कन्याकुमारी
निबन्धोऽयं कन्याकुमारीक्षेत्रस्य विषये लिखित: अस्ति । कन्याकुमारीशक्तिपीठविषये कन्याकुमारी (कन्याश्रमः) इति एतत् पश्यतु ।कन्याकुमारी भारतस्य दक्षिणाभूशिरसि समुद्रतीरे स्थितं प्रसिद्धं यात्रास्थलम् अस्ति। एतत् नगरं तमिलनाडुराज्ये अस्ति। प्रकृति-धर्म-संस्कृतिभिरपि एतत् प्रसिद्धम्। एतत् श्रद्धालूनां पुण्यक्षेत्रं, प्रकृतिप्रियाणां रम्यस्थानं, विहारिणां मनोहारि धाम, जीवसागरविज्ञानीनां प्रयोगालयः च अस्ति । एतत् क्षेत्रं बङ्गालोपसागर-हिन्दुमहार्णव-अरब्बिसमुद्राणां सङ्गमस्थानम्।कन्याकुमारीक्षेत्रं पश्चिमाद्रिभागस्य एलापर्वतस्य दक्षिणभागे वर्तते।प्रवासिभिः अत्रैव स्थित्वा सूर्योदयस्य सूर्यास्तस्य च द्वयोः अपि रमणीयता द्रष्टुं शक्या। अत्रत्यसागरतटेषु सिकताराशयः मुक्तामणयः इव चकासन्ते। धृतदेहा प्रकृतिमाता इव कन्याकुमारी सदा सुशोभिता अस्ति।
[सम्पादयतु] पौरणिकप्राशस्त्यम्
कन्याकुमारीक्षेत्रं पुराणप्रसिद्धम् अपि अस्ति। पुरा बाणासुरो नामकः राक्षसः ईश्वरानुग्रहार्थं तपस्तेपे।वरं च अवाप। 'कन्यां विना तस्य मृत्युः एव न स्यात्' इति। सः स्वशक्तेः दुरुपयोगं चकार।तदा देवाः यज्ञमेकम् अन्वतिष्ठन् ।तत्फलरूपेण शक्तिदेवताकुमारीरूपेण भुवि अवततार।बाणासुरह् तस्याम् अनुरक्तः।किन्तु लोककण्टकं तं सा देवी जघान।देव्याः कन्याकुमार्याः विषये एषा पुराणकथा प्रथिता अस्ति। कन्याकुमारीमन्दिरं सुविशालं सुन्दरं कलापूर्णं च वर्तते। द्वारात् गर्भगृहपर्यन्तं मार्गम् उभयतः शिवम् अन्विष्यन्त्यः इव दीपं करेषु धृत्वा दीपशिलाबालाः तिष्ठन्ति। गर्भगृहे कन्याकुमार्याः विग्रहः शोभते। तस्याः हस्ते पुष्पमाला शोभते। शिवं वरयितुं प्रतीक्षमाणा इव भासते। अत्रत्यसागरतटेषु वालुकाः पीत-रक्त-कृष्णवर्णीयाः सन्ति।भावुकाः ताह् वालुकाः हरिद्राकुङ्कुमकस्तूरीत्वेन भावयन्ति। विवाहार्थम् आगतेभ्यः दातुम् एते संगृहीताः आसन्। परन्तु सूर्योदयात् पूर्वं शिवः नागतः।तस्मात् विवाहः स्थगितः। हरिद्राकुङ्कुमकस्तूरीकाः पुलिनराशिरूपेण अद्यापि अत्रैव सन्ति इति लोककथा अस्ति।
[सम्पादयतु] ऐतिहासिकप्राशस्त्यम्
कन्याकुमार्याः अनतिदूरे सागरे कश्चन प्रस्तरशैलः अस्ति। वीरसंन्यासी विवेकानन्दः समुद्रं तीर्त्वा अत्र आगतवान्।अस्मिन्नेव स्थाने दिनत्रयं यावत् उपविष्य ध्यानम् अकरोत् ।सः तत्र भारतमातुः साक्षात्कारं प्राप्तवान् ।तत्कालीनभारतदुर्दशां स्मरन् गुरोः रामकृष्णस्य प्रेरणया भरतजनमानसं स्वाभिमानयुतं कर्तुम् अत्रैव निश्चयम् अकरोत्।तदनन्तरमेव विश्वपर्यटनं कृत्वा भारतस्य अमरसन्देशं जगति प्रसारितवान्।एतस्याः घटनायाः स्मरणार्थं श्रीमतः विवेकानन्दस्य जन्मशताब्दम् अभिलक्ष्य तस्मिन् एव स्थाने तस्य पञ्चलोहप्रतिमा स्थापिता वर्तते।
[सम्पादयतु] वैज्ञानिकप्राशस्त्यम्
सागरविज्ञानिनः विशेषाध्ययनार्थम् अत्र आगच्छन्ति।अत्रत्यसागरगर्भे जीववैविध्यानि बहूनि सन्ति। जीवविज्ञानछात्राः सस्य-प्राणि-शुक्तिसङ्ग्रहार्थम् अत्र अटन्ति। कन्याकुमारीक्षेत्रे गान्धिमन्दिरम् अपि वर्तते। गान्धिजयन्तीदिने सूर्यस्य प्रथमकिरणानि अत्र पतन्ति।