ऐतरेयोपनिषत्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता विद्यते । अस्याम् उपनिषदि त्रयः अध्यायाः विद्यन्ते । प्रथमे अध्याये त्रयः खण्डाः । द्वितीये तृतीये च अध्याये एकैकः खण्डः विद्यते । आत्मनः वर्णनम् आत्मना कृता सृष्टिः च अस्याः उपनिषदः विषयाः ।

उपनिषत्सारः[सम्पादयतु]

आदौ आत्मामात्रम् आसीत् । अस्माकं प्रत्यक्षं जडचेतनसम्बद्धं नामरूपात्मकं जगत् सृष्टेः प्राक् ब्रह्मरूपेणैव संस्थितमासीत् । तदा अन्यत् किञ्चित् पदार्थान्तरं नासीत् । सः स्वस्य सङ्कल्पेन चतुरः लोकान् असृजत् । अम्भः मरिचिः मरम् आपः इति चत्वारः लोकाः चतुर्दशलोकानामुपलक्षणार्थाः । ततः लोकपालानां सर्जनाय विराट्पुरुषं निर्मितवान् । विराट्पुरुषस्य शरीरे इन्द्रियाणि तत्तदभिमानिदेवताः च अजायन्त ।

अत्र ब्रह्मविद्यायाः प्राधान्यमस्ति । तत्रादौ परमात्मनः सृष्टिविषयकः सङ्कल्पः वर्ण्यते । प्राणिनां कर्मफलोपभोगार्थं ब्रह्म भोग्यभोक्तृप्रपञ्चं सृजति । अत्र अम्भः मरिचिः मरम् आपः इति चत्वारः लोकाः चतुर्दशलोकानामुपलक्षणार्थाः । तदुक्तम् आत्मा वा इदमेक एवाग् आसीत् । सा ईक्षत लोकान्नु सृजा इति लोकसृष्टेरनन्तरं लोकपालं स्रष्टुमीष्टे । यतः नियन्तुः अभावे जगतः नियन्त्रणं न स्यात् । तदा पञ्चभूतानि उपयुज्य पुरुषशरीरं सृजति । तत्र यथोचितं स्थानमधितिष्ठन्ति अन्याः देवताः अग्निः वाक् भूत्वा मुखं प्राविशत् इत्यादिरूपेण ।

तदुत्तरं संसारनिर्वहणार्थम् अशनायापिपासयोः सर्जनं करोति । ते च देवतासु निक्षिपति अशनायापिपासावारणाय अन्नस्य सृष्टिं करोति । तदन्नं प्राप्तुं जीवः सर्वासां देवतानां साहाय्येन प्रयतते । तदा सर्वासु अशक्तासु अपानस्थितो मृत्युः शक्तोऽभूत् । तदपानेनाजिघृक्षत् तदावयत् । सैषोऽन्नस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः इति । स्वयं सम्पूर्णं शरीरं जीवितुमसमर्थं मत्वा स्रष्टा परमात्मा पुरुषस्य मूर्धानं विदार्य शरीरं प्रविशति । स्वयं परमात्मा प्रविष्टः अस्मिन् शरीरे इति कारणात् यदि जीवः तं प्रबुध्यते तर्हि परानन्दं प्राप्नोति । अत्र इदन्द्रः इति पदस्य आत्मा दृष्टः इत्यर्थः ।

संसारी जीवः पुरुषशरीरे वीर्यरूपेण स्थितः यदा स्त्रियाः गर्भे सिञ्च्यते तदा प्रथमं जन्म भवति । माता आगतं तेजः स्वस्य एव अङ्गमिति मत्वा तस्य परिरक्षणं वर्धनं च यत्नतः करोति । नवमासानन्तरं यदा गर्भात् सः जीवः बहिरागच्छति तदा तस्य जीवस्य द्वितीयं जन्म । अयं पुत्रः पितुः प्रतिनिधिरूपेणा परिचीयते । पितुः आत्मस्वरूपोऽयं सन्तानः पितृवत् सकलं वैदिकं लौकिकं च कर्म कुर्वन् आस्ते । एषः पितृत्वं स्वस्मिन् आरोप्य स्वस्य पुत्रस्य कृते कर्माधिकारं दत्वा यदा मृतो भवति तत् अस्य तृतीयं जन्म ।

तृतीयाध्याये तावत् ऋग्वेदीयमहावाक्यमन्तर्भवति । तदेव प्रज्ञानं ब्रह्म । समग्रोपनिषदि निरूपितं तथ्यमाधारीकृत्य सर्वमधिगम्य साधकः स्वतः जिज्ञासां कर्तुमुपक्रान्तो भवति किं तावत् ब्रह्म इति येन मनुष्यः पश्यति, येन शृणोति, येन जिघ्रति, स्वादु चास्वादु च विजानाति इति । तदेव तत्त्वं प्रज्ञानमिति कथितम् –संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा इत्यादिना । एतत् सर्वं प्रज्ञानस्यैव नामधेयं भवति । पञ्चमहाभूतानि, चत्वारः भूतग्रामाः, चराचरजगत् च तेनैव उत्पन्नानि तेनैव व्याप्तानि इति कारणात् प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितमिति कथितम् । ईदृशं तत्त्वं ज्ञात्वा मुमुक्षुः सच्चिदानन्दं ब्रह्म लब्ध्वा मुक्तो भवति ।

