कन्याकुमारी
| कन्याकुमारी | |||
|---|---|---|---|
| — नगरम् — | |||
| विवेकानन्दस्मारकम् | |||
| Coordinates: 8°04′41″N 77°32′28″E / 8.078°N 77.541°ECoordinates: 8°04′41″N 77°32′28″E / 8.078°N 77.541°E | |||
| देशः | भारतम् | ||
| राज्यम् | तमिळ्नाडु | ||
| मण्डलम् | कन्याकुमारी | ||
| Established | |||
| सर्वकारः | |||
| • District Collector | Thiru. S. Nagarajan | ||
| विस्तीर्णम् | |||
| • Total | २५.८९ Square km (१० Square mile) | ||
| औन्नत्यम् |
|
||
| जनसङ्ख्या (2012) | |||
| • Total | २९,७६१ | ||
| भाषाः | |||
| • अधिकृताः | Tamil | ||
| IST (UTC+5:30) | |||
| पिन् | 629 xxx | ||
| Telephone code | 914652 | ||
| वाहनपञ्जीकरणम् | TN 74 & TN 75 | ||
| जालस्थानम् | www.kanyakumari.tn.nic.in | ||
निबन्धोऽयं कन्याकुमारीक्षेत्रस्य विषये लिखित: अस्ति । कन्याकुमारीशक्तिपीठविषये कन्याकुमारी (कन्याश्रमः) इति एतत् पश्यतु ।कन्याकुमारी भारतस्य दक्षिणाभूशिरसि समुद्रतीरे स्थितं प्रसिद्धं यात्रास्थलम् अस्ति। एतत् नगरं तमिलनाडुराज्ये अस्ति। प्रकृति-धर्म-संस्कृतिभिरपि एतत् प्रसिद्धम्। एतत् श्रद्धालूनां पुण्यक्षेत्रं, प्रकृतिप्रियाणां रम्यस्थानं, विहारिणां मनोहारि धाम, जीवसागरविज्ञानीनां प्रयोगालयः च अस्ति ।
भारतदेशः एशियाखण्डस्य कश्चन भागः पर्यायद्वीपः च अस्ति । एतत् क्षेत्रं बङ्गालोपसागर-हिन्दुमहार्णव-अरब्बिसमुद्राणां सङ्गमस्थानम्।कन्याकुमारीक्षेत्रं पश्चिमाद्रिभागस्य एलापर्वतस्य दक्षिणभागे वर्तते।प्रवासिभिः अत्रैव स्थित्वा सूर्योदयस्य सूर्यास्तस्य च द्वयोः अपि रमणीयता द्रष्टुं शक्या। अत्रत्यसागरतटेषु सिकताराशयः मुक्तामणयः इव चकासन्ते। धृतदेहा प्रकृतिमाता इव कन्याकुमारी सदा सुशोभिता अस्ति। अत्र कन्याकुमार्याः देव्याः सुन्दरं मन्दिरम् अपि अस्ति । प्रतिवर्षं कन्याकुमारीक्षेत्रं प्रति बहवः यात्रिकाः आगच्छन्ति ।
अन्तर्विषयाः |
पौरणिकप्राशस्त्यम् [सम्पादयतु]
कन्याकुमारीक्षेत्रं पुराणप्रसिद्धम् अपि अस्ति। पुरा बाणासुरो नामकः राक्षसः ईश्वरानुग्रहार्थं तपस्तेपे।वरं च अवाप। 'कन्यां विना तस्य मृत्युः एव न स्यात्' इति। सः स्वशक्तेः दुरुपयोगं चकार।तदा देवाः यज्ञमेकम् अन्वतिष्ठन् ।तत्फलरूपेण शक्तिदेवताकुमारीरूपेण भुवि अवततार।बाणासुरह् तस्याम् अनुरक्तः।किन्तु लोककण्टकं तं सा देवी जघान।देव्याः कन्याकुमार्याः विषये एषा पुराणकथा प्रथिता अस्ति। कन्याकुमारीमन्दिरं सुविशालं सुन्दरं कलापूर्णं च वर्तते। द्वारात् गर्भगृहपर्यन्तं मार्गम् उभयतः शिवम् अन्विष्यन्त्यः इव दीपं करेषु धृत्वा दीपशिलाबालाः तिष्ठन्ति। गर्भगृहे कन्याकुमार्याः विग्रहः शोभते। तस्याः हस्ते पुष्पमाला शोभते। शिवं वरयितुं प्रतीक्षमाणा इव भासते। अत्रत्यसागरतटेषु वालुकाः पीत-रक्त-कृष्णवर्णीयाः सन्ति।भावुकाः ताह् वालुकाः हरिद्राकुङ्कुमकस्तूरीत्वेन भावयन्ति। विवाहार्थम् आगतेभ्यः दातुम् एते संगृहीताः आसन्। परन्तु सूर्योदयात् पूर्वं शिवः नागतः।तस्मात् विवाहः स्थगितः। हरिद्राकुङ्कुमकस्तूरीकाः पुलिनराशिरूपेण अद्यापि अत्रैव सन्ति इति लोककथा अस्ति।
ऐतिहासिकप्राशस्त्यम् [सम्पादयतु]
