ओणम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

फलकम्:Underlinked

पुष्पालङ्कारः

भूलोकं प्रति महाबलिनः आगमनं निमित्तीकृत्य ओणम् (मलयाळम्:ഓണം) उत्सवः आचर्यते। ओणं-पर्वकाले महाबलिनः, तथा तं पातालं प्रति प्रेषितवतः वामनस्य च पूजा क्रियते। चतुरस्राकारके मृत्पिण्डे महाबलिनः विष्णोः च आवाहनं कृत्वा पुष्पादिभिः अलङ्कृत्य पूजा क्रियते। प्राचीनकाले वामनस्य पूजनं न आसीत्। ओणं काले महाबली दशदिनाभ्यन्तरे प्रतिगृहम् आगत्य योगक्षेमादिकं परिशीलयति इति केरलीयाः भावयन्ति। अतः ते तस्य स्वागतार्थं विशेषव्यवस्थां कुर्वन्ति। प्रतिगृहं स्वच्छीक्रियते, अलङ्क्रीयते च । उषसि एव देहल्याः पुरतः पर्ण-पुष्प-वर्णचूर्णादिभिः आकर्षकतया रङ्गवली विरच्यते। पुष्पाकारकाः ताः 'पूक्कळम्' इति मलयाळभाषया निर्दिश्यन्ते। जनाः नूतनानि वस्त्राणि धृत्वा परस्परम् उपायनानि यच्छन्ति। नृत्यादिभिः चक्रवर्तिनः स्वागतं कुर्वन्ति। दशदिनात्मके एतस्मिन् उत्सवकाले रुचिकराणि खाद्यानि सज्जीक्रियन्ते। ओणं-सम्बद्ध्ं 'कैकोट्टिक्कळि' नामकं नृत्यप्रकारम् अवलम्ब्य महिलाः नृत्यन्ति।

ओणाङ्गतया नौकास्पर्धाः[सम्पादयतु]

नौका क्रीडा

एतस्य उत्सवकालस्य प्रमुखम् आकर्षणं नाम-अनतिगम्भीरे जले नौकास्पर्धायाः आयोजनम्। एताः काष्ठनिर्मिताः नौकाः फणाम् उन्नीतवतः सर्पस्य आकारेण भवन्ति। स्पर्धादिने एतासु नौकासु शताधिकाः नौकाचालकाः उपविश्य समूहशक्त्या नौकां चालयन्ति। तदवसरे न केवलम् एताः दीर्घनौकाः अपि तु लघुनौकाः, बालैः चाल्यमानाः उडुपाः चापि दृश्यन्ते नदीषु। एवम् अयम् उत्सवः केरळीयेषु आनन्दम् उत्साहं च महता प्रमाणेन पूरयति।

पर्वाचरणसम्बद्धा पुराणकथा[सम्पादयतु]

बलिचक्रवर्तेः पातालप्रेषणम्

प्राचीनकाले असुरकुलोत्पन्नः महाबली केरळराज्यं पालयति स्म । सः न्यायपरः प्रजावत्सलः समर्थः च आसीत्। तस्य शासनकाले प्रजाः सुखेन जीवन्ति स्म। सः शौर्येण असदृशः आसीत्। अतः न केवलं भूलोकम् अपि तु स्वर्गादीन्लोकान् अपि पालयति स्म सः। तस्य कीर्तेः विस्तारं देवाः सोढुं न शक्तवन्तः। सर्वे सम्भूय निर्णीतवन्तः यत् 'स्वर्गः स्वयत्तीकृतः यत् तदर्थं महाबली दण्डनीयः' इति। एतदर्थं तर्हि विष्णोः साहाय्यं प्रार्थितम्। विष्णुः अवकाशं प्रतीक्षमाणः आसीत् । कदाचित् महाबली अश्वमेधयागम् आरब्धवान्। तदा विष्णुः वामनवेषं धृत्वा यागमन्डपम् आगतवान्। याचकेन यत् याच्यते तत् दातव्यम् एव इति तु यागनियमः। अतः वामनः यत् याचेत तत् दातुं सिद्धः आसीत् महाबली। वामनः त्रिपादपरिमितां भूमिं याचितवान्। महाबली दानम् अङ्गीकृत्वान्। त्रिपादपरिमितायाः भूमेः दाने आक्षेपार्हः अंशः कोऽपि नासीत्। तथापि गुरुः शुक्राचार्यः आतङ्कयुक्तः जातः। वामनः त्रिविक्रमः जातः। सः एकेन पादेन भूमिम्, अपरेण च स्वर्गलोकं च आक्रान्तवान्। 'मया तृतीयः पादः कुत्र स्थापनीयः?' इति वामनः महाबलिनं पृष्टवान्। वचनपालने बद्धादरः असुरचक्रवर्ती विनयेन शिरः अवनमितवान्। वामनः तृतीयं पादं महाबलिनः शिरसि संस्थाप्य तं पातालं प्रति प्रेषितवान्। वामनस्य अदृश्यतातः पूर्वं महाबली वरं याचितवान्-"वर्षे एकवारम् अहं मम साम्राज्यं द्रष्टुम् इच्छामि" इति। विष्णुः अङ्गीकृतवान्।

ओणमनृत्यम् - तिरुवत्तिकळि
"http://sa.wikipedia.org/w/index.php?title=ओणम्&oldid=266041" इत्यस्माद् पुनः प्राप्तिः