ए. आर्. रहमान्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
ए. आर्. रहमान्
AR Rahman-2.jpg
व्यैक्तिकतथ्यानि
जन्मनाम ए. एस्. दिलीपकुमारः
ख्यातनाम रेहमान्
मूलतः बनारस, भारतम्
सङ्गीतविद्या चलच्चित्रलोकः
वृत्तिः स्वरसंयोजकः, गीतरचनकारः, गायकः, ध्वनिमुद्रणोद्यमी च ।
वाद्यानि गिटार्, सुवंशी, पटहः, पियानो, की बोर्ड्,
सक्रियवर्षाणि १९९०तः... अनुवर्तते ।
स्तरः के.एम्.मुषिक्
सह-कर्माणि नेम्सिस् अवेन्यू


अल्लाह् रखा रहमान् (اللہ رکھا رحمان - उर्दूभाषा) इत्यस्य भारतीयचलच्चित्रसङ्गीतकोविदस्य जन्म क्रि.श.१९६६तमे वर्षे जनवरिमासस्य षष्ठे दिने अभवत् । अस्य जन्म नाम ए.एस्. दिलीप कुमारः । सङ्गीतसंयोजकः, ध्वनिमुदिकानिर्मापकः, गायकः इति लोके विख्यातः । क्रि.श.१९९०तमे वर्षे स्वरसंयोजनवृत्तिम् आरब्धवन् । एतावति काले अनेन १४वारं फिल्मफेर् प्रशस्तिः, ११वारं दक्षिणफिल्मफेर् प्रशस्तिः, ४वारं राष्ट्रियचलच्चित्रप्रशस्तयः, द्विवारम् आस्कर् प्रशस्तिः, एका गोल्डन् ग्लोब् प्रशस्तिः, च प्राप्ताः । [१][२] लण्डन् नगरस्य ट्रिनिटि कालेज् आफ् म्यूज़िक् महाविद्यालये पाश्चात्यशास्त्रीयसङ्गीतस्य अध्ययनं कृत्वा पदवीं प्राप्तवान् । ततः स्वस्थानं चेन्नैनगरम् आगत्य स्वस्य पञ्चतन् रेकार्ड इन् इति सुव्यवस्थितां ध्वनिशालाम् आरब्धवान् । [३] भारतस्य चलच्चित्रोद्यमः, अन्ताराष्ट्रियचलच्चित्राणि, नाटकरङ्गमन्दिराणि इत्यादिषु सङ्गीतसंयोजनं कृत्वा स्वकौशलं प्रदर्शितवान् । तेन स्वरसंयोजितानि चलच्चित्रगीतानि १५०दशलक्षाधिकानि विक्रीतानि सन्ति ।[४][५] अपि च २००दशलक्षाधिकाः ध्वनिमुद्रिकाः विक्रीताः सन्ति । [६] अतः अयं विश्वप्रसिद्धः स्वरसम्राट् अभवत् । अस्य सङ्गीतस्य वैशिष्ट्यं नाम विद्युन्मानविन्यासस्य सङ्गीतस्वरैः पौर्वात्यशास्त्रीयसङ्गीतस्य मिश्रणम्, विश्वस्तरस्य सङ्गीतप्रकारः, नूतनतन्त्रज्ञानस्य वाद्यपरिकराणि अपि च साम्प्रदायिकवाद्यानां समानसमागमः च । भारतस्य प्रसिद्धा दिनपत्रिका टैम्स् म्यागज़िन् मोझार्ट् आफ् मद्रास् इति प्राशंसत् । तमिळुविमर्शकाः इसै पुयाल् (तमिळु - இசைப் புயல்) इति वर्णितवन्तः । [७]

बल्यं शिक्षा च[सम्पादयतु]

