कबीरदासः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(कबीरः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

सिखमतम्
विषयेऽस्मिन् एकस्याः श्रेण्याः भागः

ॐ
सिखमतस्य गुरवः एवं भक्ताः
सद्गुरुः नानक देव · सद्गुरुः अङ्गद देव
सद्गुरुः अमर दास  · सद्गुरुः राम दास ·
सद्गुरुः अर्जन देव  ·सद्गुरुः हरि गोविन्द  ·
सद्गुरुः हरि राय  · सद्गुरुः हरि कृष्ण
सद्गुरुः तेग बहादुर  · सद्गुरुः गोबिन्द सिंह
भक्तः कबीर  · शेख फरीद
भक्तः नामदेव
धर्मग्रन्थाः
आदि ग्रन्थ साहिब · दशमग्रन्थः
सम्बन्धितविषयाः
गुरद्वारा · चण्डी ·अमृतम्
लङ्गर · खालसा पन्थ


कबीरदासः भक्तेन सह

सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदासमहोदयः सर्वधर्मसमताम् उपदिष्टवान् उत्तरभारते साधुभिः सह वसन् समाजपरिवर्तनकार्यम् अपि कृतवान् । एतस्य जयन्त्युत्सवं ज्योष्ठमासस्य पूर्णिमादिने आचरन्ति । मानवजीवनाय कबीरदासमहोदयस्य उपदेशाः मार्गदर्शकाः सन्ति ।'आल्-कबीर्' (महात्मा) इत्येतत् इस्लाममते देवस्य ९९ नामसु अन्यतमम् । इदमस्ति देवस्य ३७ तमं नाम । कबीरः (हिन्दी: कबीर, पञ्जाबी: ਕਬੀਰ, उर्दु: کبير‎) (१४४०-१५१८) कश्चन अध्यात्मकविः भारतीयऋषिः च । एतस्य साहित्येन भक्तिमार्गः समृद्धः जातः । सिक्खमतस्य उपरि तदीयः प्रभावः महान् । अद्यत्वे कश्चन धार्मिकगणः कबीरं संस्थापकं मन्यन्तः तस्य तत्त्वानि अनुसरन्ति 'कबीरमार्गः' इति प्रसिद्धः वर्तते । तेषां सङ्ख्या अस्ति ९,६००,००० । ते अधिकतया उत्तर-मध्यभारते च विस्तृताः । जगति विविधेषु भागेषु अपि विद्यन्ते । बिजक्, सखिग्रन्थ्, कवीर्-ग्रन्थावली, अनुरागसागरश्च तेन लिखितेषु ग्रन्थेषु अन्यतमानि ।

बाल्यजीवनं पृष्ठभूमिका च[सम्पादयतु]

कबीरदासस्य जन्म वाराणसीनगरे एकस्मिन् ब्राह्मणपरिवारेऽभवत् । किन्तु सः बाल्यात् मुस्लिमपरिवारे पालितः अभवत् । क्रिस्तशके १४०० वर्षे समये हिन्दुविधवायां जातः परिवारेण त्यक्तः नीरु महम्मदीयेन तन्तुवायेन पालितः । बाल्ये कबीरः अपि वस्त्रनिर्माणं ज्ञातवान् । काचित् कथा श्रूयते यत् वर्षस्य कस्मिंश्चित् विशिष्टदिने यः कोपि गुरोः शिष्यः भवितुम् अर्हति यदि गुरुः तमुद्दिश्य देवस्य नाम कथयेत् । गङ्गातीरनिवासिनः सर्वे स्नानार्थं गङ्गानदीं गच्छन्ति इत्येतत् न कोऽपि विशेषः । महात्मा रामानन्दः अपि ब्राह्मीमुहूर्ते गङ्गास्नानाय गच्छति स्म प्रतिदिनम् । तस्मिन् विशिष्टे दिने अपि, सः प्रातः एव उत्थाय गङ्गानद्याः सोपानानि अवतरन् आसीत् । तावता कश्चन लघुहस्तः अग्रे प्रसृतः, महात्मनः अङ्गुष्ठम् अगृह्णात् च । आश्चर्यान्वितः रामानन्दः अप्रयत्नेन एव देवस्य नाम उदचारयत् । अधः दृष्टवता तेन बालः कबीरः दृष्टः । बालस्य लघुहस्ते अराबिक्-भाषया 'कबीरः' इति लिखितं तेन अवलोकितम् । सः कबीरं पुत्रं शिष्यं च भावयन् स्वस्य आश्रमं प्रति अनयत् । एषः नीतः इत्यनेन बहवः हिन्दुशिष्याः असन्तुष्टाः, केचन आश्रमं परित्यज्य गताः च ।

