संस्कृतम्, तमिळु हिन्दी, कन्नड, बेङ्गाली, गुजराती, मलयाळं, तेलुगु इत्यादिभाषाणां साहित्यं गीतवती । मध्ये एकवारं चलच्चित्रे अपि आसक्ता अभवत् । तमिळुभाषायाः हिन्दीभाषायाः च "मीरा" इति चलच्चित्रे प्रधानभूमिकाम् निरूढवती । शकुन्तला इति तमिळुभाषा चलच्चित्रे प्रधानफूमिकां पोषितवती । क्रि.श. १९२६तमे वर्षे सदाशिवम् इति कस्यचित् स्वातन्त्र्ययोधेस्य परिचयः आभवत् । क्रि.श.१९४०तमे वर्षे तेन सह विवाहं कृतवती । गतपञ्चदशकवर्षेषु आसेतुहिमाचलं सङ्गीतगोष्ठीः कृतवती । भारतस्य सांस्कृतिकराजदूतायाः रूपेण विदेशेषु अपि सङ्गीतसभां चालितवती । क्रि.श.१९९७तमे वर्षे तस्याः पति दिवङ्गतः । तदारभ्य सार्वत्रिकसङ्गीतसभां स्थगितवती । क्रि.श.२००४तमवर्षस्य डिसेम्बर् मासस्य द्वितीये दिने अस्वस्था सुब्बुलक्ष्मी एकादशदिनाङ्के इहलोकम् अत्यजत् । प्रपञ्चाद्यन्तं सङ्गीतरसिकान् अकृष्टवत्यः सुब्बुलक्ष्मायः प्रशंसाः प्रशस्तयः पुरस्कारः अपाराः सन्ति । "हरि तुम् हरो जन् की भीर् " इति मीराभजनं श्रुतवान् महात्मा गान्धिः तत् भजनं न कयापि अन्यया एवं गातुं न शक्यते इति अवदत् । प्रसिद्धसङ्गीतविदा याः भारतीयप्रशस्तयः प्राप्तव्याः सर्वाः अनया प्राप्ताः ।

[सम्पादयतु] प्रशंसाः

नैके स्वदेशीयविदेशीयाः सङ्गीतविद्वांसः सुब्बुलक्ष्म्याः प्रशंसाम् अकुर्वन् । लता मङ्गेश्कर्वर्या एतां तपस्विनी इति सम्बोधितवती । उस्ताद् गुलाम अली खानः एतां सरस्वती इति सम्बोधितवान् । किशोरी आमोनकरः एताम् अष्टमः स्वरः इति उक्तवान् । भारतस्य अनेकाः नेतारः महात्मा गान्धिः इत्यादयः अस्याः गानस्य प्रशंसाम् अकुर्वन् । अस्याः गानानुरागिणां प्रशसां श्रुत्वा अभिमानिनां प्रोत्साहनं च दृष्ट्वा भारतसर्वकारःक्रि.श. १९५४तमे वर्षे अस्याः पद्मभूषणेन सम्माननम् अकरोत् ।

[सम्पादयतु] संयुक्तराष्ट्रसङ्घे सुब्बलक्ष्मीः

इयं सुब्बुलक्ष्मी प्रथमा भारतीया यया संयुक्तराष्ट्रसङ्घस्य सभायां सङ्गीतकार्यक्रमः प्रस्तुतः । अपि च प्रथमा नारी यया कर्णाटकसङ्गीतस्य क्षेत्रे सङ्गीतकलानिधिः इति सर्वपरमः पुरस्कारः प्राप्तः । अस्यै क्रि.श.१९९८तमे वर्षे भारतस्य सर्वश्रेष्ठा भारतरत्नम् इति प्रशस्तिः प्रदत्ता ।

[सम्पादयतु] प्रशस्तिपुरस्काराः

इत्यादयः सुब्बलक्ष्मीमहाभागया प्राप्ताः अपि च भारतरत्नभूषिता प्रथामासङ्गीतज्ञा एम्.एस्.सुब्बुलक्ष्मीः

[सम्पादयतु] बाह्यानुबन्धाः

एम्.एस्.सुब्बुलक्ष्म्याः भावचित्रैः सह आङ्ग्लभाषया विविधविषयानां ज्ञानर्थम् जालस्थानम् [१]

[सम्पादयतु] वीथिका

वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु