कस्तूरबा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
कस्तूरबा गान्धी

तन्तुकरणयन्त्रं चालयन्ती कस्तूरबा
जन्मतिथिः ११/४/१८६९
जन्मस्थानम् पोरबन्दर-नगरं, गुजरातराज्यं, भारतम्
मृत्युतिथिः २२/२/१९४४
मृत्युस्थानम् पुणे-महानगरं, महाराष्ट्रराज्यं, भारतम्
गुरुः/गुरवः मोहनदास करमचन्द गान्धी
तत्त्वचिन्तनम् योगः कर्मसु कौशलम् । (श्रीमद्भवद्गीतायाः वाक्यम्)
महात्मनः अर्धम् अङ्गम् ।

कस्तूरबा गान्धी (गुजराती: કસ્તૂરબા ગાંધી, हिन्दी: कस्तूरबा गान्धी, आङ्ग्ल: Kasturba Gandhi) महात्मनः अर्धम् अङ्गम् । भारतीयस्वतन्त्रतासङ्ग्रामे तस्याः महत् योगदानं वर्तते । स्वास्थ्यस्य विचारमपि अकृत्वा सत्याग्रहान्दोलनाय स्वयोगदानम् अयच्छत् सा । उन्नतपर्वतस्य समीपस्थानि लघुशिखराणि यथा स्वस्य औन्नत्यं सिद्धं कर्तुं न शक्नुवन्ति, तथैव महात्मनः विशालव्यक्तित्वस्य छायायां कस्तूरबा स्वप्रतिभां सिद्धयितुं न शक्तवती । परन्तु उन्नतपर्वतस्य औन्नत्यस्य आधारस्तु समीपस्थानि लघु शिखराणि एव भवन्ति । तथैव महात्मनः विशालव्यक्तित्वस्य एकः आधारः कस्तूरबा अपि आसीत् । सा सुख-दुःखेषु महात्मना सह स्थित्वा पत्नीधर्मस्य, राष्ट्रधर्मस्य च दायित्वम् अवहत् ।

जन्म परिवारश्च[सम्पादयतु]

गुजरातराज्यस्य सौराष्ट्रविभागस्य पोरबन्दरमण्डलस्य केन्द्रमस्ति पोरबन्दर-नगरम् । तस्य पोरबन्दर-नगरस्य वैष्णवकुलोत्पन्नः प्रतिष्ठितः वणिक् (merchant) गोकुलदास मकनजी इति । तस्य वणिजः पत्न्याः नाम व्रजकुंवरी । गोकुलदास-व्रजकुंवरी-इत्यनयोः पञ्च शिशवः आसन् । परन्तु रोगादिकारणेन त्रयाणां पुत्राणां मृत्युः अभूत् । अतः तयोः एका पुत्री, एकः पुत्रः एवं द्वौ सन्तानौ एव अवशिष्टौ । सा एव बालिका महात्मनः अर्धाङ्गिनी, स्वातन्त्र्यक्रान्तिकारी कस्तूरबा । तस्याः अनुजस्य नाम माधवदासः । १९६९ तमस्य वर्षस्य 'अप्रैल'-मासे कस्तूरबा इत्यस्य जन्म अभूत् । गोकुलदासस्य आर्थिकस्थितिः मध्यमा आसीत् । गृहे सन्तोष-विकासयोः वातावरणत्वात् कौटुम्बिकजीवनं शान्तियुतम् आसीत् । बालिका नाध्यापनीया इति कुप्रथा तदानीन्तने काले सर्वेषु ग्रामेषु प्रचलितासीत् । अतः कस्तूरबा निरक्षरतायामेव बाल्यं यापयत् । तस्याः पितरौ धार्मिकौ, व्यावहारिकौ चास्ताम् । अतः धर्मस्य, गृहकार्याणां च स्वबालिकायै द्रढतया शिक्षणं दत्तवन्तौ तौ । कस्तूरबा यदा सप्तवर्षीया आसीत्, तदैव सार्धषड्वर्षीयेन मोहनेन सह तस्याः विवाहं निश्चितं कृतवन्तौ तस्याः पितरौ ।

विवाहः[सम्पादयतु]

