कर्णाटकस्य जलबन्धाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कश्चित् जलबन्धः

पीठिका[सम्पादयतु]

जीवनं जीवनाधारम् इति उक्तिः प्रसिद्धा एव । जलस्य सलिलम्, उदकम्, वारि, नीरम्, जीवनम् इति पर्यायपदानि सन्ति । जलेन विना पशुपक्षिवृक्षमानवानां जीवनं न शक्यते । अतः जलम् जीवनस्य मूलम् आधारः एव । वेणी,उत्पालिका, पालिः, रोधना,पङ्कारः इत्यादीनि जलबन्धस्य अन्य नामानि । जलस्य मूलं तु पर्वताः एव । पर्वतस्य कन्दरेषु नर्झरी उद्भूय प्रवहति । मार्गे विविधाः आपगाः सङ्गम्य नदीरुपमवाप्नोति । एषा एव जीविनां जीवनस्य अधारा भवति । जलस्य कूपादयः अन्यान्यमूलाः भवन्ति चेदपि नद्यः एव प्राधान्येनावलम्बिताः मानवैः । सागरे सङ्गन्तुं प्रधाववन्त्यः नद्यः मध्यमार्गम् महाबन्धं निर्मीय अवरुध्य च विवधोद्देशार्थं जलं सङ्गृह्णन्ति । अस्य एव जलबन्धः इति नाम । जलबन्धात् एव कुल्याभिः विद्युदुत्पादनार्थं कृष्यर्थं पानार्थं वा जलं नीयते ।


"https://sa.wikipedia.org/w/index.php?title=कर्णाटकस्य_जलबन्धाः&oldid=465637" इत्यस्माद् प्रतिप्राप्तम्