०३. कर्मयोगः
अयं च अध्यायः कर्मयोगनाम्ना अभिधीयते । अस्मिन्नध्याये प्राधान्येन कर्मणः विषये चर्चितं वर्तते ।
गीतायाः पूर्वं मीमांसाशास्त्रे कर्मणो महत्त्वं स्वीकृतम् आसीत् । जैमिनिना तु वेदस्य प्रयोजनमेव कर्मणः प्रतिपादनं कथितम् । तत्र कर्मणः अभिप्रायः यज्ञेन प्रतिपादितम् । गीतायामपि ‘यज्ञ’ शब्दस्य प्रयोगो विस्तृतार्थे विहितः । निः स्वार्थबुद्ध्या क्रियमाणं परमात्मानं प्रति उपयन्तारं निखिलं कर्मजातं ‘यज्ञ्’ मेवास्ति । यज्ञास्तु अनेकधा प्रतिपादिताः । यथा –द्रव्ययज्ञः, तपोयज्ञः, ज्ञानयज्ञश्चेति । श्रीमद्भगवद्गीताया अवधारणाऽस्ति यत् फलाकांक्षाया दृष्टिकोणेन अक्रियमाणानि कर्माणि कदापि बन्धनं नोत्पादयन्ति किन्तु कर्मचक्रात् न कश्चिदपि प्राणी पलायनं कर्त्तुं शक्नोति । यतो हि प्राणिनां जीवनयात्राया मुख्य आधारः कर्म एवास्ति । क्षणमपि कश्चिदपि प्राणी कर्म न कुर्वन् नैव तिष्ठति । सत्त्वादिगुणत्रयस्य प्रभावात् प्राणी सदैव कर्म कुर्वाणो विद्यते ।
लौकिककर्मसु वासनाख्यो दोषो भवति । अनेनैव दोषेण कर्त्ता बन्धने निपति, कर्मणा बद्धो भवति च । फलाकांक्षा अथवा आसक्तिरुपिण्या वासनाया एव अपरं स्वरुपम् अस्ति । यथा कामनया इच्छया वा कर्म क्रियते, तस्य कर्मणः फलन्तु अवश्यमेव भोक्तव्यं भवति । यद्यपि तत्फलभोगात् प्राणी पृथक न भवितुं शक्नोति, तथापि फलस्य बन्धनात् अवश्यं मुक्तिं लब्धुं शक्नोति । कर्मणां क्रियमाणतायां यदि एतादृशं कौशलं भवेत्, तदैव कर्मणा तस्य भोगो भवति । कर्मयोगस्य सार्थकताऽपि अस्मिन्नेवास्ति । अतएवोक्तम् –“योगः कर्मसु कौशलम्” इत ।
कर्मयोगे प्रवृत्त्यर्थं त्रिविधस्याचरणस्य उपयोगिता श्रीमद्भगवद्गीतायां सम्प्रोक्ता । तत त्रिविधमाचरणमत्रोल्लेखनीयमस्ति –(१) फलाकांक्षां वर्जयेत् (२)कर्त्तृत्वे अहंकारं परित्यजेत् (३) स्वक्रियमाणं कर्मजातम् ईश्वराय अर्पयेत् चेति । श्रीमद्भगवद्गीतायास्तु उपदेशोऽस्ति यत् प्राणिनां कर्मकरणे एवाधिकारो वर्तते, कर्मफलस्योपभोगे तेषामधिकारो नास्ति –
- कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
- मा कर्मफलहेतुर्भुर्मा ते सङ्गोऽस्त्वकर्मणि ॥
भगवतः श्रीकृष्णस्येदं कथनं कर्मयोगस्य चतुस्सूत्री अस्ति । अत्र कर्मणां परित्यागस्य शिक्षा नैव प्रद्त्ता अपितु कर्मफलस्य परीत्यागविषये स्वोपदेशो विहितः । कर्मफलस्य परित्यागोऽपि ‘संन्यास’ इति नाम्ना विज्ञायते । गीतोक्तम्तेन कर्मपरित्यागः संन्यासो नास्ति –
- काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ॥
कर्मफल विषये चत्वारः सिद्धान्ताः प्रतिपादिताः सन्ति (१) प्रमादवशात् फलेच्छाया अभावः अथवा कर्मप्रवृत्तेरभावः (२) फलाकाङ्क्षया तदुचितकर्मणां निष्पादनम् (अयमेव गीतायामुक्तो निष्काकर्ममार्गोऽस्ति )
| भगवद्गीतायाः अध्यायाः |
|---|
श्लोकानाम् आवलिः [सम्पादयतु]
- ३.१ ज्यायसी चेत् कर्मणस्ते
- ३.२ व्यामिश्रेणेव वाक्येन
- ३.३ लोकेस्मिन् द्विविधा
- ३.४ न कर्मणामनारम्भात्
- ३.५ न हि क्श्चित् क्षणमपि
- ३.६ कर्मेन्द्रियाणि संयम्य
- ३.७ यस्त्विन्द्रियाणि मनसा
- ३.८ नियतं कुरु कर्मत्वम्
- ३.९ यज्ञार्थात् कर्मणोन्यत्र
- ३.१० सहयज्ञाः प्रजाः सृष्ट्वा
- ३.११ देवान् भावयतानेन
- ३.१२ इष्टान् भोगान् हि
- ३.१३ यज्ञशिष्टाशिनः
- ३.१४ अन्नाद्भवति
- ३.१५ कर्म ब्रह्मोद्भवम्
- १.१६ एवं प्रवर्तितं चक्रम्
- ३.१७ यस्त्वात्मरतिरेव स्यात्
- ३.१८ नैव तस्य कृतेनार्थो
- ३.१९ तस्मादसक्तः सततम्
- ३.२० कर्मणैव हि
- ३.२१ यद्यदाचरति
- ३.२२ न मे पार्थास्ति
- ३.२३ यदि ह्यहं न
- ३.२४ उत्सीदेयुरिमे
- ३.२५ सक्ताः कर्मण्यविद्वांसो
- ३.२६ न बुद्धिभेदं
- ३.२७ प्रकृतेः क्रियमाणानि
- ३.२८ तत्त्ववित्तु महाबाहो
- ३.२९ प्रकृतेर्गुणसंमूढः
- ३.३० मयि सर्वाणि
- ३.३१ ये मे मतमिदं
- ३.३२ ये त्वेतदभ्यसूयन्तो
- ३.३३ सदृशं चेष्टते
- ३.३४ इन्द्रियस्येन्द्रियस्यार्थे
- ३.३५ श्रेयान् स्वधर्मो
- ३.३६ अथ केन प्रयुक्तः
- ३.३७ काम एष क्रोधः
- ३.३८ भूमेनाव्रियते वह्निः
- ३.३९ आवृतं ज्ञानं
- ३.४० इन्द्रियाणि मनो
- ३.४१ तस्मात्वमिन्द्रियाणि
- ३.४२ इन्द्रियाणि पराणि
- ३.४३ एवं बुद्धेः परं