कनकदासजयन्ती

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
कनकदासजयन्ती
के आचरन्ति कर्नाटकीयाः
वर्गः historical, hindu
महत्त्वम् कनकदासस्य जयन्त्युत्सवः
दिनाङ्कः डीसेम्बरमासे

श्रीकनकदासमहोदयः श्रेष्ठहरिदासः सुन्दरकीर्तनकाराः महाभक्तः इति ख्याताः आसन् । जन्मकाले साधारणः, जीवने उत्तमसमाजसुधारकः, भक्तश्रेष्ठः श्रीकनकदास महोदयः काव्यकर्ता च आसन् । एत्स्य जयन्ती महोत्सवं कर्णाटकराज्ये प्रतिवर्षं डीसेम्बरमासे आचरान्ति । श्रीकनकदासस्य् पूर्वनाम तिम्मनायक इति आसीत् । हावेरी जिल्लायाः बाडनामके ग्रामे क्रिस्तशके १४८५ तमे वर्षे जन्म प्राप्तवान् । अजपालककुले जातस्यश्री तिम्मनायकस्य पिता बीरेगौडः माता च बच्चम्मा इत्यासीत् । श्रीबीरेगौडः बाडग्रामे अधिकारी आसीत् । तिम्मनायकस्य बाल्यसमये एव पितुः बीरेगौडस्य मरणम् अभवत् । अग्रे तिम्मनायकः अपि विजयनगरसाम्राज्ये सेनां प्रविष्टवान् । एकदा युध्दे तिम्मनायकः क्षतह्तः अभवत् । धीरः वीरति ख्यातः तिम्मनायकः तदा अतीव खिन्नः अभवत् । एकदा तिम्मनायकः सेवकैः कार्यं कारयन्नासीत् । तदा सुवर्णंभण्डारः लब्धः । तेन तिम्मनायकः कागिनेले क्षेत्रे आदिकेशवस्य मन्दिरं निर्मितवान् । तेन तिम्मनायकस्य कनक इति नाम अभवत् । कनकनायकः इति प्रसिध्दः विजयनगरसाम्राज्ये तिरुमलेताताचार्यैः सन्यासदीक्षां प्राप्तवान् । एवं कनकनायकः कनकदासः इति नाम प्राप्तवान् । एवं कनकनायकः कनकदासः इति नाम प्राप्तवान् । श्रीव्यासरायाणां शिष्यो भूत्वा दासकूटे सम्मिलितः अभवत् ।

कनकनायकस्य युध्दे क्षतहतस्य रणरङ्गे पतितस्य श्रीमन्नारायणस्य दर्शनं सञ्जातम् तेन सन्यासं स्वीकृतवान् कनकनायकः इति प्रसङ्गः विख्यातः अस्ति । श्री व्यासरायः व्यासकूटदासकूटयोः प्रमुखः आसीत् । मठेऽपि अजपालककुलसञ्जातः इति दूरे एव कनकदासः तिष्ठति स्म । एकदा श्रीव्यासरायः शिष्यानां परीक्षां कृतवान् । सर्वेषाम् एकैकं कदलीफलं दत्तम् । ते तु खादित्वा आगतवन्तः ।किन्तु कनकदासः देवः सर्वत्र अस्ति । सर्वम् च पश्यन्नस्ति’ इति मत्वा कदलीफलं श्रीगुरवे समर्पितःवान् । श्रीव्यासरायः कनकदासं श्रेष्ठः भक्तः इति धोषितवान् । अपरप्रसङ्गे श्रीव्यासरार्याः ‘कः मोक्षं प्राप्तुं समर्थः इति पृष्टवन्तः । सर्वे तूष्णीं स्थिताः । कनकदासः ‘नानु होदरे होदेनु’ इत्युक्तवान् । सर्वे हसितवन्तः । कनकदासः यदा 'अहम् गतश्चेत् गच्छामि' इति 'अहङ्कारः गच्छति चेत् अहं मोक्षं प्राप्तुं समर्थः भवेयम्' इति वर्णितवान् । श्रीव्यासरायः कनकदासस्य श्रेष्ठं ज्ञानं प्रशंसितवान् ।

श्रीकनकदासः तीर्थक्षेत्राणि सन्दर्शयन् उडुपि क्षेत्रं आगतवान् । एषः अजपालकः इति कारणात् देवालये प्रवेशं न दत्तवन्तः । तदा देवालयस्य पश्चाद् भागे आगत्य श्रीकनकदासः ‘बागिलनु तेरेदु सेवेयनु कोडु हरिये’ द्वारमपावृत्य सेवां देहि हरे इति प्रार्थितवान् । तदा देवालये श्रीकृष्णमूर्तिः एव कनकदासाभिमुखी अभवत् । आवारे एकं रन्ध्रम् अभवत् । श्रीकृष्णः तेन रन्ध्रेण दर्शनं दत्तवान् । तत् रन्ध्रं ‘कनकन किण्डी’ ‘कनक गवाक्षम्' इति प्रसिध्दम् अस्ति । तत्रैव अधुना कनकदासास्य मूर्तिः स्थापिता अस्ति ।

श्रीकनकदासः दक्षिणभारते यात्रां कृतवान् । एषः प्रसिध्दकविः कीर्तनरचयिताः च आसीत् । अनेकानि भक्तिगीतानि कनकदासेन रचितानि । रामध्यानचरितं, हरिभक्तिसारं, नळचरित्रं, मोहनतरंङ्गिणी च कनकदासेन कृतानि काव्यानि सन्ति । कनकदासस्य अङ्कितं कागिनेलेयादि केशव इत्यस्ति । (कुलं कुलं कुलमिति मा युध्यध्वम् ) “कुल कुल कुलवेन्दु बडिदाडदिरि”,(सर्वेऽपि कुर्वन्ति उदरार्थं तनुदशर्भम्’ एल्लरु माडुवदु होट्टेगागि, ‘तल्लणिसदिरुकण्ड्य ताळुमनवे’,‘मा भव आतङ्कि मर्षय मनः’। 'भजिसि यदुकुलनन्दन' (भजत यदुकुलनन्दनम्) 'तनु निन्नदु जीवन निन्नदु' (‘तनुरियं तावकी, जीवनं तावकम्’) इत्यादी सुन्दराणि गीतानि सन्ति ।

ख्यातः समाजसुधारकः कनकदासः लोकव्यवहारं जनानाम् अनीतिं पद्येषु वर्णितवान् । धीरसैनिकेः दक्षप्रशासकः, भक्तः कीर्तनकारः हरिदासश्रेष्ठः कनकदासः १३३ वर्षपर्यन्तं जीवितोः क्रिस्तशके १६०९ तमे वर्षे दिवंगतः । श्रीकनकदासस्य कीर्तनानां गानं, तस्य काव्यचिन्तनं भावचित्रस्य यात्रोत्सवः, इत्यादि कार्याणि कनकजयन्तीदिने प्रचलन्ति । कनकदासः भक्त्या ज्ञानेन समाजसुधारणेन च सदा स्मरणीयः अस्ति ।

बाह्यसम्र्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कनकदासजयन्ती&oldid=251843" इत्यस्माद् पुनः प्राप्तिः