कस्तूरबा-महात्मनोः विवाहस्य निश्चयः यदा अभूत्, तदा मोहनः प्रथमकक्षायां पठन् आसीत् । गृहजनाः वध्वः स्मरणं कुवन्तः आसन् । अतः मोहनस्यापि इच्छाभूत् यत्, अहमपि वधूं द्रष्टुम् इच्छामीति । मोहनस्य आग्रहेण एकवारं पुतळीबाई वधूम् आहूवती । वधूः यदा गृहं गतवती आसीत्, तदा सर्वे मोहनं बोधयन्ति स्म यत्, “तया सह न स्थातव्यम् । तया सः न क्रीडनीयम्” इति । अतः मोहनः तया सह नाभाषत् । ततः मोहनस्य गृहं कस्तूरबा बहुवारं गतवती । परन्तु गृहजनानाम् आदेशत्वात् मोहनः तया सह कदापि सम्भाषणं नाकरोत् । ततः त्रयोदशे वयसि तयोः विवाहः अपि अभूत् । एतादृशस्य बालविवाहस्य वर्णनं सद्यः अस्मभ्यं हासस्य विषयः स्यात् । परन्तु तदा एतादृशी स्थितिः बहूनां जीवने आसीत् ।

१९१४ तमे वर्षे महात्मा, कस्तूरबा च

कस्तूरबा-महात्मनोः वैवाहिकं जीवनं स्थिरं तु आसीत् । परन्तु वारं वारं तयोः मतभेदाः उद्भवन्ति स्म । विवाहस्य प्रारम्भिके काले तेषाः मतभेदानां बाहुल्यमासीत् । स्वल्पे वयसि विवाहः तु अभूत् । परन्तु परिवार-समाज-व्यवहारादीनां द्वयोरपि ज्ञानं नासीत् । एकेन मित्रेण मोहनः उक्तः, “अहं तु मम पत्नीं यद् वदामि, तदेव सा करोति । माम् अपृष्ट्वा गृहात् बहिः निर्गमने तस्याः साहसं नास्ति ” । ततः गृहम् गत्वा मोहनः अनुभूतवान् यत्, कस्तूरबा तस्मात् न बिभेति इति । स्वतन्त्रस्वभाविनी कस्तूरबा तु स्वेच्छया स्वपारिवारिककार्याणि कुर्वन्ती आसीत् । मन्दिर-आपण-प्रतिवेशिगृहादिस्थलेषु सा श्वश्र्वाः आदेशेन गच्छन्ती आसीत् । मोहनः स्वाधिपत्यं स्थापयितुं प्रायतत । सः गभीरतया अवदत्, “इतः परं त्वं माम् अपृष्ट्वा गृहात् बहिः न गमिष्यसि इति मे आदेशः” । कस्तूरबा विनम्रतया उक्तवती, “भवतु” इति । परन्तु स्वश्र्वाः (mother in law) आदेशमेव सा अनुसरन्ती आसीत् । तेन कुपितः मोहनः तया सह बहु कलहम् अकरोत् । परन्तु पतिव्रता कस्तूरबा सर्वम् असहत ।

सा सर्वदा महात्मनः कार्ये साहाय्यमेव कृतवती । महात्मनः जीवनात् एकमपि उदाहरणं न प्राप्यते, यत्र पत्न्याः कारणात् महात्मनः कार्ये विघ्नमभूत्, कार्यं नष्टं जातं वा । 'मेट्रिक'-पठनाय महात्मा विदेशं गन्तुम् इष्टवान् । परन्तु तस्य पार्श्वे धनं नासीत् । कस्तूरबा सहसा महात्मने स्वस्य सुवर्णाभूषणानि अयच्छत् । तानि आभूषणानि विक्रीय एव महात्मा विदेशं पठनाय अगच्छत् । द्वितीयवारं महात्मा सपरिवारं यदा विदेशम् अगच्छत्, तदा निरक्षरा कस्तूरबा परिवारस्य पालनं कृतवती । महात्मना स्थापितस्य साबरमती-आश्रमस्य सञ्चालनं कस्तूरबा एव करोति स्म । तस्याः व्यावहारिकज्ञानत्वादेव आश्रमस्य व्यवस्था सुष्ठु आसीत् । लवण-आभूषण-'कोफि'पेयत्यागं, ब्रह्मचर्यपालनं च कृतवती, पतिपथगामिनी कस्तूरबा सर्वदा सारल्येन जीवनं यापयत् ।