प्रमुखाः शब्दार्थाः[सम्पादयतु]

  • ऋतम् - सत्यानुसृतं कर्म
  • मरीकि - किरणम्, प्रकाशः
  • तपः - शक्तेः केन्द्रीकरणम्
  • औषधि - पुष्पस्य विकासानन्तरं शलाटुः यत्र भवेत् तादृशाः सस्यलतादयः
  • वनस्पतिः - अवशिष्टानि तृणादीनि
  • आज्ञान - अवलोकनशक्तिः
  • धृतिः - दृढमतिः
  • चारुज - कृशचर्मस्यूतवेष्टनेन जातः
  • अण्डज - अण्डात् जातः
  • स्वेदज - शरीरस्य स्वेदेन जातः
  • प्रज्ञा - स्वसंवित्, बुद्धिः

ऐततेयोपनिषदः वैशिष्ट्यानि[सम्पादयतु]

  • आदौ विश्वे आत्मामात्रम् आसीत्, नान्यत् किमपि इत्येतेन तत्त्वज्ञानपूर्णेन वाक्येन एव अस्याः उपनिषदः आरम्भः भवति । अन्यासु उपनिषत्सु इन्द्रियगोचरवस्तूनाम् उत्पत्तिः कथं जातम् इति निरूप्य अन्ते आत्मनः निरूपणं भवति । किन्तु अस्याम् उपनिषदि आत्मसाक्षात्कारं प्राप्तवद्भिः ऋषिभिः आदौ आत्मतत्त्वं निरूप्यते । आत्मना इदं विश्वं कथम् उत्पन्नम् इति निरूप्यते । विश्वस्य उत्पत्तेः मूलकारणानि विविधासु उपनिषत्सु बहुधा निरूपितं वर्तते । तेषां सर्वेषां निरूपणानां समन्वयं कृत्वा अस्याम् उपनिषदि निरूपितं यत् परमात्मनः सङ्कल्पशक्त्या विविधसृष्टिः जाता इति ।
  • अस्याम् उपनिषदि विश्वशक्तयः देवताः / लोकपालाः इति निर्दिष्टाः सन्ति । तासां देवतानां पुरुषे विद्यमानानाम् इन्द्रियशक्तीनां च निकटसम्बन्धः अत्र स्पष्टतया निरूपितः वर्तते । इन्द्रियशक्तिषु अधिष्ठितॄणां देवतानां पोषणाय अन्नादीनि उत्पादितानि ।
  • देहे देवतानां प्रवेशनेन पुरुषः परिपूर्णः जातः चेदपि ’मां विना एतेषु स्थिरता कथम् ?’ इति चिन्तयता आत्मना ब्रह्मरन्ध्रद्वारा पुरुषशरीरे प्रविष्टम् । सर्वेषां समन्वयनाय आत्मा पुरुषशरीरे प्रतिष्ठितः स्यात् इत्येषः एव सारः ।
  • तत्त्वविवेचनाय आवश्यकाः मैथुन-गर्भादयः विषयाः अत्र स्पष्टैः शब्दैः कथिताः सन्ति ।
  • अन्ते आत्मस्वरूपं निरूपितवन्तः सन्ति । चित्ते जायमानाः सर्वे अपि विकाराः प्रज्ञानविकाराः एव इत्यतः प्रज्ञानमेव ब्रह्म इति अत्र ऋषिभिः उपदिष्टमस्ति । एवम् आत्मना एव सर्वं जातम् इति आरभ्य आत्मा ज्ञानमयः इति वदन्तः उपनिषदः उपसंहारं कृतवन्तः सन्ति ।
  • अस्याम् उपनिषदि आधुनिक-उत्क्रान्तेः बीजानि दृश्यन्ते । आत्मसङ्कल्पेन पुरुषोत्पत्तिः, ततः इन्द्रियक्रियाणां सूक्ष्मस्वरूपं, ततः बाह्येन्द्रियाणि इत्येतत् सृष्टिक्रमः । उपनिषदः अन्ते प्रज्ञानस्य विविधरूपाणां मति-धृतीनां विवरणं मनश्शास्त्रदृष्ट्या प्रामुख्यं भजते । चैतन्यमेव मनश्शक्तीनाम् आधारः इति प्रतिपादितः अस्ति । ततः मनसः विविधाः क्रियाः विवृताः सन्ति । एतस्मात् प्राचीनऋषीनां बुद्धिशक्तिः कियती तीक्ष्णा आसीत्, तेषां ज्ञानपिपासा कियती प्रबला आसीत् इति अवगम्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=ऐतरेयोपनिषत्&oldid=266036" इत्यस्माद् पुनः प्राप्तिः