कडपामण्डलम्
| कडपामण्डलम् | |
| — मण्डलम् — | |
|
|
|
| निर्देशाङ्काः | |
| देशः | भारतम् |
| राज्यम् | आन्ध्रप्रदेशः |
| जनसङ्ख्या |
२६,०१,७९७ (2001[update]) • १६९ /km2 ( /sq mi) |
| व्यावहारिकभाषा(ः) | तेलुगुभाषा, उर्दूभाषा |
|---|---|
| समयवलयः | IST (UTC+05:30) |
| विस्तीर्णम् | १५,३७९ square kilometres ( sq mi) |
| जालस्थानम् | kadapa.info |
कडपा मण्डलम् आंध्रप्रदेशराज्ये स्थितमेकं मण्डलमस्ति । अस्य मण्डलस्य केन्द्रः कडपा नगरम् ।
अन्तर्विषयाः |
इतिहासः [सम्पादयतु]
स्वातन्त्र्यात्पूर्वं १८०० तमवर्षात् आङ्ग्लेयाधीने अवर्ततेदं मण्डलं कडपा । १९६० तमे वर्षे आविष्कृतम् । प्रान्तमिदं पूर्वं शातवाहनैः, चालक्यैः चोलैः राष्ट्रकूटिभिः, काकतीयैः विजयनगरराजैः, गण्डिकोटा-कडपा–मैसूरुपालकैः, नैजां नवाबजनैः च पालितमिदं मण्डलम् ।
भौगोलिकम् [सम्पादयतु]
मण्डलेस्मिन् ३२-३७% भूभागः अरण्येन विस्तृतः । वेलिगोण्डा, लङ्कमल, शेषाचलपर्वतश्रेण्यः वर्तन्ते । मदनपल्ली-अरण्यप्रान्ते रक्तचन्दनम् उपलभ्यते ।
कृषिः वाणिज्यं च [सम्पादयतु]
सुधाशिलाः, सीसम्, हेमलैट्, इत्यादिखनिजसम्पद् वर्ततेऽत्र । मङ्गपेटप्रान्ते बैरैट्निधिः वर्तते । प्रोद्दुटूरु-कडपाप्रान्तयोः पारिश्रामिककेन्द्राणि वर्तन्ते । कडपाप्रान्ते पारिश्रामिकपरिकराणां परीक्षाकेन्द्रमपि अस्ति । माधवरप्रान्ते वस्त्र – वयन केन्द्राणि सन्ति । भूभागेऽस्मिन् पादभागः सेद्यार्थम् उपयुज्यते । कर्नूलु – कडपा कुल्याभ्यः, मैदुकूरु, चेय्यूरु, पुलिवेन्दुल इत्यादिजलसेतुभिः, श्रीशैलदक्षिणकुल्याभ्यः च सस्यार्थं जलदानं प्रचलति । मुद्दनूरु-अङ्गारविद्युत्केन्द्रद्वारा विद्युतः दानम् ।
वीक्षणीयस्थलानि [सम्पादयतु]
पदकवितापितामहस्य श्रीमतः ताल्लपाक-अन्नमाचार्यस्य जन्मभूमिः ताल्लपाकः ग्रामः, सिध्दय्यामठः, श्रीश्रीश्रीपोतुलूरि-वीरब्रह्मेन्द्रस्वामिमठः, पुष्पगिरिमठः गण्डिकोट् वेम्पल्ले च प्रमुखपर्याटक- केन्द्राणि वर्तन्ते । मण्डलेस्मिन् महाविद्यालयाः श्रीवेङ्कटेश्वर-विश्वविद्यालयपरिधौ प्रचाल्यन्ते ।