ऐतरेयोपनिषत्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

इयमुपनिषत् ऋग्वेदस्य ऐतरेयारण्यकान्तर्गततया गृह्यते । अत्र ब्रह्मविद्यायाः प्राधान्यमस्ति । तत्रादौ परमात्मनः सृष्टिविषयकः सङ्कल्पः वर्ण्यते । अस्माकं प्रत्यक्षं जडचेतनसम्बध्दं नामरुपात्मकं जगत् सृष्टेः प्राक् ब्रह्मरुपेणैव संस्थितमासीत् । तदा अन्यत् किञ्चित् पदार्थान्तरं नासीत् । प्राणिनां कर्मफलोपभोगार्थं ब्रह्म भोग्यभोक्तृप्रपञ्चं सृजति । अत्र अम्भः मरिचिः मरम् आपः इति चत्वारः लोकाः चतुर्दशलोकानामुपलक्षणार्थाः । तदुक्तम् आत्मा वा इदमेक एवाग् आसीत् । सा ईक्षत लोकान्नु सृजा इति लोकसृष्टेरनन्तरं लोकपालं स्रष्टुमीष्टे । यतः नियन्तुः अभावे जगतः नियन्त्रणं न स्यात् । तदा पञ्चभूतानि उपयुज्य पुरुषशरीरं सृजति । तत्र यथोचितं स्थानमधितिष्ठन्ति अन्याः देवताः अग्निः वाक् भूत्वा मुखं प्राविशत् इत्यादिरुपेण ।

तदुत्तरं संसारनिर्वहणार्थम् अशनायापिपासयोः सर्जनं करोति । ते च देवतासु निक्षिपति अशनायापिपासावारणाय अन्नस्य सृष्टिं करोति । तदन्नं प्राप्तुं जीवः सर्वासां देवतानां साहाय्येन प्रयतते । तदा सर्वासु अशक्तासु अपानस्थितो मृत्युः शक्तोऽभूत् । तदपानेनाजिघृक्षत् तदावयत् । सैषोऽन्नस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः इति । स्वयं सम्पूर्णं शरीरं जीवितुमसमर्थं मत्वा स्रष्टा परमात्मा पुरुषस्य मूर्धानं विदार्य शरीरं प्रविशति । स्वयं परमात्मा प्रविष्टः अस्मिन् शरीरे इति कारणात् यदि जीवः तं प्रबुध्यते तर्हि परानन्दं प्राप्नोति । अत्र इदन्द्रः इति पदस्य आत्मा दृष्टः इत्यर्थः ।

संसारी जीवः पुरुषशरीरे वीर्यरुपेण् स्थितः यदा स्त्रियाः गर्भे सिञ्च्यते तदा प्रथमं जन्म भवति । माता आगतं तेजः स्वस्य एव अङ्गमिति मत्वा तस्य परिरक्षणं वर्धनं च यत्नतः करोति । नवमासानन्तरं यदा गर्भात् सः जीवः बहिरागच्छति तदा तस्य जीवस्य द्वितीयं जन्म । अयं पुत्रः पितुः प्रतिनिधिरुपेणा परिचीयते । पितुः आत्मस्वरुपोऽयं सन्तानः पितृवत् सकलं वैदिकं लौकिकं च कर्म कुर्वन् आस्ते । एषः पितृत्वं स्वस्मिन् आरोप्य स्वस्य पुत्रस्य कृते कर्माधिकारं दत्वा यदा मृतो भवति तत् अस्य तृतीयं जन्म ।

तृतीयाध्याये तावत् ऋग्वेदीयमहावाक्यमन्तर्भवति । तदेव प्रज्ञानं ब्रह्म । समग्रोपनिषदि निरुपितं तथ्यमाधारीकृत्य सर्वमधिगम्य साधकः स्वतः जिज्ञासां कर्तुमुपक्रान्तो भवति किं तावत् ब्रह्म इति येन मनुष्यः पश्यति, येन शृणोति, येन जिघ्रति, स्वादु चास्वादु च विजानाति इति । तदेव तत्त्वं प्रज्ञानमिति कथितम् –संज्ञानमाज्ञानं विज्ञानं प्रज्ञानम् मेधा इत्यादिना । एतत् सर्वं प्रज्ञानस्यैव नामधेयम् भवति । पञ्चमहाभूतानि, चत्वारः भूतग्रामाः,चराचरजगत् च तेनैव उत्पन्नानि तेनैव व्याप्तानि इति कारणात् प्रज्ञानेत्रम् प्रज्ञानेप्रतिष्ठितमिति कथितम् । ईदृशं तत्त्वं ज्ञात्वा मुमुक्षुः सच्चिदानन्दं ब्रह्म लब्ध्वा मुक्तो भवति ।

बाह्यसम्पर्कतन्तुः [सम्पादयतु]