कांस्ययुगम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
कांस्यकवचम्
चिनकांस्यपात्रम्

यस्मिन् काले मनुष्याः कांस्यभाण्डानि उपयुज्यन्ते स्म सः कालः कांस्यकालः इति कथ्यते। कांस्यं ताम्रबङ्गयोः मिश्रधातुः अस्ति । कांस्योपकरणानि घनतराणि आसन् । पश्चिम-एशियायाम् एव कांस्यं प्रथमं प्रयुक्तम्। कांस्यकाले अनेकाः संस्कृतयः सञ्जाताः । नदीतीरेषु अनेकाः संस्कृतयः पुष्णान्ति स्म । अयः कांस्यात् घनतरम् अस्ति । अतः एव अस्मात् युगात् अनन्तरं जनाः अयसः उपयोगम् आरभन्त । भारतस्य कांस्ययुगस्य संस्कृतयः तथा च प्राचीनाः मध्य-एषियायाः संस्कृतयः च समकालीनाः आसन् । कांस्ययुगे प्रमुखरूपेण नागरिकताद्वयं सञ्जातम् । सिन्धुखातस्य नागरिकता वेदकालीनसंस्कृतिः च ।

सिन्धुखातस्य नागरिकता (क्रि पू ३३००तः १५००)[सम्पादयतु]

सिन्धुनद्याः तीरे प्रायः क्रि पू २५००मध्ये जलमातृकम् आरब्धम् । तेन सह प्रगतिपथम् आगता नागरिकता एव सिन्धुखातस्य नागरिकता । एषा नागरिकता क्रि पू २५००तः क्रि पू १९००अवधौ संवृद्धा । एतदवसरे हरप्पा तथा मोहेञ्जोदारो इति नगरद्वयम् आसीत् । एते एव विश्वे प्रथमनगरे इति प्रख्याते । एषा नागरिकता सिन्धोः, तस्याः उपनद्योः गाग्गर्नद्योः हाक्रनद्योः तीरे प्रसृता आसीत् । कालक्रमेण सा पश्चिमदिशि गङ्गायमुनयोः मध्ये विद्यमानस्य दोआब्प्रदेशपर्यन्तं, दक्षिणे इदानीन्तनमहाराष्ट्रराज्यपर्यन्तं, पूर्वदिशि इदानीन्तन-इरान्देशपर्यन्तम्, उत्तरदिशि इदानीन्तन-अफगानस्थानपर्यन्तं प्रसृता । एतदवसरे उत्तमः नगररचनाक्रमः आसीत् । इष्टिकानाम् उपयोगः, बहु-अट्टात्मकानां भवनानां निर्माणं, अन्तर्कुक्कुलीव्यवस्था (कुक्कुली इत्युक्ते मलिनजलप्रवाहनालः) च एतस्याः नागरिकतायाः वैशिष्ट्यम् । तदानीन्तनजनसंख्या ५० लक्षमिता स्यादिति तज्ञानाम् अभिप्रायः ।

भौगोलिकपरिवर्तनानां वातावरणवैपरीत्यानां कारणतः एतस्याः नागरिकतायाः नाशस्य कारणं स्यादिति ऊह्यते । क्रि पू २६००वर्षेभ्यः पूर्वमेव ते जलमातृकव्यवस्थाम्, आहारधान्यानां रक्षणार्थं भाण्डारव्यवस्थां, सार्वजनिकमार्गाणां व्यवस्थाम्, इष्टिकाभिः कुक्कुलीनिर्माण्व्यवस्थां वा ज्ञातवन्तः आसन् ।

वेदकालीनसंस्कृतिः (क्रि पू १९०० तः ५००)[सम्पादयतु]

वेदानां रचना अस्याः वैदिकसंस्कृतेः काले एव वैदिकसंस्कृतेन कृता । वेदाः एव जगति अत्यन्तं प्राचीनाः ग्रन्थाः । तदानीन्तनसंस्कृतिः इण्डो-आर्यन्मूलीया आसीत् । वेदकालस्य आरम्भे तेन समाजेन पशुपालनमेव अवलम्बितम् आसीत् । ऋग्वेदकालानन्तरं सः समाजः कृषिविषये लक्ष्यम् अददात् । तदा वर्णाश्रमपद्धतिः आसीत् । कालक्रमेण लघुराज्यानां मेलनेन कुरु-पाञ्चालसदृशानि महाराज्यानि उदितानि । हिन्दुधर्मस्य प्रधानग्रन्थानां रामायण-महाभारत-भगवद्गीतादीनां रचना अपि तदा एव मुखोक्तरीत्या जाता इति उच्यते । अथर्ववेदस्यापि रचना अस्मिन्नेव काले जाता इति ज्ञायते ।

"http://sa.wikipedia.org/w/index.php?title=कांस्ययुगम्&oldid=231936" इत्यस्माद् पुनः प्राप्तिः