कटीलु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कटिलु इत्यस्मात् पुनर्निर्दिष्टम्)
कटीलु श्रीदुर्गापरमेश्वरीमन्दिरम्

कटीलु (Kateel) कर्णाटकराज्ये विद्यमानं किञ्चन प्रसिद्धं तीर्थक्षेत्रम् । दक्षिणकन्नडमण्डलस्य केन्द्रात् मङ्गळूरुनगरात् अनतिदूरे एव अस्ति कटीलु । अत्रत्यं प्रसिद्धं श्रीदुर्गापरमेश्वरीमन्दिरम् उडुपी-मङ्गळूरुराष्ट्रियमार्गस्य पार्श्वे अस्ति । नन्दिनीनदीतीरे प्रशान्तस्थले सुन्दरः प्राचीनः देवालयः अस्ति । एषः द्वीपदेवालयः

गर्भगृहे शक्तिस्वरूपिणी लिङ्गाकारेण अस्ति । ततः शङ्खचक्रधारिणी चतुर्भुजा वरदाभयमुद्रायुक्ता देवी लोहबिम्बरूपेण विराजते । मूर्तिः लिङ्गस्य अपेक्षया प्राचीना न । वैष्णवाः एव अत्र अर्चकाः शाक्ततन्त्रमार्गानुसारं पूजयन्ति । अत्र विशेषदिनानि नाम मेषसंक्रमणस्य अनन्तरम् अष्टादिनानि । तथैव सिंहशुक्रवारस्य पवित्रदिनम् । जागृतशक्तिस्थलमेतत् । देवालयस्य स्तम्भेषु सुन्दरशिल्पानि प्रसिद्धः शिल्पी रञ्जाळ गोपालशेणै उत्कीर्णवान् अस्ति ।

मार्गः[सम्पादयतु]

मङ्गळूरुतः २७ कि.मी दूरे विद्यते ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कटीलु&oldid=480073" इत्यस्माद् प्रतिप्राप्तम्