कमला सोहोनी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कमला सोहोनी
जननम् १९१२
मरणम् १९९८
देशीयता भारतीया
कार्यक्षेत्राणि जीवरसायनशास्त्रम्
मातृसंस्थाः मुम्बई विश्वविद्यालय: , मुम्बई
पतिः/पत्नी एम् वि सोहोनी
धर्मः हिन्दु


कमला सोहोनी(१९१२-१९९८) भारतीया जीवरसायज्ञा आसीत्। एषा प्रथमा महिला आसीत् या विज्ञानविषये विद्यावारिधिं (PhD) प्राप्तवती ।[१][२]

प्रारम्भिकं जीवनम्[सम्पादयतु]

कमला सोहोनी १०१२ तमे वर्षे अजायत । तस्याः पिता नारायणराव् भागवत् कश्चन रसायनतज्ञः । कमला बाम्बे-विश्वविद्यालयतः भौतशास्त्रे रसायनशास्त्रे च अध्ययनं कृत्वा विज्ञानविषये पदवीं प्राप्तवती । भारतीयविज्ञानमन्दिरे संशोधनच्छात्रत्वेन स्वीकरणाय आवेदनं तया कृतम् । किन्तु तदनीन्तनेन निर्देशकेन सि वि रामनवर्येण तस्याः आवेदनं तिरस्कृतं यतः महिलाः संशोधनसमर्थाः न इति धिया । अनुरोधेन तया विज्ञानमन्दिरे अनुमतिः प्राप्ता किन्तु प्रथमवर्षस्य कार्यं परिशील्य ततः पूर्णतया अङ्गीक्रियते इति सूचितम् । [३]


वृत्तिजीवनं संशोधनञ्च[सम्पादयतु]

सि वि रामनवर्यस्य नियमान् अङ्गीकृत्य १९३३ तमे वर्षे कमला भारतीयविज्ञानमन्दिरं प्राविशत् । तस्याः मार्गदर्शकः आसीत् श्री श्रीनिवासय्यः । तस्याः कार्येण सन्तुष्टः सि वि रामनः अग्रिमसंशोधनाय अनुमतिम् अयच्छत् । सा आहारेषु विद्यमानानां प्रोटीन्-अंशानां विषये संशोधनम् अकरोत् येन तया विज्ञानविषये स्नातकोत्तरपदवी प्राप्ता । आहारे विद्यमानानां प्रोटीन्-अंशानां विषये तया संशोधनं कृतं येन जैविकरसायनशास्त्रे स्नातकोत्तरपदवी प्राप्ता । केम्ब्रिड्ज्-विश्वविद्यालये डा डेरिक् रिचर् वर्यस्य साहायिकारूपेण कार्यकरणाय तया आह्वानं प्राप्तम् । सा जैविकरसायनज्ञेन डा रोबिन् हिल् वर्येण सह कार्यं कृतवती, सेल्युलर् एन्जैम् सैटोक्रोम् विषये संशोधनम् अकरोत् । [४] संशोधनाय केम्ब्रिड्ज्-विश्वविद्यालयतः विद्यावारिधिः तया प्राप्ता ।

कमला १९३९ तमे वर्षे भारतं प्रत्यागतवती । सा नवदेहल्याः लेडी हार्डिङ्ग् मेडिकल् महाविद्यालये जैविकरसायनशास्त्रविभागे प्राध्यापिकारूपेण नियुक्ता जाता । सा कूनूर् न्यूट्रिशन् संशोधनप्रयोगालये कार्यम् अकरोत् । [४] एम् वि सोहनिवर्यं वृतवती एषा १९४७ तमे वर्षे मुम्बयीं गतवती । सा बाम्बेनगरस्य रायल् इन्स्टिट्यूट् आफ् सैन्स् महाविद्यालयस्य जैविकरसायनशास्त्रविभागे प्राध्यापिकारूपेण नियुक्ता जाता । अपुष्टबालानां कृते तया 'नीरा' नामकं पानीयं निर्मितम् । अयमेकः उत्तमः पौष्टिकाहारः विद्यते । अस्य कार्याय तया राष्ट्रपतिप्रशस्तिः प्राप्ता । [४] बेङ्गलूरुनगरे विद्यमानस्य भारतीयविज्ञानमन्दिरस्य निर्देशिकारूपेण अपि इयं कार्यम् अकरोत् ।

नवदेहल्यां भारतीयवैद्यकीयसंशोधनमण्डल्या आयोजिते सम्मानकार्यक्रमे भागं गृहीतवती कमला सोहानी तदनन्तरम् अचिरादेव अस्वस्था सती मरणं प्राप्नोत् ।

आकारः[सम्पादयतु]

  1. Gupta, Aravind. "Kamala Sohonie". Indian National Science Academy. आह्रियत 19 October 2012. 
  2. "The Glass Ceiling: The why and therefore". Vigyansagar. Government of India. आह्रियत 19 October 2012. 
  3. "Kamala Sohonie". Streeshakti. आह्रियत 19 October 2012. 
  4. ४.० ४.१ ४.२ Dhuru, Vasumathi. "The scientist lady". Indian Association of Scientists. आह्रियत 19 October 2012. 
"https://sa.wikipedia.org/w/index.php?title=कमला_सोहोनी&oldid=292309" इत्यस्माद् प्रतिप्राप्तम्