सत्याग्रहाय कारावासः[सम्पादयतु]

दक्षिण-आफ्रिका-देशे यदा सपरिवारं महात्मा वसन् आसीत्, तदा हिन्दु-मुस्लिम-पारसी-धर्माधारितः विवाहः नियमविरुद्धः इति निर्णयम् अकरोत् दक्षिण-आफ्रिका-देशस्य न्यायालयः । हिन्द्वादिधर्मेण विवाहितः दम्पती न इति कथनम् आसीत् तस्य नियमस्य । विवाहं विना केनापि पुरुषेण सह कापि स्त्री वसति चेत्, सा वेश्या एव इति न्यायालयस्य भावः आसीत् । तस्य नियमस्य विरोधार्थं महात्मा सत्याग्रहस्य निर्णयमकरोत् । कस्तूरबा रुग्णा आसीत् । अतः महात्मा तां सत्याग्रहे योगदानाय नापृच्छत् । परन्तु कस्तूरबा महात्मानम् आदिशत यत्, "अहमपि एतस्मिन् सत्याग्रहे भागं वहिष्यामि" । महात्मा ताम् अबोधयत्, “भार्ये ! तव स्वास्थ्यं समीचीनं नास्ति । त्वं कारागारयातनां सोढुं न शक्ष्यसि । अतः त्वं गृहे एव तिष्ठ” । कस्तूरबा प्रत्यवदत्, “भवान्, अन्याः स्त्रियः, तव बालकाः च कारागारयातनां सोढुं शक्नुवन्ति । कारागारयातनां सोढुं या न शक्नोति, सा अहम् एकाकिनी एवास्मि किम्” ? ततः कस्तूरबा अपि सत्याग्रहाय स्वयोगदानं अयच्छत् । कारावासे तस्याः जीवनं बहु दुष्करम् आसीत् । कारागारस्य भोजनम् अखादन्ती सा पञ्चदिनं यावत् उपवासम् अकरोत् । ततः स्वल्पानि फलानि दत्तानि कारावासाधिकारिभिः । परन्तु सामान्यजनस्य प्रातःकालस्य अल्पाहारादपि तानि फलानि न्यूनानि आसन् । सा प्रतिदिनं कारागाराधिकारिभिः दत्तानि फलानि भुक्त्वैव जीवति स्म । कारावासस्य यातनासमनन्तरं स्वजनानां सम्मुखं यदा सा प्रप्रथमवारम् अगच्छत्, तदा सर्वे तां दृष्ट्वा अतिदुःखिताः अभूवन् । सर्वेषाम् अक्षिण्योः अश्रूणि आसन् । कस्तूरबा अस्थिवदेव दृश्यते स्म । ततः बहु कालानन्तरं तस्याः स्वस्थ्यं सम्यगभूत् ।

भारतस्वतन्त्रतायां योगदानम्[सम्पादयतु]

चम्पारणमण्डलस्य सत्याग्रहः[सम्पादयतु]

१९१५ तमस्य वर्षस्य ‘मई’-मासस्य पञ्चविंशति(२५)तमे दिनाङ्के महात्मा कर्णावती-महानगरे कोचरब-आश्रमस्य स्थापनाञ्चकार । ततः भारतस्वातन्त्र्यस्य प्रथमः सत्याग्रहः महात्मना बिहारराज्यस्य चम्पारणमण्डलात् आरब्धः । कस्तूरबा ग्रामजनानां स्वास्थ्यस्य दायित्वं स्वीकृतवती । सा ग्रामे अटन्ती प्रतिगृहं गत्वा बालानां, स्त्रीणाञ्च स्वास्थ्यविषये पृच्छति स्म । कस्मिंश्चित् गृहे कापि महिला रुग्णा अस्ति चेत् तस्याः सेवा कर्तव्या इति तस्याः कार्यम् । सा ग्रामजनानां मातृवत् सेवाम् अकरोत् । ग्रामजनाः अपि तां मातृत्वेन पश्यन्ति स्म । स्वल्पे काले आन्दोलनार्थं जनजागृतिरपि अभवत्, जनसेवापि । चम्पारणमण्डलस्य सत्याग्रहस्य समाप्तिसमनन्तरं खेडासत्याग्रहस्य आरम्भः अभवत् । अतः महात्मा तया सह खेडामण्डलम् अगच्छत् ।

