कन्याकुमारी (कन्याश्रमः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कन्याकुमारी (कन्याश्रमः)
कन्याकुमारी रेखाचित्रम्
कन्याकुमारी रेखाचित्रम्

एतत् पीठं भारतस्य तमिळ्नाडु राज्ये कन्याकुमारी (कन्याश्रमः) नगरे अस्ति। भारतस्य अत्यन्तं दक्षिनकोणे हिन्दुमहासागरस्य अरब्बिसमुद्रस्य सङ्गमस्थाने अस्ति ।

सम्पर्कः[सम्पादयतु]

देशस्य सर्वेभ्यः भागेभ्यः रेलयानस्य सौकर्यम् अस्ति । तमिळ्नाडुराज्यस्य प्रमुखनगरेभ्यः बस् यानानि अपि सन्ति ।

वैशिष्ट्यम्[सम्पादयतु]

अत्रत्या देवी कन्याकुमारी नाम्ना पूज्यते । अत्र देव्याः पृष्ठभागः पतितः आसीत् इति प्रतीतिः अस्ति । पूर्वं पार्वती शिवम् उद्दिश्य अत्र तपः आचरितवती। कन्याकुमारी इति नाम प्राप्तवती ।बाणासुरनामकं राक्षसं देवी अत्रैव मारितवती इति ऐतिह्यम् अस्ति । अत्रत्याम् पुष्करिण्यां स्नानं कृत्वा देव्याः दर्शनं कृतं चेत् सकलानि पापानि परिहृतानि भवन्ति इति भक्तानां विश्वासः। स्वामी विवेकानन्दः अत्रत्यम् सागरं तीर्त्वा समुद्रमध्यस्थां शिलाम् आरुह्य तत्र ध्यानस्थः अभवत् इति कथां वयं जानीमः एव । ततः एतत् स्थानं प्रसिद्धम् अभवत् । अत्रत्यां देवीं शर्वाणी इति शिवं निमिषः इति पूजयन्ति । एतस्य स्थानस्य कन्याश्रमः इत्यपि नाम प्रसिद्धम् अस्ति ।