भारतदेशस्य तमिळुनाडुराज्यस्य राजधानी चेन्नैनगरम् । तत्र सङ्गीतपरम्परायुक्ते धनवति मोदलियार् कुटुम्बे ए.एन्.दिलीपकुमारः अजायत । अस्य पिता आर्.के.शेखरः मलयाळंभाषायाः चलच्चित्राणां सङ्गीतसंयोजकः निर्वाहकः सन् कार्यं करोति स्म । दिलीपस्य नवमे वयसि तस्य पिता दिवङ्गतः । दिलीपकुमारस्य पितुः सङ्गीतवाद्यानां भाटकेन तस्य कुटुम्बनिर्वहणं भवति स्म । अस्य मातुः नाम कस्तूरि इति मतान्तरस्य अनन्तरं करीमा अभवत् । दिलीपः स्वयं अल्लाह रखा रहमान् अभवत् । पौढशिक्षां स्वनगरे एव समाप्य सङ्गीतासक्तः कीबोर्डवादनमपि अभ्यस्य वृत्तिनिरतः अभवत् । तालवाद्यकारः शिवमणि, जान् एण्टोनी, सुरेश पीटर्स, जोजो, राजा, एतैः बाल्यमित्रैः सह मिलित्वा "रूट्स् " इति वाद्यगणम् आरब्धवान् । अपि च अन्येषां वाद्यगोष्ठीषु अपि सङ्गीतविन्यासकाररूपेण कार्यम् अकरोत् । [८] कालक्रमेण रेहमानः नेमेसिस् अवेन्यू इति चेन्नैमूलस्य राक् शैल्याः सङ्गीतवाद्यगणं निर्मितवान् । [९] कीबोर्ड् पियानो, सिन्थसैज़र्, गिटार्, इत्यादिवाद्यानि रहमनः वादयति । सिन्थेसैज़र् इति सङ्गितसंयोजकवाद्यं तु अतिविशिष्टं यन्त्रम् अस्ति । अस्मिन् सङ्गीततन्त्रज्ञानयोः विशिष्टं संयोजनं दृश्यते । अतः अस्मिन् वाद्ययन्त्रे विशेषा रुचिः उत्पन्ना इति रहमानः वदति । [१०] मास्टर् धनराज् इत्यस्य गुरोः मार्गदर्शनेन रहमानः स्वस्य जीवने बहुपूर्वमेव प्रशिक्षां प्राप्तवान् । स्वस्य एकादशे वयसि तमिळुनाडुसङ्गीतदिग्गजः इळयराजः[१०] इत्यस्य वाद्यगणे कीबोर्ड् वादकत्वेन दशवर्षाणि कार्यम् अकरोत् । [११] रहमानः पितुः वाद्यपरिकरान् भाटकर्थम् इळयराजाय अपि ददाति स्म । दशवर्षेषु एम्.एस्.विश्वनाथन्, रमेश नायिडू, राज-कोटि इत्यादीनां वाद्यगोष्ठीषु कीबोर्डवादनम् अकरोत् । ज़ाकिर् हुसेन्, कन्नकुडि वैद्यनाथन्, एल्.शङ्करः इत्यादिभिः ख्यातसङ्गीतसंयोजकैः सह कार्यम् अकरोत् । एतवति काले एव सङ्गीतव्याजेन विश्वप्रवासम् अपि अकरोत् । ट्रिनिटि सङ्गीतमहाविद्यालयं प्रवेष्टुम् अपि विद्याप्रोत्साहधनं प्राप्तवान् । [१२]

व्यक्तिजीवनम्[सम्पादयतु]

रहमानस्य पत्नी सायिरा बानु । एतयोः दम्पत्योः खतीजा, रहीमा, इति पुत्र्यौ, अमीन् इति पुत्रः च सन्ति । पुत्रः अमीनः कपल्स् रिट्रीट् इति चलच्चित्रे नाना इति गानं गीतवान् । पुत्री खतीजा एन्थिरन् चलच्चित्रे पुदिया मनिधा इति गीतं गीतवती । [१३][१४] रहमानस्य अग्रजा ए.आर्. रेहानायाः पुत्रः जि.वि.प्रकाशः अपि सङ्गीतसंयोजकः अस्ति । रहमानस्य स्वरसंयोजनस्य "कण्णत्तिल् मुत्तम् इट्टाळ्" इति चलच्चित्रे "विदायि कोडु एङ्गळ् नाडे" इति गीतं गीत्वा गायकवृत्तिम् आरब्धवान् । मळयाळं चलच्चित्रस्य अभिनेता रहमानः अस्य रहमानस्य श्यालः अस्ति । बाल्ये पितुः मरणानन्तरं सङ्कटकालः आगतः इति व्याजेन नास्तिकः अभवत् । तदनन्तरं मातुः इस्लां मतम् अवलम्ब्य मतान्तरम् अपि कृतवान् । टैम्स् इति पत्रिकासन्दर्शने सूफिसम् द्वारा इस्लां मतं स्वीकृतवान् इति अवदत् । [१५] तस्य मातरि अतीव भक्तिः । ८१तमे वर्षे अक्याडेमी-प्रशस्तिस्वीकरणावसरे एवम् अवदत् - 'दिवार् इति चलच्चित्रे मेरे पास् माँ है इति वाक्यम् अस्ति । अस्य अर्थः मम हस्ते अन्यत् किमपि नास्ति चेदपि माता अस्ति' इति । [१६] पूर्वं नास्तिकः चेदपि क्रमेण रहमानः तमिळुभाषायां स्वस्य पदपुञ्जम् अभ्यासे आनीतवान् । एल्ला पुगळुम् इरैवनिके (अर्थः सर्वप्रशंसाः परमात्मसमर्पिता इति) अनेन वचनेन तस्य प्रसिद्धिः इतोऽपि संवृद्धा ।[१७] रहमानस्य बाल्ये यदा तस्य पिता मरणशय्यायाम् आसीत् स्वसुः तीव्रम् अनारोग्यम् आसीत् तदा खादिरि इस्लां मतम् आश्रितवान् । इयं मतान्तरप्रक्रिया पञ्चवर्षाणां दीर्घकालिका आसीत् । स्वस्य २३तमे वयसि क्रि.श.१९९८तमे वर्षे दिलीपः रहमानः इति परिवर्तितः। [८]

वृत्तिजीवनम्[सम्पादयतु]

रहमानस्य चलच्चित्रसङ्गीतसंयोजनवृत्तिः क्रि.श. १९९२तमे वर्षे आरब्धः चेदपि क्रि.श.१९७५तमे वर्षे एव कस्यचित् चलच्चित्रस्य ध्वनिमुद्रणे यदा पिता आसीत् तदा ९वर्षीयः रहमानः अकस्मात् पियानो वादितवान् । [१८]

चलच्चित्रसङ्गीतसंयोजनम्[सम्पादयतु]