खेडामण्डलस्य सत्याग्रहः[सम्पादयतु]

कस्तूरबा खेडामण्डलेऽपि जनसेवायाः दायित्वं स्व्यकरोत् । अतः ग्रामस्य स्त्रीभिः सह तस्याः भावनात्मकसम्बन्धः आसीत् । सत्याग्रहसमर्थकाः ये ग्रामजनाः आसन्, तेषां गृहे यत्किमपि आसीत्, तत् कररूपेण सर्वकाराधिकारिणः बलात् आपकर्षन् । ते यानि वस्तूनि बलात् आपकर्षन्, तेषु गृहस्य दैनिकोपयोगीनि वस्तूनि अपि आसन् । दैनिकोपयोगीनि वस्तूनि ते नीतवन्तः । अतः स्त्रियः भोजनं पक्तुं न शक्तवत्यः । बालकाः, वृद्धाः, रुग्णाः च बुभुक्षया त्रस्ताः अभवन् । सर्वकाराधिरिणां काण्डविषये कस्तूरबा ज्ञातवती । सा ग्रामस्थानां दुःस्थितिसमाचारं श्रुत्वा ग्रामजनानां स्थितिं दृष्टुं तत्र प्राप्तवती । तत्र सा स्त्रीभ्यः अवदत्, “अस्माकं पतयः सत्याय सर्वकारस्य विरोधं कुर्वन्तः सन्ति । तस्मिन् विरोधे अस्माभिः तेषां समर्थनं कर्तव्यमेव । सर्वकारेण अस्माकं जीवने यानि दुःखानि जनितानि, तानि सोढनीयानि एवास्माभिः । अस्मिन् वर्षे अस्माकं ग्रामे यद्यपि सस्योत्पत्तिः नाभूत्, तथापि सर्वकारः करं याचते इति तु अमानवीयमेव । अतः यावत् दुःखं सोढव्यं भवति, तावत् सोढयिष्यामः । परन्तु सर्वकाराय धनं न दास्यामः इति प्रतिज्ञां तु न त्यक्ष्याम एव” । अस्य भाषणस्य बहु प्रभावः जातः । सर्वे दृढतया सत्याग्रहान्दोलनाय योगदानं दत्तवन्तः । ततः खेडामण्डलसत्याग्रहः सफलः अभवत् ।

बारडोलीमण्डलस्य सत्याग्रहः[सम्पादयतु]

बारडोलीमण्डले यदा कस्तूरबा आसीत्, तदा तस्याः स्वास्थ्यं समीचीनं नासीत् । यस्मिन् ग्रामे सा आसीत्, तस्मिन् ग्रामे विभिन्नानां रोगाणां प्रभुत्वमासीत् । ग्रामस्य बहवः जनाः रुग्णाः आसन् । रुग्णतायाः दुःखेन सह सर्वकारस्य अत्याचारः अपि ग्रामजनानां दुःखम् अवर्धत । कस्तूरबा स्वस्य स्वास्थ्यस्य चिन्ताम् अकृत्वैव रोगिणां सेवामकरोत् । ग्रामे ये स्वस्थाः जनाः आसन्, तेषु कार्यविभाजनं कृतवती कस्तूरबा स्वस्य प्रबन्धनगुणानां परिचयम् अयच्छत् । ग्रामस्थानां प्रतिष्ठितजनानां साहाय्येन वैद्यान् आहूतवती कस्तूरबा रोगिणां सेवाकार्यं प्रारभत । ततः अन्येषु ग्रामेषु अपि रोगिणां स्थितिः दयनीया अस्ति इति सन्देशं प्राप्तवती सा प्रतिग्रामम् अटन्ती जनसामान्यानां सेवाम् अकरोत् । महात्मनः अहिंसा-सत्य-स्वनिर्भरतादीनां भाषणं जनसामान्यानां बुद्धौ न गच्छति स्म । परन्तु सेवां कुर्वन्ती कस्तूरबा अहिंसा-सत्य-स्वनिर्भरतादीनां सरलभाषायां ग्रामजनेभ्यः ज्ञानम् अयच्छत् । तस्य परिणामेन सत्याग्रहविषये जनजागृतिः भवति स्म । अन्ततो गत्वा तत् आन्दोलनमपि सफलम् अभू्त् ।

