कर्णाटकराज्यस्य मुख्यमन्त्रिणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कर्णाटकस्य मुख्यमन्त्रिणः इत्यस्मात् पुनर्निर्दिष्टम्)

फलकम्:Infobox political post एशियाखण्डे उपशोभितस्य भारतदेशस्य २८राज्येषु कर्णाटकम् अन्यतमम् अस्ति । अस्य आधुनिककर्णाटकस्य स्थापना १९५६ तम वर्षस्य नवम्बर् मासस्य प्रथमे दिनाङ्के अभवत् । अस्य पूर्वतनं नाम मैसूरुराज्यम् इति । क्रि.श. १५३७ तमे वर्षे केम्पेगौडमहाराजेन बेङ्गलुरुनगरं निर्मितमस्ति । तदेव इदानीमपि अस्य राज्यस्य राजधानीति तिष्ठति ।

वैशिष्ट्यम्[सम्पादयतु]

कर्णाटकं भारतस्य दक्षिणभागे स्थितं किञ्चन राज्यम् अस्ति । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । एतत् प्रथमं राज्यं यत्र ८ ग्रन्थकर्तारः ज्ञानपीठप्रशस्तिभूषिताः सन्ति । कर्णाटकस्य राजधानी बेङ्गलुरु अस्ति। एतत् कर्णाटकस्य आग्नेयभागे विराजते ।

प्रशासनम्[सम्पादयतु]

कर्णाटकराज्यस्य प्रशासनं तु सांविधानिकरीत्या राज्यपालस्य नायकत्वे सञ्चाल्यमानं लोकतन्त्रात्मकरीत्या निर्वाचितम् अस्ति । राज्यस्य राज्यपालः बहुमतेन जितपक्षस्य मुख्यमन्त्रिणं मन्त्रिमण्डलं च रचयन्ति । प्रजातन्त्रात्मकदेशे राज्यस्य राज्यपालः तत्तद्राज्यस्य साम्प्रदानिकः नायकः भवति । तथापि राज्यस्य दैनन्दिननिर्वहणस्य दायित्वं तु मुख्यमन्त्रिणा नियन्त्रिते मन्त्रिमण्डले एव न्यस्तं भवति । प्रशासनस्य अनुकूलार्थं विविधयोजनानां जनसौलभ्यार्थं च राज्यसर्वकारस्य छत्रछायायां विविधाः विभागाः प्रकल्पिताः

मुख्यमन्त्रिणाम् आवलिः[सम्पादयतु]