अल्लाह रखा रहमानस्य सङ्गीतवृत्तिः गण्यरूपेण क्रि.श.१९९२तमे वर्षे आरब्धा । तस्मिन् एव समये पञतन् रेकार्ड् इन् इति सङ्गीतध्वनिमुद्रणस्य मिश्रणस्य कार्यशालाम् अस्थापयत् । [१९] आरम्भे एषः त्रीणि साक्ष्यचित्राणि, विज्ञापिकाः, भारतीयदूरदर्शनार्थं च लघुसङ्गीतं योजितवान् । क्रि.श.१९९२तमे वर्षे तत्कालीनः प्रसिद्धः चलच्चित्रदिग्दर्शकः मणिरत्नम् रहमानं सन्दृश्य स्वस्य निर्माणस्य "रोजा" इति तमिळुभाषायाः चलच्चित्रस्य सङ्गीतं संयोजयितुं प्रार्थनाम् अकरोत् । [१९] स्वस्य प्रथमप्रयत्ने एव यशस्वी अभवत् इत्यतः राष्ट्रस्तरे रहमानेन रजतकमलप्रशस्तिः प्राप्ता । प्रथमचलच्चित्रसङ्गीते एव एतादृशी उपलब्धिः तस्य जीवने महत्तमं परिवर्तनम् आनयत् । उत्तमसङ्गीतसंयोजनेन पुनः त्रिवारम् अनेन रजतकमलप्रशस्तिः प्राप्ता । क्रि.श.१९९७तमे वर्षे "मिन्सार कणवु "(तमिळुभाषायाः) इति चलच्चित्रस्य, क्रि.श.२००२तमे वर्षे "लगन् "(हिन्दीभाषायाः) इति चित्रस्य, क्रि.श.२००३तमे वर्षे कण्णतिल् मुत्तम् इट्टाळ्(तमिळुभाषायाः) चित्रस्य सङ्गीतसंयोजनार्थं रजतकमलप्रशस्तिः प्राप्ता ।[२०] तस्मिन् काले रोजा चलच्चित्रस्य सङ्गीतस्य विक्रयणम् सर्वाधिकम् अभवत् । अस्य चित्रस्य मूलम् अनूदितावमतयः अपि प्रसिद्धाः अभवन् । अस्य नूतन शैल्याः रागाः चित्रसङ्गीतक्षेत्रे महत् परिवर्तनम् आनयत् । एतदनन्तरं चेन्नै चित्रोद्यमे अनेकानि तमिळुभाषाचित्रसङ्गीतानि संयोज्य यशस्वी अभवत् । [२१][२२][२३] चलच्चित्रं विहाय अस्य ध्वनिपथाः वैविध्ययुक्ताः प्रसिद्धाः अभवन् । भारतीयशास्त्रीयशैलीं, पाश्चात्त्यशैलीं, कर्णाटकतमिळुनाडुराज्ययोः जानपदशैलीं च मेलयित्वा जाझ् सङ्गीतम्, रेग्गेसङ्गीतम्, राक् शैलीसङ्गीतयुक्तं विषिष्टानि मनोरञ्जकगीतानि दत्तवान् । अनेन न केवलं तमिळुनादुराज्ये देशे विश्वे च अस्य प्रसिद्धिः प्रसृता अभवत् । [२४][२५][२६] रामगोपालवर्मा इति नामकः दक्षिणस्य ख्यातः दिग्दर्शकः हिन्दीभाषायाः " रङ्गीला " इति चलच्चित्रं निर्मितवान् । अस्य चित्रस्य गीतानां स्वरसंयोजनं रहमानेन कारितवान् । तानि सर्वाणि गीतानि अतिप्रसिद्धानि अभवन् । एवम् ए.आर्. राहमानः बालिवुड्रङ्गं (हिन्दीचलच्चित्रलोकः) प्रविष्टवान् । तदन्तरं तस्य क्षेत्रे परावर्त्य न दृष्टवान् । सुभाष घै निदेशनस्य " ताल" इति हिन्दीभाषाचलच्चित्रस्य गीतानां स्वरसंयोजनं कृतवान् । एतानि गीतानि अपि जनप्रियाणि अभवन् । [२७][२८]जावेद् अक्तर् गुल्जार् वैरमुत्तु, वालिः इत्यादीनां प्रसिद्धभारतीयकवीनां रचनैः सह स्वरसंयोजनं कृत्वा तेषां प्रशंसामपि प्राप्तवान् । यस्य निदेशकस्य चलच्चित्रस्य सङ्गीतं सयोज्य ख्यातिम् अवाप्नोत् तस्य अग्रिमचित्रेषु अवश्यं सहयोगं दत्तवान् । अनेन अस्य यशसि नैरन्तर्यं रक्षितम् । क्रि.श.२००५तमे वर्षे चेन्नैप्रदेशस्य कोण्डभकम् इति स्थाने एम्.एम्.स्टूदियोस् संस्थापनेन स्वस्य पञ्चतन् रेकार्ड् इन् इति कार्यशलायाः विस्तारं कृतवान् । एतत् एषियाखण्डे एव अत्याधुनिकसौकर्ययुक्तम् अतिबृहत् इति प्रसिद्धम् अभवत् । [२९][३०] एवमेव क्रि.श.२००६तमे स्वस्य के.एम्.म्यूसिक् इति नाम्ना सङ्गीतस्य ध्वनिमुद्रणस्य उद्यमम् आरब्धवान् ।[३१] क्रि.श. २००८ रहमानः प्रथमतया हलिवुड् (अमेरिकादेशस्य चलच्चित्रलोकः) कपल्स् रिट्रीट् इति चलच्चित्रार्थं सङ्गीतं संयोजितवान् । क्रि.श. २००८तमे वर्षे हिन्दीभाषया "स्लम् डाग् मिलेनियर्" चलच्चित्रस्य सङ्गीतसंयोजनार्थं गोल्डन् ग्लोब् प्रशस्तिं, द्वे अकाडेमीप्रशस्ती च प्राप्तवान् । एतादृशवैभवपूर्णां महाप्रशस्तिं प्राप्तवान् प्रथमः भारतीयः ए.आर्.रहमानः । [३२] अस्य चित्रस्य जै हो इति गीतं देशविदेशेषु अतीव जनप्रियम् अभवत् ।