कन्याकुमार्याः अनतिदूरे सागरे कश्चन प्रस्तरशैलः अस्ति। वीरसंन्यासी विवेकानन्दः समुद्रं तीर्त्वा अत्र आगतवान्।अस्मिन्नेव स्थाने दिनत्रयं यावत् उपविष्य ध्यानम् अकरोत् ।सः तत्र भारतमातुः साक्षात्कारं प्राप्तवान् ।तत्कालीनभारतदुर्दशां स्मरन् गुरोः रामकृष्णस्य प्रेरणया भरतजनमानसं स्वाभिमानयुतं कर्तुम् अत्रैव निश्चयम् अकरोत्।तदनन्तरमेव विश्वपर्यटनं कृत्वा भारतस्य अमरसन्देशं जगति प्रसारितवान्।एतस्याः घटनायाः स्मरणार्थं श्रीमतः विवेकानन्दस्य जन्मशताब्दम् अभिलक्ष्य तस्मिन् एव स्थाने तस्य पञ्चलोहप्रतिमा स्थापिता वर्तते।
वैज्ञानिकप्राशस्त्यम् [सम्पादयतु]
सागरविज्ञानिनः विशेषाध्ययनार्थम् अत्र आगच्छन्ति।अत्रत्यसागरगर्भे जीववैविध्यानि बहूनि सन्ति। जीवविज्ञानछात्राः सस्य-प्राणि-शुक्तिसङ्ग्रहार्थम् अत्र अटन्ति। कन्याकुमारीक्षेत्रे गान्धिमन्दिरम् अपि वर्तते। गान्धिजयन्तीदिने सूर्यस्य प्रथमकिरणानि अत्र पतन्ति।
प्रकृतिप्रियाणां स्वर्गः [सम्पादयतु]
अस्मिन् क्षेत्रे प्रातःकाले सूर्योदयदर्शनं सायङ्काले च सूर्यास्तदर्शनमपि च शक्यम् अस्ति । पूर्णिमायाः दिने सूर्यास्तचन्द्रोदययोः दर्शनं भवति । तथैव परेद्यवि चन्द्रास्तम् सूर्योदयं च द्रष्टुं बहवः जनाः आगच्छन्ति । एतदपूर्वं दृश्यवैभवम् अत्रैव द्र्ष्टुं शक्यते । सागरतीरे अत्र कृष्णश्वेतरक्तवर्णवालुकाः अपि द्रष्टुम् शक्यन्ते ।
गान्धिस्मारकम् [सम्पादयतु]
कन्याकुमारी क्षेत्रे गान्धिस्मारकभवनम् अस्ति । क्रिस्ताब्दे १२-२-१९९४ तमे दिने महात्मनः गान्धिनः अस्थिसञ्चयनात्पूर्वं भस्मपात्रं वेदिकायां स्थापितमासीत् । इदानीम् अस्मिन् प्रदेशे सर्वकारेणैकं स्मारकं निर्मितम् अस्ति । क्रिस्ताब्दे १९९६ तमे वर्षे विशेषमण्डपस्य निर्माणं पूर्णम् अभवत् । अस्य पुरतः चत्वारि गोपुराणि सन्ति । मध्ये अन्नतं गोपुरं च निर्मितम् अस्ति । मण्डपे गान्धिमहोदयस्य मूर्तिः प्रतिष्ठापिता अस्ति । विशेषतः गान्धिमहोदयस्य जन्मदिने तन्नाम अक्टोबरद्वितीये दिने मध्याह्ने द्वादशवादने मण्डपस्य रन्ध्रद्वारा उपरिष्टात् सूर्यकिरणाः गान्धिविग्रहं स्पृशन्ति । एतद् अद्भुतं दृश्यं द्रष्टुम् अनेके जनाः अत्र आगच्छन्ति ।
स्वामिविवेकानन्दराक् मेमोरियल् [सम्पादयतु]
कन्याकुमारीक्षेत्रे दर्शनीयं स्थानमेतत् । ६५६ पादपरिमितोन्नते शिलापर्वते सुन्दरः मण्डपः निर्मितः अस्ति । मण्डपे स्वामिविवेकानन्दस्य कांस्यविग्रहः स्थापितः अस्ति । मूर्तिः ८.५पादपरिमितोन्नता अस्ति। ४.५ पादपरिमितोन्नतायां वेदिकायम् स्थापिता अस्ति । प्रधानं गोपुरं ६० पादपरिमितोन्नतम् अस्ति । एतत् गोपुरं कोलकातानगरे स्थितम् बेलूरुमठगोपुरमिवास्ति । मुख्यद्वारे अजन्ता-एल्लोरासदृशानि शिल्पानि सन्ति । बहुसुन्दरतया एतत् स्मारकं निर्मितम् अस्ति । सन्यासिनः स्वामिविवेकानन्दस्य स्थितभङ्ग्यां विद्यमाना प्रतिमा भव्या सुन्दरी च अस्ति । स्वामी विवेकानन्दः हिमालयात् पादचारणेन भारतस्य तीर्थक्षेत्राणां दर्शनं कुर्वन् कन्याकुमारीक्षेत्रम् आगतवान् । सागरे तरणं कृत्वा सागरे विद्यमाने कस्मिश्चित् प्रस्तरे ध्यानासक्तः आसीत् । तत्रैव तेन दिव्यज्ञानं प्राप्तम् आसीत् । इदानीम् एतत् ध्यानशिलामण्डपम् इति विख्यातम् अस्ति । प्रतिदिनम् अत्र बहवः जनाः आगच्छन्ति । भूशिरसि अस्मिन् दिव्यं भव्यं च प्रकृतिवैभवं दृष्टुं शक्यम् अस्ति ।
भूमार्गः [सम्पादयतु]
देशस्य सर्वेभ्यः भागेभ्यः सम्पर्कव्यवस्था अस्ति । मधुरैतः २५३ कि.मी । चेन्नैतः ६७९ कि.मी । तिरुवनन्तपुरं रामेश्वरम् इत्यादिनगरैः लोकयानानि सन्ति । धूमशकटसम्पर्कः अस्ति । मधुरैनगरतः एकदिनप्रवासव्यवस्था अस्ति ।