कळस

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कळस

कळश
नगरम्
राष्ट्रम्  भारतम्
ऱाज्यम् कर्नाटकरज्यम्
मण्डलम् चिक्कमगळूरुमण्डलम्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
577 124
दूरवाणीकूटसंख्या 08269
कळसेश्वरदेवालयः

कळस (Kalasa) कर्णाटकस्य चिक्कमगळूरुमण्डले विद्यमानं किञ्चन क्षेत्रम् । अत्र कळसेश्वरस्य (शिवस्य) देवालयः प्रसिद्धः । अगस्त्यमहामुनेः जन्मस्थलम् अस्ति एतत् क्षेत्रम् । कुम्भसम्भवः कुम्भोद्भवः इति च मुनेः नामनी स्तः । तस्य कारणात् ग्रामस्य कळस (कन्नडभाषया कळस इत्यस्य कुम्भः इत्यर्थः) इति नाम आगतम् । भद्रानद्याः कारणतः इदं स्थलं द्वीपः इव जातः अस्ति । अत्र पञ्चतीर्थानि सन्ति । प्रमुखः विशेषः नाम भद्रानदीतीरे स्थितं कळसेश्वरं वरयितुं काशीतः आगता गिरिजाम्बा अपि अत्र पूजिता भवति । फेब्रुवरी-मार्च मासयोः अत्र त्रिदिनात्मकः रथोत्सवः प्रचलति ।

मार्गः[सम्पादयतु]

मूडिगेरेतः ५५ कि.मी ।
चिक्कमगळूरुतः ९७ कि.मी
बेङ्गळूरुतः २५९ कि.मी ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कळस&oldid=360804" इत्यस्माद् प्रतिप्राप्तम्