अन्यकृतयः[सम्पादयतु]

रहमानः न केवलं चलच्चित्रसङ्गीतं न कृतवान् किन्तु अन्यकार्यक्रमार्थम् अपि स्वरसंयोगं कृतवान् । क्रि.श.१९९७तमे वर्षे भारतस्य स्वतन्त्र्यस्य स्वर्णमहोत्सवाङ्गतया रहमानः वन्दे माररम् गीतस्य स्वरसंयोगं कृतवान् । एतत् गीतगुच्छं प्रसिद्धिमपि अवाप्नोत् ।[३३][३४] एतस्य अनन्तरं भारतस्य अनेकान् विख्यातकलाकारान् मेलयित्वा स्वरसंयोजितं दृश्यसहितं भारतस्य राष्ट्रगीतं जनगणमन प्रसिद्धम् अभवत् । मध्ये अनेकाः वाणिज्यप्रचारस्य विज्ञपिकाः अपि सङ्गीतेन निबद्धाः तेन । जनजागरणस्य लघुगीतानां, क्रीडाप्रतियोगितानं शीर्षगीतानां, दूरदर्शनवाहिनीनाम् अन्तर्जालमाध्यमानाम् आवश्यकतानुगुणं गीतानाम्,साक्ष्यचित्राणां गीतानां, लघुचलच्चित्राणां गीतानां, सङ्गीतं संयोजितवान् । क्रि.श.१९९९तमे वर्षे रहमानमहोदयः नृत्यनिदेशिकया शोभनया, तमिळुनृत्यपटुना प्रभुदेव सुन्दरेण सह च जर्मनीनगरं गत्वा मैकल जाक्सन् इति ख्यातपाश्चात्त्यनाट्यपटुना सह नृत्यप्रदर्शनम् अकरोत् । क्रि.श.२००२तमे वर्षे रहमानः प्रथमवारं "बाम्बे ड्रीम्स्" इति कस्यचित् नाटकस्य सङ्गीतं योजितवान् । फिनल्याण्ड मूलस्य जानपदसङ्गीतगणः "दि लार्ड् आफ् दि रिङ्ग्स्" इति नाटाकार्थं सङ्गीतं संयोजयितुं रहमानस्य सहयोगम् स्वीकृतवान् । क्रि.श. २००४तमे वर्षे व्यानेसा मे अल्बम् कोरियग्राफि निमित्तं रागास् ड्यान्स् इति गीतस्य स्वरसंयोगं कृतवान् ।[२०] क्रि.श.२००४तमवर्षात् आरभ्य सिङ्गापुरम्, आस्ट्रेलिया, मलेशिया, दुबै, युनैटेड् किङ्ग्डम्, केनडा, अमेरिकासंयुक्तसंस्थानम् इत्यदिषु देशेषु कलारसिकानाम् अनुरोधेन स्वस्य सङ्गीतकलाप्रदर्शनं कृतवान् । [२०][३५] करेन् डेविड् इति विदेशीयस्य गीतगुच्छार्थं रहमानः साहाय्यं कुर्वन् अस्ति । क्रि.श. २००६तमे वर्षे मे मासे इण्ट्रोड्यूसिङ्ग् ए.आर्. रहमान् इति नाम्ना सान्द्रमुद्रिकाद्वयस्य लोकार्पणम् अभवत् । अनयोः तमिळुभाषायाः चलच्चित्रगीतानां २५ गीतानि सन्ति । " कनेक्षन्स् " इति नाम्नः अस्य चलच्चित्रेतरं गीतगुच्छं क्रि.श.२००८तमे वर्षे डिसेम्बर् मासे लोकार्पितम् । क्रि.श. २००९तमे वर्षे भारतदेशस्य प्रधानमन्त्री मनमोहन सिंहः अमेरिकासंयुक्तसंस्थानम् सन्दृष्टवान् । तदा तत्रस्थः राष्ट्राध्यक्षः बराक् ओबामः प्रसिद्धे श्वेतभवने औपचारिकं भोजनं व्यवस्थितवान् । तस्मिन् समारोहे रहमानः सङ्गीतकार्यक्रमं प्रदर्शितवान् ।[३६] [३७], एर्टेल् दूरवाणी सेवासंस्थायाः कृते सङ्गीतसंयोजितं गीतं क्रि.श.२०१०तमे वर्षे नवेम्बरमासस्य १८दिनाङ्के लोकार्पितं प्रसिद्धिं चावप्नोत् ।[३८][३९] दिनद्वयाभ्यन्तरेण रेडियो (आकाशवाणी) देसीबीट्स् इति आकाशवाणीसंस्थायाः कृते शीर्षिकगीतं दत्तवान् । अपि च अस्य वाहिन्याः प्रधानरूपदर्शी अपि रहमानः एव । [४०] क्रि.श. २०१०तमे वर्षे टोयोटा संस्थया भारतीयसञ्चारमार्गानुगुणं निर्मितस्य इतियोस् कार्यानस्य प्रचारार्थं रहमानः किञ्चित् लघुगीतं सङ्गीतेन निबद्धवान् ।[४१][४२] बह्वसु वाणिज्यविज्ञापिकासु न केवलं सङ्गीतं योजितवान् किन्तु रूपदर्शी भूत्वा तत्र अभिनीतवान् अपि ।[४३]