भारत छोडो’-आन्दोलनम्[सम्पादयतु]

१९४२ तमस्य वर्षस्य 'अगस्त'-मासस्य प्रथमे सप्ताहे कोङ्ग्रेस-पक्षस्य महासमित्या ‘भारत छोडो’-आन्दोलनस्य निर्णयः कृतः । 'अगस्त'-मासस्य नवमे (९) दिनाङ्के प्रातः सार्धपञ्चवादने सर्वकाराधिकारिणः महात्मानं, महादेवं, मीरां च कारागारम् प्रैषयन् । आरक्षकेन कस्तूरबा उक्ता, “भवती अपि एतैः सह कारागारम् आगन्तुं शक्नोति” इति । परन्तु महात्मा उक्तवान्, “त्वं मया विना स्थातुं न शक्नोषि चेत् अस्माभिः सह आगच्छ । परन्तु ममेच्छास्ति त्वम् बहिः स्थित्वा मम अवशिष्टानि कर्याणि कुरु” इति । पत्युः कथनं, कार्यं च सिद्धयितुं सा आन्दोलनस्य कार्यं प्रारभत । सा बहुत्र सम्मेलन-गोष्ठी-पदयात्राः अकरोत् । एकस्य सम्मेलनस्य अनन्तरं सुशीलाबेन इति अपरा क्रान्तिकारिमहिला कस्तूरबा इत्यनयाः मुखे चिन्ताम् अपश्यत् । अतः सुशीला अपृच्छत्, “बा ! भवत्याः मुखे एतादृशीं चिन्ताम् अहं कदापि नापश्यम् । किं जातम्” ? कस्तूरबा उदतरत्, “सर्वकारः तं (महात्मानं) न त्यक्ष्यति । ते क्रूराः तस्य हत्यां कर्तुमपि शक्नुवन्ति । आङ्ग्लाः तु पापिनः सन्ति” इति । परन्तु तस्मात् सम्मेलनात् यदा कस्तूरबा बहिः न्यर्गच्छत्, तदा तामपि सर्वकाराधिकारिणः कारागारम् प्रैषयन् । कारागारे उपवासादिकारणात् तस्याः स्वास्थ्यं नष्टमभूत् । अतः एकादशे (११) दिनाङ्के तां पुणे-महानगरस्थं कारागारं प्रैषयन् आङ्ग्लसर्वकाराधिकारिणः । तस्मिन्नेव कारागारे महात्मा-महादेव-मीरा-सरोजिनी नायडु-आदयः बन्दिनः आसन् ।

महादेवस्य मृत्युः[सम्पादयतु]

१९४२ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे (१५) दिनाङ्के कारावासे महादेवस्य मृत्योः समये कस्तूरबा तस्य समीपम् आसीत् । सा महादेवम् अकथयत्, “पश्य महादेव ! बापु आह्वयति । एवं सा बहुवारम् अवदत् । परन्तु देहत्यागं कृतवान् महादेवस्तु किमपि नौत्तरत्” । ततः कस्तूरबा बहु अरोदत् । तस्याः मानसपुत्रः महादेवः तां प्रमुञ्च्य दूरं, बहु दूरम् अगच्छत् । महादेवस्य अन्तिमसंस्कारानन्तरं कस्तूरबा आसन्दे स्थित्वा वारं वारं तस्मै आशीर्वादं यच्छति स्म । "महादेव ! किमर्थं त्वं मां त्यक्त्वा अगच्छः ? अहम् अमरिष्यम् चेद् उचितम् अभविष्यत् । परन्तु त्वं किमर्थम् अस्मान् त्यक्त्वा अगच्छः । ईश्वरस्य कीदृशः न्यायः एषः ? त्वं यत्रासि तत्र सुखी भव" । महादेवः कस्तूरबा इत्यनयाः प्रियपुत्रः आसीत् । सा नित्यं महादेवस्य समाधिं गत्वा तत्र महादेवेन सह सम्भाषणं कुर्वन्ती आसीत् । महादेवस्य मृत्युः कस्तूरबा इत्यस्यै महान् आघातः आसीत् । अतः वारं वारं स्वस्य मृत्योः अपि आलापम् अन्यक्रान्तिकारिभिः सह सा करोति स्म ।