हिन्दुमुस्लिंधर्मयोः धर्मतत्वानि ज्ञात्वा कबीरः साधुभिः सदा आध्यात्मिकधार्मिकचर्चां करोति स्म । कबीरस्य पत्न्याः नाम लोई इत्यासीत् । जीवननिर्वहणार्थं तन्तुवायवृत्तिमेव कबीरदासः आश्रितवान् । कबीरदासः सद्भिः साकमेव व्यवहारज्ञानम् आध्यात्मिकज्ञानं च प्राप्तवान् । स्वमिरामानन्दात् सन्यासदीक्षां स्वीकृत्य कवितारचनासु च प्रतिभां प्रदर्शितवान् । प्रथमं निर्गुणोपासकः कबीरदासः अनन्तरं रामभक्तः अभवन् । रामरहीमयोः नाम भेदेऽपि देवः एकः एव इत्युक्तवान् ।

दोहा इति द्विपादात्मकेषु काव्येषु अति सुन्दरतया व्यवहारज्ञानं नीतिमुक्तवान् । गुरोः स्थानम् अतीवमहत्त्वपूर्णमस्ति । गुरुः भगवान् एकदैव पुरतः आगच्छन्ति चेत् अहं गुरुमेव प्रथमं पूजयामि यतः गुरुः एव भगवन्तमपि दर्शितवान् इति कबीरदासः उक्तवान् ।

कबीर ज्ञान मन्दिरः

'साई इतना दीणि ए. जा मे कुटुम्ब समाय । मै भी भूखा न रहूं साधुभी भूखा न जाय' एवम् अधिकं धनं कबीरदासस्य अस्ति । तस्य उपदेशेषु सुविचाराः अन्धविश्वासनिरासः मार्गदर्शनव्यवहाराः सम्यक् निरुपिताः सन्ति । (‘स्वामी एतावद् ददाति येन मम कुटुम्बं सम्भाल्यते । अहमपि न बुभुक्षितोऽस्मि साधवोऽपि न बुभुक्षिताः स्युः’॥)भक्तिः, ज्ञानं, गुरुपूजा, संसारत्यागः, कर्तव्यनिर्वहणादिविषये अनेकानि सुन्दराणि पद्यानि अपि कबीरदासः रचितवान् । कहत कबीर सुनो भाई साधो एतत् वाक्यं कबीरदासस्य पद्येषु भवति ।

कबीरदासस्य जातिविचाराः उच्चनीयभावनिरासः सम्प्रदायविरोधिभावनाः जनेभ्यः इष्टाः न आसन् । कबीरदासः भक्तिनटनां कटुशब्दैः निन्दितवान् । स्वीये वृध्दाप्ये कबीरदासः गोरखपुरे वासं कृतवान् । तत्रैव क्रिस्तशके १५०८ तमे वर्षे दिवङ्गतः । भारतदेशे कबीरदासजयन्ती महोत्सवं जूनमासे आचरन्ति ।

अत्रापि अवलोक्यताम्[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कबीरदासः&oldid=278233" इत्यस्माद् पुनः प्राप्तिः