कश्यपः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

अयं कश्चन महर्षिः । ब्रह्मणः पुत्रेण मरीचिमहर्षिणा कर्दमपुत्र्या कलायां जातः । अनेन अदितिः, दितिः, दनुः, कला, दनायुः, सिंहिका, क्रोधा, प्राधा, विश्वा, विनता, कपिला, मुनि, कद्रु - इत्येताः त्रयोदश दक्षपुत्रीः परिणीतवान् । सृष्टिकार्ये चतुर्मुखस्य अनन्तरम् अयमेव प्रमुखः ।
कश्यपः कदाचित् यज्ञं कर्तुम् इच्छन् गाः वरुणात् आनीतवान् । यज्ञस्य अनन्तरं यद्यपि बहुधा पृष्टः तथापि गाः न प्रत्यर्पितवान् । क्रुद्धः वरुणः लोभग्रस्तं कश्यपं तत्पत्न्यौ च उद्दिश्य मनुष्यजन्म प्राप्नुवन्तु इति शप्तवान् । गाः बन्धने स्थापितवन्तः इत्यतः कारागारवासः अनुभूयताम् इत्यपि शापं दत्त्वा चतुर्मुखस्य समीपं गत्वा सर्वं न्यवेदयत् । चतुर्मुखः पौत्रं कश्यपम् आहूय अवदत् - सर्वज्ञः सन् अपि भवता लोकपालस्य वरुणस्य गावः किमर्थं न प्रत्यर्पिताः ? भूभारहरणाय धर्मसेतुस्थापनाय च भवान् भूलोके जन्म प्राप्नोतु इति ।
अदितिः दितेः पुत्रान् सर्वान् संहृतवती । इदं दुःखम् असहमाना दितिः 'भवत्याः पुत्राः अपि जन्मसमनन्तरमेव मरणं प्राप्नुवन्तु । भवती अपि पुत्रशोकम् अनुभवतु । इन्द्रः अपि लोभग्रस्तः सन् एतादृशानि नीचकार्याणि कृतवान् इत्यतः सः अपि राज्यभ्रष्टः भवतु' इति शापम् अयच्छत् ।
वरुणस्य शापानुसारं कश्यपः दिति-अदितिभ्यां सह भूलोके २८तमे द्वापरयुगे वसुदेवरूपेण देवकी-रोहिणीभ्यां सह जन्म प्राप्नोत् । देवक्याः षट् पुत्राः अपि जननसमनन्तरमेव कंसेन संहृताः अभवन् । इन्द्रः देवलोकाधिपत्यात् च्युतः जातः । तदा देवताः बृहस्पतेः द्वारा अश्वमेधयागम् अकारयन् । तस्मात् इन्द्रः ब्रह्महत्यादोषात् मुक्तः जातः । पुत्रकामेष्टिद्वारा बहून् पुत्रान् प्राप्नोत् । आदित्यः, दैत्यः, दानवः, गरुडः, गन्धर्वः, नागः, पशुः, पक्षी, वृक्षः, गुल्मलतादयः अस्य सन्ततिः । अस्य १७ पत्न्यः । विष्णुः अदिति-कश्यपयोः पुत्रः सन् वामनरूपेण जन्म प्राप्नोत् ।
कदाचित् काश्यपः परशुरामेण अश्वमेधयागम् आचरय्य दक्षिणारूपेण भूमण्डलं प्रतिगृहीतवान् । अतः एव भूमिः 'काश्यपी' इति कथ्यते ।
अयं गोत्रप्रवर्तकेषु महर्षिषु आदिमः अस्ति । अयं मन्त्रद्रष्टा । अज्ञातगोत्राः कश्यपमेव स्वस्य मूलपुरुषं मन्यमानाः काश्यपगोत्रीयाः इति घोषयितुम् अर्हन्ति इति बोधयन्ति धर्मशास्त्राणि । (लिङ्गपुराणम् ६३)
अस्य वैश्वानरस्य कुमर्यौ काला पुरोमा च पत्न्यौ आस्ताम् । कालया राक्षसाः कालकेयाः जाताः । पुलोमया राक्षसाः पौलोमाः जाताः । पर्वतनामकः देवर्षिः, विभण्डकनामकः ब्रह्मर्षिश्च अस्य पुत्रौ । अन्ये अपि पुत्राः आसन् इति श्रूयते ।

  1. दितिः - दैत्याः
  2. अदितिः - आदित्याः (देवताः)
  3. दनुः - दानवाः
  4. दनायुः - सिद्धाः
  5. प्राधा - गन्धर्वाः
  6. मुनिः - अप्सरसाः
  7. सुरसा - यक्षाः नागाः
  8. इला - वृक्ष-लता-तृणजातयः
  9. क्रोधवशाः - मांसहारिणः दुष्टमृगजातयः
  10. ताम्रा - अश्व-अश्वतर-गर्दभ-श्येन-गृध्रादयः
  11. कपिला (सुरभिः) - गावः
  12. विनता - अरुण-गरुडादयः
  13. कद्रू - सर्पजातयः
"https://sa.wikipedia.org/w/index.php?title=कश्यपः&oldid=431472" इत्यस्माद् प्रतिप्राप्तम्