मृत्युः[सम्पादयतु]

अन्तिमदिनेषु कस्तूरबा

एकवारं सरोजिनी नायडु महात्मानम् अवदत्, “बापु ! तव उपवासेन मातुः हृदये आघातः भवति । त्वम् एतत् सर्वं त्यज” । महात्मा प्रत्यवदत्, “कस्तूरबा तु द्विषष्ठिः (६२) वर्षेभ्यः मया सह अस्ति । भवन्तः सर्वे तु अनन्तरम् आगच्छन्, भवद्भ्यः अपेक्षया सा अधिका दृढमना अस्ति । तस्याः चिन्तां मा कुरु” इति । महात्मनः कथनस्य समर्थनं कुर्वन्ती कस्तूरबा अवदत्, “एतावत् असत्याचरणं सर्वकारेण क्रियते चेत् एषः किमर्थं तूष्णीं तिष्ठेत् ? अनेन तु विरोधः कर्तव्यः एव” इति । महात्मा एकविंशतिः (२१) दिनानि उपवारम् अकरोत् । सः मृत्युकूपं गतः तादृशी स्थितिः उत्पन्ना आसीत् । कस्तूरबा आदिनं पूजाकक्षे प्रार्थनामग्ना भवति स्म । तस्मिन् वर्षे अर्थात् १९४३ तमस्य वर्षस्य 'फरवरी'-मासस्य द्वाविंशतितमे दिनाङ्के महात्मा सहसा स्वस्य उपवासम् अत्यजत् । सर्वेभ्यः आश्चर्यमासीत् यत्, महात्मा सहसा कथम् उपवासम् अत्यजत् इति । परन्तु केनापि तस्मिन् विषये बहु न चिन्तितम् । एकवर्षानन्तरम् अर्थात् १९४४ तमस्य वर्षस्य 'फरवरी'-मासस्य द्वाविंशतितमे दिनाङ्के एव कस्तूरबा स्वदेहम् अत्यजत् । एका कल्पना किंवदन्ती वा अस्ति यत्, सति यथा स्वस्य पत्युः प्राणस्य रक्षणार्थं यमम् अप्रार्थयत्, तथैव कस्तूरबा अपि कृतवती स्यात् । सा उक्तवती स्यात् यत्, “मम पत्युः प्राणं त्यजतु । अग्रिमे वर्षे एतस्मिन्नेव दिने अहं त्वया सह आगमिष्यामि” इति ।

कस्तूरबा यदि महात्मना सह नाभविष्यत्, तर्हि यानि कार्याणि महात्मना साधितानि, तानि कार्याणि अपि नाभविष्यन् । कस्तूरबा महात्मनः अर्धमङ्गम् । अतः महात्मा यत्किमपि असाधयत्, तस्यां साधनायाम् अर्धं कस्तूरबा इत्यस्याः अपि ।

सम्बद्धाः लेखाः[सम्पादयतु]

महात्मा गान्धी

महादेवभाई देसाई

मणिबेन

साबरमती आश्रमः

बाह्यानुबन्धाः[सम्पादयतु]

http://www.mkgandhi.org/ourbapu/xv.htm

https://www.sscnet.ucla.edu/southasia/History/Gandhi/Kasturba.html

http://www.kasturbagandhicollege.com/

http://ssa.nic.in/girls-education/kasturba-gandhi-balika-vidyalaya

http://www.rrtd.nic.in/kasturbagandhi.html

नवजीवनप्रेस गुजरातविद्यापीठम्

"http://sa.wikipedia.org/w/index.php?title=कस्तूरबा&oldid=278163" इत्यस्माद् पुनः प्राप्तिः