सङ्गीतस्य शैली प्रभावः च[सम्पादयतु]

कर्णाटकशास्त्रीयसङ्गीते, पाश्चात्त्यशास्त्रीयसङ्गीते, हिन्दुस्तानिशास्त्रीयसङ्गीते, नुस्रत् फतह अलि खानस्य कव्वालिशैल्यां च रहमानः परिणतः अस्ति । एताभिः सङ्गीतशैलीभिः अन्यसङ्गीतशैलीनां सम्मिश्रणं कृत्वा विभिन्नवाद्यनादान् मेलयित्वा आशुरचनरूपेण रहमानः सङ्गीतं संयोजयितुं समर्थः अस्ति । [८][४४] स्वरमेलविषयाः अस्य सङ्गीतस्य अविभाज्यानि अङ्गानि सन्ति । कदाचित् आवर्तकस्वरगुच्छानि अन्वेति । क्रि.श.१०९८०तमे काले विद्यमानाः अस्य पूर्ववर्तिनः के.वि.महादेवन्, विश्वनाथन् - राममूर्तिः युगलम्, इव रहमनोऽपि एकध्वनिमार्गे वाद्यानि वादयति स्म । क्रमेण एषः स्वस्य शैलीपरिवर्तनं कृतवान् । साम्प्रदायिकवाद्यानि,विद्युन्मानतान्त्रिकवाद्यानि च सम्मेल्य नूतनाविष्कारं कृतवान् । [८] रहमानस्य सङ्गीतशैली अस्य प्रयोगशीलतां सूचयति । प्राचीनायाः समकालीनायाः शैल्याः मिश्रणस्य संवादिरागः वाद्यवृन्दसंयोजनं मानवरवस्य विशिष्टोपयोगः च सङ्गीते प्रभावं जनयन्ति । गुणाः विशालश्रेण्याः गीतानि, रहमानस्य समन्वयस्य शैली इत्यादीनां कारणेन भारतीयश्रोतृवर्गः बहुधा आकृष्टः । [४५] रहमानस्य वृत्तेः आरम्भे जागतिकप्रभावस्य प्रसर्णार्थं अनिवासिनः दक्षिणैषियाजना कारणीभूताः सन्ति । चलच्चित्रक्षेत्रे अत्यन्तं नावीन्ययुतस्य सङ्गीतज्ञस्य रहमानस्य अपूर्वा शैली अपारं यशः च चलच्चित्रसङ्गीतस्य पुनर्जन्मकारणम् अभवताम् । [४६] विश्वस्य महासङ्गीतज्ञेषु रहमानः अन्यतमः इति सङ्गीतनिर्मापकः रान् फेर् इतिकश्चित् उक्तवान् ।[४७] हालिवुड् (अमेरिकायाः चलच्चित्रलोकः) चलच्चित्रनिदेशकः आस्ट्रेलियामूलस्य बझ् लुह्रमन् एवम् अवदत् .............

I had come to the music of A. R. Rahman through the emotional and haunting score of Bombay and the wit and celebration of Lagaan. But the more of AR's music I encountered the more I was to be amazed at the sheer diversity of styles: from swinging brass bands to triumphant anthems; from joyous pop to West-End musicals. Whatever the style, A. R. Rahman's music always possesses a profound sense of humanity and spirit, qualities that inspire me the most.[४८]

प्रशस्तिपुरस्काराः[सम्पादयतु]

