कर्नूलुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कर्नूल्
—  मण्डलम्  —
कर्नूल्
Location of कर्नूल्
in आन्ध्रप्रदेशराज्यम्
निर्देशाङ्काः

१५°५०′उत्तरदिक् ७८°०३′पूर्वदिक् / 15.83°उत्तरदिक् 78.05°पूर्वदिक् / १५.८३; ७८.०५

देशः भारतम्
राज्यम् आन्ध्रप्रदेशराज्यम्
केन्द्रप्रदेशः कर्नूलुनगरम्
व्यावहारिकभाषा(ः) तेलुगु भाषा, उर्दुभाषा
समयवलयः IST (UTC+05:30)

कर्नूलुमण्डलम् (Kurnool district) दक्षिणभारतदेशस्य आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम्। अस्य मण्डलस्य केन्द्रं कर्नूल् नगरम्।

इतिहासः[सम्पादयतु]

स्वातन्त्र्यात् पूर्वं यस्य प्रान्तस्य नाम कन्देनवोलू, कन्दनूलै इत्याख्यातं तदेव कर्नुलु सञ्जातम् । अयं प्रदेशः चोलाः चालक्याः काकतीयाः,. ढिल्लीसुल्तानजनाः, अरविटिवंशजाः, रेड्डिराजाः,विजयनगरराजाः, कर्नूलुनवाबजनाः, मराठीयाः अन्ते ब्रिटिष् पालकाश्च अपालयन् । १९५३ तमे वर्षे कर्नूलुनगरं राजधानीत्वेन आन्ध्रराष्ट्रम् आविर्भूतम् । गिद्दलूरु, मार्कापुरं, मण्डलानि १९७० तमे वर्षे प्रकाशमण्डले संयोजितानि ।

भौगोलिकम्[सम्पादयतु]

वन्यमृगसम्पदा, पावनतीर्थैः, बृहदरण्यैः च इदं मण्डलं विराजते । नल्लमल, एर्रमल इत्यादिपर्वतश्रेण्यः प्रकृतिशोभां वर्धयन्ति । १९.२% भूभागे अटवीप्रान्तं व्यापृतम् । मण्डलेस्मिन् नागपूर्,बेङ्गलूर् सप्तसंख्याख्यः राजमार्गः ९३ कि.मी. विस्तृतः वर्तते । गुन्तकल्, सिकिन्दराबाद्,हुब्लि,गुण्टूरु,मद्रास्,मुम्बई प्रदेशान् प्रति रेल्मार्गाः सन्ति । अस्य मण्डलस्य ,प्राक्दिशि प्रकाशं मण्डलं, पश्चिमायां कर्णाटकराज्यम्, उत्तरे महबूब् नगरमण्डलम्, दक्षिणे च अनन्तपुरम्,कडपा च सीमायां विराजन्ते ।

कृषिः वाणिज्यं च[सम्पादयतु]

सुधाशिला खनिजं ९०% अस्मिन् मण्डले एव विरलतया लभ्यते । अयसः धातुः ओकर्, श्वेतमृत्तिका इत्यादीनि अत्रैव उपलभ्यन्ते । एम्मिगनूरु वस्त्रपरिश्रमा, पाण्ये सुवर्णा सिमेण्ट् इत्यादि १४ बृहत् सिमेण्ट् कर्मागाराः वर्तन्ते । मण्डले ७०% भूम्यां सेद्यं क्रियते । व्रीहिः कलायः आढ्की इत्यादिसस्यानि उप्यन्ते । आम्रफलानि, भिण्डिः, पलाण्डुः इत्यादिशाखानां सेद्यं कृषकाः कुर्वन्ति । तुङ्गभद्रा, हगिरि, कुन्देरु, सिगिलेरु इत्याद्युपनदीभ्यः, हन्द्रीनदीद्वारा च जलं प्रेष्यते । श्रीशैले विद्यमानजलविद्युत्केन्द्रद्वारा विद्युदुत्पादनं क्रियते ।

वीक्षणीयस्थलानि[सम्पादयतु]

मन्त्रालयस्थितः राघवेन्द्रमठः, अहोबिलस्थः नरसिंहस्वामिदेवालयः, महानन्दिशिवालयः, श्रीशैलपुरस्य भ्रमराम्बा, मल्लिकार्जुनस्वामी देवालयः, बनगानपल्लिस्थः यागन्टि, सङ्गमेश्वरस्थः ईश्वरालयाश्च भक्तान् पारवश्यं नयन्ति ।

तालूकाः[सम्पादयतु]

वीथिका[सम्पादयतु]


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कर्नूलुमण्डलम्&oldid=398690" इत्यस्माद् प्रतिप्राप्तम्