कर्मयोगः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

भारतीयविचारानुसारेणा आत्मोन्नतिं साधयितुं चत्वारो मार्गाः उपदिष्टाः सन्ति- ज्ञानमार्गः, भक्तिमार्गः, कर्ममार्गः योगमार्गश्च । स्वनामधन्यैः श्रीरमणमहर्षिभिः अत्यन्तसरलरीत्या एतेषां चतुर्णां मार्गाणां विवेचनं कृतम् उपलभ्यते ।

हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

कर्मयोगमार्गः[सम्पादयतु]

  1. किमपि कर्मफलं प्राप्तुः कर्ता, करणं तथा क्रिया इति अस्याः त्रिपुटेः आवश्यकता अस्ति । परन्तु एतेषु किमपि स्वतन्त्ररीत्या कर्मफलम् उत्पादयितुं न शक्नोति । लाङ्ग्लः स्वयमेव भूमिं कर्ष्टुं न समर्थः । कर्तुः अभावे क्रियायाः अस्तित्वमेव न संभवति । यदि कर्ता जीवः एव कर्मफलम् उत्पादयति इति चेत् स न कदापि अनिष्टं फलं प्राप्नुयात् । अपि तु सदैव इष्टफ्लमेव लभेत । परन्तु प्रत्यक्षं तथाविधं कार्यजातं न दृष्टिपथम् आयाति । एतावता एतत् सिध्दं यत् कर्मफलप्रदायिनी कापि भिन्ना शक्तिः वरीवर्ति । सा शक्तिः एव ईश्वरनाम्ना निर्दिश्यते ।
  2. तथैव पूर्व निर्मिते अस्मिन् जगति एव प्राणिनः जन्मग्रहणं कुर्वन्ति । केनापि जीवेन स्वस्य निर्मितिः स्वयमेव कृता न वा स्वजन्मानन्तरं जगद् इदम् उत्पादितम् । किमपि कार्यम् निर्मात्रा विना नैव संभवति । विना ज्ञानं शक्तिं वा किमपि निर्माणकार्यं भवितुं नैव शक्यम् । अयं सर्वज्ञः सर्वशक्तिमान् निर्माता एव ईश्वरः । मनुष्यः केवलम् ईश्वरप्रदत्तशक्तेः आधारेण एव स्वजीवनं सुखपूर्णं कर्तुं प्रयतते । स प्रकृतिनियमैः विरुध्दं गन्तुं न प्रभवति ।
  3. मनुष्यः ईश्वरस्य अस्तित्वं नानुमोद्य अहमेव कर्ता इति मत्वा कर्मानुष्ठाने प्रवृत्तो भवति सुखं च अभिलषति । परन्तु किमपि कार्यं देशः कालः पुरुषस्य क्षमता इत्यादिभिः मर्यादितम् अत एव अनित्यं तिष्ठति । अत्र कर्मफलम् अनित्यम् एवं दुःखस्य कारणम् इत्यतः किं तेन कर्म एव त्याज्यम् ? परन्तु कर्मत्यागः तु न संभवति । यतः कर्मणा विना मनुष्यः क्षणम् अपि स्थातुं न प्रभवति । अत एव उच्यते ईश्वरार्पणबुध्द्या एव, फले आसक्तिम् अकृत्वा कृतं कर्म चित्तशुध्दिं संसाध्य मोक्षप्राप्त्यै सहायकं भवति ।
  4. वस्तुतः कर्मफलं कर्मफलेच्छा वा नैव अस्माकं दुःखस्य कारणम् । अपि तु सदैव इष्टं फलमेव लभेय इत्ययम् आग्रहः एव दुःखस्य मूले परमार्थतः तिष्ठति इति सम्यक्तया अवधारणीयम् ।
  5. ईश्वरं कार्याध्यक्षं मत्वा कर्तृत्वाभिमानं परित्यज्य कर्मानुष्ठानम् एव ईश्वरार्पणबुध्दिः इति निगद्यते । देवालये यथा वयं देवताप्रसादं सहर्षं गृह्णीमः तथैव सर्वेषां कर्मणां फलम् ईश्वरनियमानुसारं प्राप्यते इति बुध्द्या तस्य प्रसादरुपेण स्वीकारः कर्तव्यः । प्रसादविषये किं वस्तुजातं कियता प्रमाणेन वा प्राप्यते इत्यस्य विचारं नैव कुर्मः ।
  6. मन्दिरे वर्तमाना इयं प्रसादग्रहणाबुध्दिः यदि कर्मफलप्राप्तिविषयेऽपि अक्षुण्णा स्यात् तर्हि अस्माकं मनः रागः द्वेषः आसक्तिः इत्यादिभिः अस्पृष्टं तिष्ठेत् । इदमेव शुध्दं मनः इति कथ्यते । अस्मिन् मनसि एव आत्मज्ञानप्राप्तेः योग्यता निवसति ।
  7. संक्षेपेण इदं वक्तुं शक्यते यत् कर्तृत्वस्य अभिमानं कर्मफले च आसक्तिम् अपरित्यज्य कृतं कर्म बन्धनस्य कारणं भवति । परन्तु ईश्वरं कार्याध्यक्षं तथा कर्मफलदातारं मत्वा कृतं कर्म चित्तशुध्दिं संसाध्य मोक्षप्राप्त्यै सहायकं भवति । इत्येवंविधया ईश्वरार्पणाबुध्द्या कृतं कर्म एव ‘कर्मयोगः’ इति नाम्ना अभिधीयते ।
"http://sa.wikipedia.org/w/index.php?title=कर्मयोगः&oldid=282184" इत्यस्माद् पुनः प्राप्तिः