सूची INC
कांग्रेस्
JP
जनतापक्षः
JD
जनतादलम्
JD(S)
जनतादलम्(जा))
BJP
भारतीयजनतापक्षः
क्रमसङ्ख्या नाम अवधेः आरम्भः अवधेः समाप्तिः राजकीयपक्षः
क्यासम्बळ्ळी चेङ्गलरायरेड्डी १९४७तमवर्षस्य अक्टोबरमासस्य२५ तः १९५२तमवर्षस्य मार्चमासस्य ३० पर्यन्तम् कांग्रेस्
केङ्गल् हनुमन्तरायः १९५२तमवर्षस्य मार्चमासस्य ३१तः १९५६ तमवर्षस्य आगष्टमासस्य १९ पर्यन्तम् कांग्रेस्
कडिदाळ् मञ्जप्पः १९५६ तमवर्षस्य आगष्टमासस्य २०तः १९५६तमवर्षस्य अक्टोबर् मासस्य ३१ पर्यन्तम् कांग्रेस्
एस् . निजलिङ्गप्पः १९५६तमवर्षस्य नवम्बरमासस्य १ दिनाङ्कतः १९५८तमवर्षस्य मे मासस्य १६ पर्यन्तम् कांग्रेस्
बसप्पदानप्पजत्तिः १९५८तमवर्षस्य मे मासस्य १७ तः १९६२तमवर्षस्य मार्चमासस्य ९ पर्यन्तम् कांग्रेस्
एस्.आर्.कण्ठी १९६२तमवर्षस्य मार्चमासस्य १४तः १९६२तमवर्षस्य जूनमासस्य २० पर्यन्तम् कांग्रेस्
एस्.निजलिङप्पः १९६२तमवर्षस्य जूनमासस्य २१तः १९६८तमवर्षस्य मेमासस्य २९पर्यन्तम् कांग्रेस्
वीरेन्द्र पाटीलः १९६८तमवर्षस्य मेमासस्य ३०तः १९७१तमवर्षस्य मार्चमासस्य १८ पर्यन्तम् कांग्रेस्
राष्ट्रपतिशासनम् १९७१तमवर्षस्य मार्चमासस्य १९तः १९७२तमवर्षस्य मार्चमासस्य २० पर्यन्तम्
डी . देवराज अरसः १९७२तमवर्षस्य मार्चमासस्य २० तः १९७७तमवर्षस्य डिसेम्बरमासस्य ३१ पर्यन्तम् कांग्रेस्
राष्ट्रपतिशासनम् १९७७ तमवर्षस्य डिसेम्बरमासस्य ३१तः १९७८तमवर्षस्य फेब्रुवरीमासस्य २८पर्यन्तम्
डी . देवराज अरसः १९७८तमवर्षस्य फेब्रुवरीमासस्य २८तः १९८०तमवर्षस्य जनवरीमासस्य ७ पर्यन्तम् कांग्रेस्
आर् . गुण्डूरावः १९८०तमवर्षस्य जनवरीमासस्य १२तः १९८३तमवर्षस्य जनवरी ६ पर्यन्तम् कांग्रेस्
१० रामकृष्ण हेगडे १९८५तमवर्षस्य मार्चमासस्य ८ तः १९८६तमवर्षस्य फेब्रुवरीमासस्य १३पर्यन्तम् जनतापक्षः
रामकृष्ण हेगडे १९८५तमवर्षस्य मार्च ८ तः १९८६तमवर्षस्य फेब्रुवरी १३ पर्यन्तम् जनतापक्षः
रामकृष्ण हेगडे १९८६तमवर्षस्य फेब्रुवरीमासस्य १६तः १९८८तमवर्षस्य आगष्टमासस्य १०पर्यन्तम् जनतापक्षः
११ एस्. आर्. बोम्मायी १९८८तमवर्षस्य आगष्टमासस्य १३तः १९८९तमवर्षस्य एप्रिलमासस्य २१ पर्यन्तम् जनतापक्षः
राष्ट्रपतिशासनम् १९८९तमवर्षस्य एप्रिलमासस्य २१तः १९८९ तमवर्षस्य नवम्बरमासस्य ३० पर्यन्तम्
वीरेन्द्र पाटीलः १९८९तमवर्षस्य नवम्बरमासस्य ३०तः १९९०तमवर्षस्य अक्टोबर् मासस्य १० पर्यन्तम् कांग्रेस्
१२ एस्. बङ्गारप्पः १९९०तमवर्षस्य अक्टोबरमासस्य १७तः १९९२तमवर्षस्य नवम्बर् मासस्य १९ पर्यन्तम् कांग्रेस्
१३ एम्.वीरप्पमोयिली १९९२तमवर्षस्य नवम्बर् मासस्य २०तः १९९४तमवर्षस्य डिसेम्बरमासस्य ११पर्यन्तम् कांग्रेस्
१४ एच्. डी. देवेगौडः १९९४तमवर्षस्य डिसेम्बरमासस्य ११तः १९९६तमवर्षस्य मेमासस्य ३१पर्यन्तम् जनतादलम्
१५ जे. एच्. पटेलः १९९६तमवर्षस्य मेमासस्य ३१तः १९९९तमवर्षस्य अक्टोबर् मासस्य ७पर्यन्तम् जनतादलम्
१६ एस्. एम्. कृष्णः १९९९तमवर्षस्य अक्टोबर् मासस्य११तः २००४तमवर्षस्य मेमासस्य २८ पर्यन्तम् कांग्रेस्
१७ धरमसिङ्गः २००४तमवर्षस्य मेमासस्य २८तः २००६तमवर्षस्य जनवरीमासस्य २८पर्यन्तम् कांग्रेस्
१८ एच्. डी. कुमारस्वामी २००६तमवर्षस्य फेब्रुवरीमासस्य ३तः २००७तमवर्षस्य अक्टोबरमासस्य ८ पर्यन्तम् जनतादलम्(जा)
राष्ट्रपतिशासनम् २००७तमवर्षस्य अक्टोबरमासस्य ९तः २००७ तमवर्षस्य नवम्बर् मासस्य ११पर्यन्तम्
१९ बि.एस्.यडियूरप्पः २००७तमवर्षस्य नवम्बर् मासस्य १२तः २००७तमवर्षस्य नवम्बर् मासस्य १९पर्यन्तम् भारतीयजनतापक्षः
राष्ट्रपतिशासनम् २००७तमवर्षस्य नवम्बरमासस्य २०तः २००८ तमवर्षस्य मेमासस्य २९पर्यन्तम्
बि.एस्.यडियूरप्पः २००८तमवर्षस्य मेमासस्य ३०तः २०११तमवर्षस्य आगष्टमासस्य ३पर्यन्तम् भारतीयजनतापक्षः
२० डी. वी. सदानन्द गौडः २०११तमवर्षस्य आगष्ट ४दिनाङ्कतः २०१२ जुलै ११दिनाङ्कपर्यन्तम् भारतीयजनतापक्षः
२१ जगदीशशेट्टर् २०१२तमवर्षस्य जुलै १२दिनाङ्कतः अनुवर्तते। भारतीयजनतापक्षः

राष्ट्रपतिशासनम्[सम्पादयतु]

  • १९७१तमवर्षस्य मार्चमासस्य १९तः १९७२तमवर्षस्य मार्चमासस्य २० पर्यन्तम्
  • १९७७ तमवर्षस्य डिसेम्बरमासस्य ३१तः १९७८तमवर्षस्य फेब्रुवरीमासस्य २८पर्यन्तम्
  • १९८९तमवर्षस्य एप्रिलमासस्य २१तः १९८९ तमवर्षस्य नवम्बरमासस्य ३० पर्यन्तम्
  • २००७तमवर्षस्य अक्टोबरमासस्य ९तः२००७ तमवर्षस्य नवम्बर् मासस्य ११पर्यन्तम्
  • २००७तमवर्षस्य नवम्बरमासस्य २०तः २००८ तमवर्षस्य मेमासस्य २९पर्यन्तम्

विशेषावलोकनम्[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]