कर्नूलुमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
కర్నూల్
—  मण्डलम्  —
కర్నూల్
Location of కర్నూల్
in आन्ध्रप्रदेशराज्यम्
निर्देशाङ्काः

15°50′N 78°03′E / 15.83°N 78.05°E / 15.83; 78.05

देशः भारतम्
राज्यम् आन्ध्रप्रदेशराज्यम्
केन्द्रप्रदेशानि कर्नूलुनगरम्
व्यावहारिकभाषा(ः) तेलुगु भाषा, उर्दुभाषा
समयवलयः IST (UTC+05:30)

अन्तर्विषयाः

इतिहासः [सम्पादयतु]

स्वातन्त्र्यात् पूर्वं यस्य प्रान्तस्य नाम कन्देनवोलू, कन्दनूलै इत्याख्यातं तदेव कर्नुलु सञ्जातम् । अयं प्रदेशः चोलाः चालक्याः काकतीयाः,. ढिल्लीसुल्तानजनाः, अरविटिवंशजाः, रेड्डिराजाः, विजयनगरराजाः, कर्नूलुनवाबजनाः, मराठीयाः अन्ते ब्रिटिषपालकाश्च अपालयन् । १९५३ तमे वर्षे कर्नूलुनगरं राजधानीत्वेन आन्ध्रराष्ट्रम् आविर्भूतम् । गिद्दलूरु, मार्कापुरम्, मण्डलानि १९७० तमे वर्षे प्रकाशमण्डले संयोजितानि ।

भौगोलिकम् [सम्पादयतु]

वन्यमृगसम्पदा, पावनतीर्थैः, बृहदरण्यैः च इदं मण्डलं विराजते \ नल्लमल, एर्रमल इत्यादिपर्वत- श्रेण्यः प्रकृतिशोभां वर्धयन्ति । १९.२% भूभागे अटवीप्रान्तं व्यापृतम् । मण्डलेस्मिन् तगपूर्- बेङ्गलूर् सप्तसंख्याख्यः राजमार्गः ९३ कि.मी. विस्तृतः वर्तते । गुन्तकल्, सिकिन्दराबाद्, हुग्ली, गुण्टूरु, मद्रास्, मुम्बई प्रदेशान् प्रति रेल्मार्गाः सन्ति । अस्य मण्डलस्य ,प्राक्दिशि प्रकाशं मण्डलं, पश्चिमायां कर्णाटकराज्यम्, उत्तरे महबूबनगरमण्डलम्, दक्षिणे च अनन्तपुरम्, कडपा च सीमायां विराजन्ते ।

कृषिः वाणिज्यं च [सम्पादयतु]

सुधाशिला खनिजं ९०% अस्मिन् मण्डले एव विरलतया लभ्यते । अयसः धातुः ओकर्, श्वेतमृत्तिका इत्यादीनि अत्रैव उपलभ्यन्ते । एम्मिगनूरु वस्त्रपरिश्रमा, पाण्ये सुवर्णा सिमेण्ट इत्यादि १४ बृहत् सिमेण्ट् कर्मागाराः वर्तन्ते । मण्डले ७०% भूम्यां सेद्यं क्रियते । व्रीहिः कलायः आढ्की इत्यादिसस्यानि उप्यन्ते । आम्रफलानि, भिण्डिः पलाण्डुः इत्यादिशाखानां सेद्यं कृषकाः कुर्वन्ति । तुङ्गभद्रा, हगिरि, कुन्देरु, सिगिलेरु इत्याद्युपनदीभ्यः, हन्द्रीनदीद्वारा च जलं प्रेष्यते । श्रीशैले विद्यमानजलविद्युत्केन्द्रद्वारा विद्युदुत्पादनं क्रियते ।

वीक्षणीयस्थलानि [सम्पादयतु]

मन्त्रालयस्थितः राघवेन्द्रमठः, अहोबिलस्थः नरसिंहस्वामिदेवालयः, महानन्दिशिवालयः, श्रीशैलपुरस्य भ्रमराम्बा-मल्लिकार्जुनस्वामि-देवालयः, सङ्गमेश्वरस्थः ईश्वरालयाश्च भक्तान् पारवश्यं नयन्ति ।

तालूकाः [सम्पादयतु]

बाह्यसम्पर्कतन्तुः [सम्पादयतु]