भारतस्य चलच्चित्रसङ्गीतस्य क्षेत्रे अनुपमां प्रतिभां प्रदर्श्य योगदानं कृतवता रहमानेन नैके पुरस्काराः प्राप्ताः । तेषु क्रि.श.१९९५ क्रि.श.१९९५तमे वर्षे मारिषस् राष्ट्रियप्रशस्तिः, मलेषियन् प्रशस्तिः च प्रधाने । प्रथमवारं वेस्ट् एण्ड् निर्माणस्य चलच्चित्रस्य सङ्गीतं संयोजितवान् इति लारेन्स् ओलिवियर् प्रशस्तेः नामनिदेशनम् अभवत् । स्वस्य सङ्गीते स्वरप्रस्तारेषु नावीन्यं प्रदर्शितवान् इति भारतसर्वकारेण पद्मश्रीप्रशस्तिः, चतुर्वारं राष्ट्रियचलच्चित्रप्रशस्तिः च प्रदत्ताः। ६ तमिळुनाडुचलच्चित्रप्रशस्तयः, १४ फिलं फेर् प्रशस्तयः. १२दक्षिणफिल्म फेर् प्रशस्तयः, तस्य यशांसि द्योतयन्ति । जागतिकसङ्गीक्षेत्राय दत्तं योगदानं परिगणय्य क्रि.श.२००६तमे वर्षे स्ट्यण्डर्ड् विश्वविद्यालयस्य गौरवप्रशस्तिः अनेन प्राप्तः । [४९] "स्लं डाग् मिलियनेर् " चलच्चित्रस्य सङ्गीतनिदेशनार्थं रहमानाय क्रि.श.२००९तमे वर्षे विमर्शकानां परिग्रहप्रशस्तिः, अत्युत्तमसङ्गीतप्रशस्तिः च प्रदत्ते ।[५०] अत्युत्तमस्वरप्रस्तारार्थं गोल्डन् ग्लोब् प्रशतिः, अत्युत्तममाधुर्यार्थं बाफ्टा (BAFTA)चलच्चित्रसङ्गीतप्रशस्तिः, अत्युत्तममूलगीतार्थं अक्यादेमीप्रशस्तिः च आस्कर् प्रशस्तिप्राप्तेः अवसरे लब्धाः अन्यपुरस्काराः । मिड्ळ्सेक्स् विश्वविद्यालयतः अलिगड् मुस्लिम् विश्वविद्यालयः च अनेन डक्टरेट् उपाधिः प्राप्ता ।[५१][५२] तस्य वर्षस्य अन्तिमभागे चेन्नै अण्णाविश्वविद्यालयः अपि अस्मै डाकट्र् उपाधिम् अयच्छत् ।[५३] अत्युत्तमसङ्गहस्य ध्वनिपथसम्पुटार्थं अपि च कस्यचित् दृश्यमाध्यमस्य कृते लिखितस्य अत्युत्तमगीतार्थं च ग्र्याम्मी प्रशस्तिद्वयम् आगतम् ।[१] क्रि.श. २०१०तमे वर्षे रहमानः भारतसर्वकारस्य अत्युन्नता प्रशस्तिः पद्मभुषणेन पुरस्कृतः । [५४] रहमानः लण्डन् नगरस्य ट्रिनिटि कालेज् आफ् म्यूज़िक् मध्ये गौरवसदस्यत्वं प्राप्तवान् । [५५]

समाजसेवा[सम्पादयतु]

लोकसेवार्थम् अपि रहमानः बहून् कार्यक्रमान् कृतवान् । विश्वारोग्यसङ्घटनस्य (WHO) स्टाप् टीबी पार्ट्नशिप् इति अभियानस्य जागतिकराजदूतत्वेन रहमानस्य नियोजनम् अभवत् । [२०] भारते बालान् रक्षतु इति अन्दोलनेन सह अनेकेषु सर्वकारीयकार्यक्रमेषु प्रतिनिधिरूपेण भागं स्वीकृतवान् । क्रि.श.२००४तमे डिसेम्बर् मासे हिन्दूमहासागरस्य सुनामी महापूरे सन्त्रस्थानां सहायधनसङ्गणार्थं बहून् कार्यक्रमान् कृतवान् । मुख्टर् सहोटा इत्यनेन सह डान् एष्यन् गीतस्य "वी क्यान् मेक् इट् बेटर् " इति गानस्य सङ्गीतसंयोजनं रहमानः कृतवान् ।[५६] रहमानः क्रि.श.२००८तमे वर्षे के.एम्. म्मूज़िक् कन्सर्वेटरी (सङ्गीतशिक्षापोषकसंस्था) संस्थाम् आरब्धवान् । यत्र सङ्गीतविद्याम् अध्येतुम् आसक्ताः गानं, वादनम्, इत्यादीनि श्रव्यमाध्यमेन विषिष्टतन्त्रज्ञानद्वारा प्राप्तुं शक्नुवन्ति । अत्र ध्वनिविन्यासक्षेत्रे बोधनं प्रशिक्षा च दीयते । अस्याः सङ्गीतशालायाः बोधकगणे सुप्रसिद्धयशस्वीसङ्गीतकाराः सन्ति । प्राथमिकस्तरस्य डिप्लोमोपदव्याः च प्रणालि अत्र स्तः ।[५७] अस्याः कलाशालयाः विद्यां पदवीं प्राप्य बहवः चलच्चित्रे सङ्गीतसंयोजकत्वेन उद्योगिनः अभवन् ।[५८] चेन्नैनगरे विद्यमानानां निर्गतिकमहिलानां सहायार्थं स्थापितायाः दि ब्यानियन् इति संस्थायाः लघुचित्रस्य सङ्गीतसंयोजनं क्रि.श.२००६तमे वर्षे कृतवान् । तदा क्रि.श. २००८तमे वर्षे दुन्दुभिवाद्यकारेण शिवमणिना सह "जिया से जिया " इति गीतं स्वयं रहमानः रचयित्वा सङ्गीतेन निबद्धवान् । एतत् गीतचित्रं भारतस्य अनेकेषु नगरेषु चित्रीकृतम् अभवत् ।

चलच्चित्रकार्यावली[सम्पादयतु]

