कच्छहरितभूमिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गुजरातराज्यस्य मानचित्रे कच्छप्रदेशः

कच्छहरितभूमिः (आङ्ग्ल: Grasslands of Kutch) इत्यस्मिन् कच्छप्रदेशस्य हरितभूमिः, कच्छप्रदेशे विद्यमानाः तडागाश्च अन्तर्भवन्ति । अयं प्रदेशः प्रमुखपक्षिप्रदेशत्वेन परिगण्यते । विशेषतः 'बन्नी'नामकहरितभूमौ विद्यमानः 'चर्री'सरोवरः मुख्यपक्षिप्रदेशः । 'नलिया' इत्यस्य समीपे विद्यमाने लाला 'बस्टर्ड्' पक्षिधाम्नि तु 'ग्रेट् इन्डियन् बस्टर्ड्', 'मेक्क्वीन्स् बस्टर्ड्', 'लेस्सर् फ्लोरिकन्', 'लार्क्', 'वार्ब्लर्', 'वीट्-इयर्', 'स्याण्ड्ग्रौस्', 'ब्लेक् फ्रेङ्कोलिन्' इत्येते विदेशीयपक्षिविशेषाः दृश्यन्ते । 'स्टोलिक्स्कास् बुश्चेट्', 'वैट्-नेप्ड्-टिट्' इत्येतौ द्वौ विरलपक्षिविशेषौ अस्मिन् धाम्नि, 'बन्नी'नामकहरितभूमौ एव दृश्येते । 'ग्रे हैपोकोलियस्' इति कश्चन पक्षिविशेषोऽपि अत्र द्रष्टुं लभ्यते । शैत्यकाले 'बन्नी'हरितभूमौ 'टाव्नी' इत्यादिगरुडाः अधिकसङ्ख्यासु दृश्यन्ते ।

"https://sa.wikipedia.org/w/index.php?title=कच्छहरितभूमिः&oldid=371772" इत्यस्माद् प्रतिप्राप्तम्