काकमाची

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Belladonna or Deadly Nightshade
Illustration from Köhler's Medicinal Plants 1887
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
गणः Solanales
कुलम् Solanaceae
वंशः Atropa
जातिः A. belladonna
द्विपदनाम
Atropa belladonna
L.
काकमाचीसस्यं, फलं च
काकमाचीपुष्पम्

एषा काकमाची अपि भारते वर्धमानः कश्चन हरितकविशेषः । एषा काकमाची अपि एकविधं सस्यम् अस्ति । अतः एषा काकमाची अपि सस्यजन्यः आहारपदार्थः । एतत् काकमाचीसस्यम् आङ्ग्लभाषायां Belladonna, Devil's Berries, Death Cherries or Deadly Nightshade इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Atropa belladonna इति । अनया काकमाच्या उपसेचनं, ताक्रं, दाधिकम् इत्यादिकं निर्मीयते ।

इयं काकमाची यद्यपि औषधीयं सस्यं तथापि आहारत्वेन अपि उपयुज्यते । अनया काकमाच्या ताक्रं, दाधिकं चपि निर्मीयते । अस्याः काकमाच्याः पर्णं, फलं, पुष्पं चापि औषधत्वेन उपयुज्यन्ते । अस्याः काकमाच्याः फलेषु “सोलानिन्” नामकः अंशः भवति । तस्मिन् “सोलानिन्” – अंशे “शकार” तथा “सोलानिडिन्” नामकौ आल्कलाय्ड् – अंशौ भवतः ।

इतरभाषाभिः अस्याः काकमाच्याः नामानि[सम्पादयतु]

इयं काकमाची आङ्ग्लभाषया “ब्ल्याक् नैर् शेड्” इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Solanumnigrum इति । हिन्दीभाषया“गुक्कमायि” इति, तेलुगुभाषया“कमञ्चिचेट्टु” इति, तमिळ्भाषायां “मनत्तक्कलि” इति, मलयाळभाषया“तुडवलम्” इति, कन्नडभाषया“गणिके” अथवा “कागे गिड” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्याः काकमाच्याः प्रयोजनानि[सम्पादयतु]

अस्याः काकमाच्याः रसस्य रुचिः तिक्तः । इयम् अत्यन्तं शीतला पचनार्थं लघु चापि । १. अस्याः काकमाच्याः फलं हृदयस्य विकारेषु अत्यन्तं हितकरम् । २. अस्याः पर्णस्य रसः हृदयरोगे, चर्मरोगेषु, मूलव्याधौ, “गोनोरिया” रोगे, यकृत् तथा प्लीहवृद्धौ, शोथे च उपयुज्यते । ३. अस्याः काकमाच्याः पुष्पैः, फलैः च निर्मितं कषायं कासे, क्षये च पाययन्ति । ४. अस्याः काकमाच्याः पर्णानि आमवाते, वातरक्ते च लेपनार्थम् उपयुज्यन्ते । ५. वृषणे शोथः, वेदना च अस्ति चेत् अस्याः काकमाच्याः पर्णम् उष्णीकृत्य तदुपरि संस्थाप्यते । ६. चर्मरोगेषु अपि अस्याः पर्णानि लेपनार्थम् उपयुज्यन्ते । ७. अस्याः रसायनं निद्राजनकं, मूत्रलं, शुक्रलं चापि । ८. उष्णविकारं, उष्णजन्यान् रोगान् च इयं काकमाची निवारयति ।

अस्याः काकमाच्याः प्रयोजनानि[सम्पादयतु]

१ अस्य काकमाचीसस्यस्य पर्णानि फलानि च आहारत्वेन, औषधत्वेन च उपयुज्यन्ते ।
२ अस्य फलस्य सेवनेन मुखे जाताः पिटकाः निवारिताः भवन्ति ।
३ एषा काकमाची अत्यन्तं लेखनगुणयुक्ता ।
४ अस्याः काकमाच्याः सेवनेन शरीरस्य औष्ण्यं न्यूनं भवति । औष्ण्यस्य आधिक्येन जातानां रोगाणां निमित्तम् अपि उत्तमम् औषधम् एतत् ।
५ तुषाणां निवारणार्थम् अपि काकमाच्याः पत्राणि कुट्टयित्वा रसं शिरसि लेपयन्ति ।

ताक्रस्य निर्माणम्[सम्पादयतु]

अस्याः काकमाच्याः ताक्रस्य निर्माणम् अपि अत्यन्तं सुलभम् । पत्राणि प्रक्षाल्य नारिकेलेन सह पेषणं करणीयम् । अनन्तरं तत् तक्रे योजनीयम् । तदनन्तरं जीरिकां, हरिन्मरीचिकां च व्याघरणे संयोज्य तस्मिन् ताक्रे योजनीयम् । एतत् ताक्रम् अन्नेन सह सेवितुं, तथैव पातुं च शक्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=काकमाची&oldid=395432" इत्यस्माद् प्रतिप्राप्तम्