विशेषावलोकनम्[सम्पादयतु]

टीकाः[सम्पादयतु]

  1. १.० १.१ "India's A.R. Rahman strikes Grammys gold". Agence France-Presse. 2010. Retrieved 2010-02-01. 
  2. "It's a bridge for Indian cinema: A R Rahman", Times of India. Retrieved on 26 February 2008. 
  3. ए.आर्. रहमानस्य सन्दर्शनम्, Bio apple.com/Logic Studio
  4. Richard Corliss. "Culture: The Mozart of Madras", Time, 3 May 2004. Retrieved on 2010-02-03. 
  5. "Indian film composer for Rings", BBC, 2003-10-21. Retrieved on 15 November 2008. 
  6. Das Gupta, Surajeet; Sen, Soumik. "Composing a winning score". Rediff. Retrieved 15 November 2008. 
  7. specials.msn.co.in/sp08/oscar/rahman.asp All About Rahman – Oscars 2009 Special.
  8. ८.० ८.१ ८.२ ८.३ Rangan, Baradwaj; Suhasini, Lalitha (14 June 2008). "A R Rahman – The Rolling Stone Interview". Rolling Stone. Retrieved 16 November 2008. 
  9. Ganti, T.. Bollywood: A Guidebook to Popular Hindi Cinema. p. 112 
  10. १०.० १०.१ "Artist of the Month: AR Rahman". TFM Page Magazine. January 2006. Retrieved 15 February 2007. 
  11. [१]
  12. Wax, Emily. "'Slumdog' Composer's Crescendo Of a Career.", The Washington Post. Retrieved on 8 November 2010. 
  13. Vickey Lalwani. "AR Rahman’s son sings for Hollywood". TNN. Times of India. Retrieved 2010-07-29. 
  14. "A R Rahman’s daughter sings song in ‘Yanthram’". Indiaglitz. Retrieved 2010-07-29. 
  15. http://www.youtube.com/watch?v=TqUbiOgEb0w&feature=fvw
  16. [२]
  17. "Front Page : Great composer, greater human feted", The Hindu, 2009-02-24. Retrieved on 2010-08-23. 
  18. "Vellithen Kinnam: Rahman's first song". Malayalasangeetham. Retrieved 26 November 2010. 
  19. १९.० १९.१ Eur, Andy Gregory. The International Who's Who in Popular Music 2002: A. R. Rahman. pp. 419–420 
  20. २०.० २०.१ २०.२ २०.३ Iyer, Vijay. "A. R. Rahman". lotr.com. Retrieved 15 November 2008. 
  21. Kasbekar, Asha (2006). Pop Culture India!: Media, Arts and Lifestyle. ABC-CLIO. p. 215. ISBN 9781851096367. http://books.google.com/?id=Sv7Uk0UcdM8C&pg=PA215&dq=A.+R.+Rehman+tamil. "Songs play as important a part in South Indian films and some South Indian music directors such as A. R. Rehman and Ilyaraja have an enthusiastic national and even international following" 
  22. Chaudhuri, S.. "Cinema of South India and Sri Lanka". Contemporary World Cinema: Europe, the Middle East, East Asia and South Asia. p. 149. "Now the South is believed to excel the North in many respects, including its colour labs, state of the art digital technology and sound processing facilities (which have improved the dubbing of Tamil and other South Indian languages into Hindi since the 1970s" 
  23. Prasad, Ayappa (2003). "Films don't believe in borders". Screen. Retrieved 15 November 2008. 
  24. Ramaswamy, V.. Historical Dictionary of the Tamils. p. 199 
  25. Chaudhuri, S.. "Cinema of South India and Sri Lanka". Contemporary World Cinema: Europe, the Middle East, East Asia and South Asia. p. 149. "Southern filmmakers like Mani Ratnam, Ram Gopal Varma and Priyadarshan have altered the profile of Indian 'national' cinema. So too have southern specialists... cinematographers Santosh Sivan, P. C. Sriram and music composer A. R. Rahman who formed a highly successful team with Ratnam and have all attained star status in their own right" 
  26. www.indiainfo.com
  27. Stafford, Roy. Understanding Audiences and the Film Industry. London: British Film Institute. p. 27. ISBN 9781844571413 
  28. Arnold, Alison (2000). "Film music in the late Twentieth century". The Garland Encyclopedia of World Music. Taylor & Francis. p. 540. ISBN 9780824049461. http://books.google.com/?id=ZOlNv8MAXIEC&pg=RA2-PA555&dq=A.+R.+Rahman+tamil+film+music. "The recent success of the Tamil film music director A. R. Rehman in achieving widespread popularity in the world of Hindi film music is now possibly opening doors to new South-North relationships and collaborations" 
  29. "Film Composer A.R. Rahman Selects Bag End Bass Speakers". Mix. 7 June 2006. Retrieved 18 November 2008. 
  30. Omkar, Ashanti. "Interview with A. R. Rahman", March 2008. Retrieved on 18 November 2008. 
  31. Maria Verghis, Shana. "A R Rahman Interview", 11 August 2006. 
  32. [३]
  33. Allen, John; Uck Lun Chun, Allen Chun, Ned Rossiter, Brian Shoesmith. Refashioning pop music in Asia. p. 67 
  34. "A. R. Rahman: Summary Biography". A. R. Rahman: A Biography. November 2002. Retrieved 15 February 2007. "Particularly impressed with Vande Mataram, Jeremy Spencer, formerly of Fleetwood Mac stated that Rahman was the only Indian composer he knew about and liked" 
  35. Chander, Bhuvana. "Tamil Cinema", Tamil Guardian, 2006-04-19, p. 15. Retrieved on 2010-10-24. 
  36. [४]
  37. [५]
  38. "Airtel unveils new logo, tune". Deccan Herald. Retrieved 2010-11-18. 
  39. Bharat. "Airtel New Signature Tune Available for Download". Indiamag.in. Retrieved 2010-11-19. 
  40. "A.R.Rahman's exclusive tune for Radio Desi Beats". Musicaloud. Retrieved 2010-11-28. 
  41. "Toyota ropes in Rahman to endorse Etios in India", The Economic Times. Retrieved on 2010-10-16. 
  42. "AR Rahman is Toyota Etios' brand ambassador". Rediff. Retrieved 2010-10-15. 
  43. "A.R. Rahman performs at the launch of the Toyota Etios". Motoism. Retrieved 2010-12-05. 
  44. Viswanathan, T.; Harper Allen, Matthew. Music in South India. p. 139 
  45. Todd Titon, Jeff; Linda Fujie, David Locke, David P. McAllester. "India/South India". Worlds of Music: An Introduction to the Music of the World's Peoples. pp. 202–205 
  46. Ganti, T.. Bollywood: A Guidebook to Popular Hindi Cinema. p. 112. "Rehman is an innovative and phenomenally successful contemporary Tamil and Hindi composer whose style transformed film music in the 1990s...he is considered a genius in the Bombay film industry, and in terms of how much control and autonomy he is allowed over his compositions and working style, he holds tremendous power over film producers and directors" 
  47. Smith, Ethan (27 February 2009). "'Slumdog' Remix: The Oscar-winning song 'Jai Ho' is reworked with help from a Pussycat Doll". The Wall Street Journal. http://online.wsj.com/article/SB123568984902087603.html. Retrieved 2009-03-01 
  48. "Baz Luhrrman comments on A. R. Rahman". Charindaa. 2005. Retrieved 15 November 2008. 
  49. Prakash, B.S. (6 July 2006). "Stanford University honours A R Rahman". Rediff. Rediff.com. Retrieved 16 December 2008. 
  50. "66th Annual Golden Globe Awards". IMDb. Retrieved 12 December 2008. 
  51. "Rahman to be awarded an Honorary Degree in July", The Hindu, 1 April 2009. Retrieved on 26 May 2009. 
  52. "Rahman to be conferred honorary doctorate by AMU", The Hindu, 26 May 2009. Retrieved on 26 May 2009. 
  53. [६]
  54. फलकम्:Cite press release
  55. फलकम्:Cite video
  56. "LA Phil presents Hollywood Bowl: About the Performer: AR Rahman". Hollywood Bowl Official Website. Retrieved June 2006. 
  57. "Rahman's music conservatory in June". Screen. Retrieved November 2008. 
  58. "Briefly Tamil Cinema", Tamil Guardian, 19 April 2006. Retrieved on 24 October 2010. 

उल्लेखाः[सम्पादयतु]

  • Allen, John; Uck Lun Chun, Allen Chun, Ned Rossiter, Brian Shoesmith (2004). Refashioning pop music in Asia. USA: Routledge. ISBN 9780700714018. 
  • Arnold, Alison (2000). The Garland Encyclopedia of World Music. Taylor & Francis. ISBN 9780824049461. 
  • "Cinemaya 1998". Cinemaya (New Delhi) (39–41): 9. 1998. ISSN 0970-8782. OCLC 19234070. 
  • Chaudhuri, Shohini (2005). "Cinema of South India and Sri Lanka". Contemporary World Cinema: Europe, the Middle East, East Asia and South Asia. Edinburgh: Edinburgh University Press. ISBN 074861799X. 
  • Eur, Andy Gregory (2002). "A. R. Rahman". The International Who's Who in Popular Music 2002. Routledge. ISBN 9781857431612. 
  • Ganti, Tejaswini (2004). Bollywood: A Guidebook to Popular Hindi Cinema. Routledge. ISBN 0415288541. 
  • Ramaswamy, Vijaya (2007). Historical Dictionary of the Tamils. Michigan: The Scarecrow Press. ISBN 0810853795. 
  • Terska Ciecko, Anne (2006). Contemporary Asian Cinema: Popular culture in a Global Frame. Berg: Berg Publishers. ISBN 1845202376. 
  • Todd Titon, Jeff; Linda Fujie, David Locke, David P. McAllester (2005). "India/South India". Worlds of Music: An Introduction to the Music of the World's Peoples. USA: Thomson Shirmer. ISBN 9780534627577. 
  • Velayutham, Selvaraj (2008). Tamil Cinema: The Cultural Politics of India's Other Film Industry. Routledge. ISBN 9780415396806. 
  • Vishwanathan, T.; Matthew Harp-Allen (2004). Music in South India: The Karṇāṭak Concert Tradition and Beyond : Experiencing Music, Expressing Culture. USA: Oxford University Press. ISBN 9780195145915. 

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=ए._आर्._रहमान्&oldid=277134" इत्यस्माद् पुनः प्राप्तिः